इग्यणः सम्प्रसारणम्

1-1-45 इक् यणः सम्प्रसारणम्

Sampurna sutra

Up

इक् यणः सम्प्रसारणम्

Neelesh Sanskrit Brief

Up

यण्-वर्णस्य स्थाने विधीयमानः इक्-वर्णः सम्प्रसारणम् नाम्ना ज्ञायते ।

Neelesh English Brief

Up

An 'इक्' letter that comes as a replacement for a 'यण्' letter is known as सम्प्रसारण.

Kashika

Up

इग् यो यणः स्थाने भूतो भावी वा तस्य संप्रसारणमित्येषा संज्ञा भवति। यज् — इष्टम्। वप् — उप्तम्। ग्रह — गृहीतम्। केचिदुभयथा सूत्रमिदं व्याचक्षते — वाक्यार्थः संज्ञी, वर्णश्चेति। इग्यण इति यो वाक्यार्थः स्थान्यादेशसम्बन्धलक्षणः स संप्रसारणसंज्ञो भवति, यण्स्थानिको य इग्वर्णः स संप्रसारणसंज्ञो भवतीति। तत्र विधौ वाक्यार्थ उपतिष्ठते। <<ष्यङः संप्रसारणम्>> ६.१.१३,<<वसोःसंप्रसारणम्>> ६.४.१३१ इति। अनुवादे वर्णः, <<संप्रसारणाच्च>>६.१.१०८ इति। संख्यातानुदेशादिह न भवति — अदुहितरामिति। संप्रसारणप्रदेशाः — <<वसोः संप्रसारणम्>> ६.४.१३१ इत्येवमादयः॥

Siddhanta Kaumudi

Up

यणः स्थाने प्रयुज्यमानो य इक् स संप्रसारणसंज्ञः स्यात् ॥

Laghu Siddhanta Kaumudi

Up

यणः स्थाने प्रयुज्यमानो य इक् स संप्रसारणसंज्ञः स्यात्॥

Neelesh Sanskrit Detailed

Up

यण् = य्, व्, र्, ल् । इक् = इ, उ, ऋ, ऌ । व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति सम्प्रसारणम् इति संज्ञा । यण्-वर्णस्य स्थाने आदेशरूपेण विधीयमानः इक्-वर्णः अनेन सूत्रेण सम्प्रसारणसंज्ञां प्राप्नोति । अपि च, यण्-वर्णस्य इक्-वर्णे जायमानम् इदं परिवर्तनम् अपि सम्प्रसारणम् इति नाम्ना एव ज्ञायते । क्रमेण उदाहरणानि एतानि — कानिचन उदाहरणानि एतानि — 1. यकारस्य सम्प्रसारणम् इकारः — व्यच्-धातोः क्त-प्रत्यये परे <<ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनाम् ङिति च>> 6.1.16 इति सूत्रेण यकारस्य सम्प्रसारणे कृते अन्तिमम् रूपम् सिद्ध्यति — व्यच् (व्याजीकरणे, तुदादिः, <{6.13}>) → व्यच् + क्त [<<निष्ठा>> 3.2.102 इति क्तप्रत्ययः] → व्यच् + त [इत्संज्ञालोपः] → व्यच् + इट् + त [<<आर्धधातुकस्येड्वलादेः>> 7.2.35 इति इडागमः] → व् इअ च् + इ + त [<<ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनाम् ङिति च>> 6.1.16 इति यकारस्य सम्प्रसारणम् इकारः । अत्र केवलम् 'य्' इत्यस्य स्थाने एव इकारः विधीयते (न हि 'य' इति अक्षरस्य स्थाने), अतः यकारोत्तरः अकारः पृथक् रूपेण दर्शितः अस्ति । ] → व् इ च् + इ + त [<<सम्प्रसारणाच्च>> 6.1.108 इति इकार-अकारयोः पूर्वरूप-एकादेशः इकारः ।] → विचित । 2. वकारस्य सम्प्रसारणम् उकारः — वच्-धातोः क्त-प्रत्यये परे <<वचिस्वपियजादीनां किति>> 6.1.15 इति सूत्रेण वकारस्य सम्प्रसारणे कृते उकारादेशः जायते — वचँ (परिभाषणे, अदादिः, <{2.58}>) → वच् + क्त [<<निष्ठा>> 3.2.102 इति क्तप्रत्ययः] → वच् + त [इत्संज्ञालोपः] → उअच् + त [<<वचिस्वपियजादीनां किति>> 6.1.15 इति वकारस्य सम्प्रसारणम् उकारः । अत्र केवलम् 'व्' इत्यस्य स्थाने एव उकारः विधीयते (न हि 'व' इति अक्षरस्य स्थाने), अतः वकारोत्तरः अकारः पृथक् रूपेण दर्शितः अस्ति । ] → उच् + त [<<सम्प्रसारणाच्च>> 6.1.108 इति उकार-अकारयोः पूर्वरूप-एकादेशः उकारः ।] → उक्त [<<चोः कुः>> 8.2.30 इति कुत्वम्] 3. रेफस्य सम्प्रसारणम् ऋकारः — त्रि-शब्दात् पूरणार्थे <<त्रेः सम्प्रसारणं च>> 5.2.55 इति सूत्रेण तीय-इति प्रत्ययः तथा च सम्प्रसारणम् अपि भवति, येन 'तृतीय' इति शब्दः सिद्ध्यति । प्रक्रिया इयम् - त्रयाणां पूरणम् → त्रि + तीय [<<त्रेः सम्प्रसारणं च>> 5.2.55 इति पूरणार्थे तीय-प्रत्ययः] → त् ऋ इ + तीय [<<त्रेः सम्प्रसारणं च>> 5.2.55 इति त्रि-शब्दस्य रेफस्य सम्प्रसारणे ऋकारः भवति । अत्र केवलम् 'र्' इत्यस्य स्थाने एव ऋकारः विधीयते (न हि 'रि' इति अक्षरस्य स्थाने), अतः रेफोत्तरः इकारः पृथक् रूपेण दर्शितः अस्ति । ] → त् ऋ + तीय [<<सम्प्रसारणाच्च>> 6.1.108 इति ऋकार-इकारयोः पूर्वरूप-एकादेशः ऋकारः ।] → तृतीय 4. ऌकारस्य सम्प्रसारणस्य उदाहरणानि न लभ्यन्ते । सवर्णग्रहणम् प्रकृतसूत्रे इक् इति शब्दः विधीयमानः अस्ति, अतः इक्-इत्यनेन सवर्णग्रहणं न भवति । परन्तु यण्-इति शब्दः विधीयमानः नास्ति, अतः यण्-प्रत्याहारेण सवर्णग्रहणम् अवश्यं भवति । इत्युक्ते - 1) यकारस्य तथा यँकारस्य - उभयोः स्थाने सम्प्रसारणेन इकारः विधीयते । 2) वकारस्य तथा वँकारस्य - उभयोः स्थाने सम्प्रसारणेन उकारः विधीयते । 3) रेफस्य कोऽपि सवर्णः नास्ति, अतः केवलं रेफस्य स्थाने अनेन सूत्रेण ऋकारः विधीयते । 4) ऌकारस्य तथा ऌँकारस्य - उभयोः स्थाने सम्प्रसारेण लकारः विधीयते । सम्प्रसारणम् इति यणादेशस्य विपरीतप्रक्रिया । यणादेशे इक्-वर्णस्य स्थाने यण्-वर्णः आदेशरूपेण विधीयते । तद्विवरीतम् कार्यम् सम्प्रसारणे भवति ।

संप्रसारणसंज्ञायाः सूत्रेषु प्रयोगः अष्टाध्याय्यां सम्प्रसारणसंज्ञा साक्षात् नवसु सूत्रेषु प्रयुक्ता अस्ति । 1. <<ह्वः सम्प्रसारणं च न्यभ्युपविषु>> 3.3.72 2. <<त्रेः सम्प्रसारणं च>> 5.2.55 3. <<ष्यङः सम्प्रसारणं पुत्रपत्योस्तत्पुरुषे>> 6.1.13 4. <<ह्वः सम्प्रसारणम्>> 6.1.32 5. <<न सम्प्रसारणे सम्प्रसारणम्>> 6.1.37 6. <<सम्प्रसारणाच्च>> 6.1.108 7. <<सम्प्रसारणस्य>> 6.3.139 8. <<वसोः सम्प्रसारणम्>> 6.4.131 9. <<द्युतिस्वाप्योः सम्प्रसारणम्>> 7.4.67 अनुवृत्तिरूपेण तु अन्येषु सूत्रेषु अपि अस्याः संज्ञायाः प्रयोगः भवितुम् अर्हति ।

Balamanorama

Up

<<इग्यणः सम्प्रसारणम्>> - विआवागम्, विआवाहौ इति सुटि रूपाणि सुगमत्वादुपेक्ष्य शसादावचि संप्रसारणकार्यं वक्ष्यन् संप्रसरणसंज्ञा दर्शयति — इग्यणः यणः स्थाने इति । व्याख्यानात्स्थानार्थलाभः ।षष्ठी स्थानेयोगे॑ति तु नेह भवति, अनुवादे परिभाषामनुपस्थितेः । षष्ठीश्रुतौ सर्वत्र व्याख्यानादेव स्थानार्थलाभसंभवात् 'षष्ठीस्थानेयोगा' इत्येत॒न्निर्दिश्यमानस्यादेशा भवन्ती॑त्येतदर्थमिति भाष्ये सिद्धान्तितत्वाच्च । संप्रसारणसंज्ञ इति । ततश्च 'वसोः संप्रसारणं'वचिस्वपियजादीना॑मित्यादौ संप्रसारणश्रुतौ यण्स्थानिक इगुपस्थितो भवति । तत्रान्तरतम्याद्यस्य इकारः, वकारस्य उकारः, रेफस्य ऋकारः लस्य ऌकार इति ज्ञेयम् ।

Padamanjari

Up

यणः स्थान इति । कथं पुनरनुवादे स्थानसम्बन्धो लभ्यते ? 'षष्ठी स्थानेयोगा' इत्यत्राधिकारात् । भूत इति । कार्यान्तरार्थमनूद्यमानो भूतः, विधेयस्तु भावती, तत्र च संज्ञिनो भावित्वात् संज्ञापि भविन्येव । यथा-अस्य सूत्रस्य शाटकं वयेति । 'वचिस्वपियजादीनां किति' तद्भवति यस्य भूतस्य सम्प्रसारणसंज्ञा भवतीति । इष्टम्, उप्तमिति । 'वचिस्वपि' इत्यादिना सम्प्रसारणम् । गृहीतमिति । 'ग्रहिज्या' इत्यादिना । 'ग्रहोऽलिटि दीर्घः' । केचिदित्यादि । एवंवदतां भाविनी संज्ञा नाश्रयणीया, स्थानेयोगश्च लभ्यते । 'इग्यणः' इत्यत्र भवतीत्यध्याहारात्पूर्वसूत्राच्चेतिकरणानुवृतेर्यणः, स्थाने इग्भवतीति योऽयं वाक्यार्थ इत्यर्थो लभ्यते । कथं पुनरर्थद्वयमेकस्य सूत्रस्य भवति ? तन्त्रेण,आवृत्या वा । अस्य च लिङ्गं विभक्तिविशेषणिर्देशः । यदयं 'ष्यङः सम्प्रसारणम्' इत्यादौ भाव्यमानविभक्त्या निर्देशां करोति, ततो ज्ञापयति - वाक्यार्थः संज्ञेति । न हि तत्र वर्णस्य सम्भवः । 'सम्प्रसारणस्य' इत्यादौ तु भूतविभक्त्या निर्देशात् ज्ञायते - वर्णः संज्ञीति । न हि तत्र वाक्यार्थः सम्भवति । तत्रेत्यादिना द्वयोरर्थयोर्विषयविभागेनोपस्थानं दर्शयति । अदुहितरामिति । दुहेर्लङ् किर्मकर्तरि उतमैकवचने इटि ङ दुहस्नुनमाम्' इति यकि प्रतिषिद्धे शब्लुकि अदुहि इति स्थिते 'तिङ्श्च' इति तरपि 'किमेतिङ्व्ययघाद्' इत्याम् । तत्र लकारस्य यणः स्थाने इङ्विहित इति संप्रसारणसंज्ञायाम् 'हलः' इति दीर्घत्वं प्राप्नोतीति चोद्यमपाकरोति । सङ्ख्यातानुदेशादिति । तरप उपन्यासोऽङ्गसंज्ञार्थः । सङ्ख्यासाम्यात् संख्यातानुदेशे सति यकारस्थानिकस्येकारस्य संज्ञया भाव्यम्, अयं तु लकारस्थानिकः । द्यौभ्यामित्यत्र 'दिव उत्' इत्युत्वे यणादेशे 'हलः' इति दीर्घत्वं प्राप्तंतपरकरणान्न भवति । अक्षद्यूः, अक्षद्यौवौ, अक्षद्यौव इत्यादावूठः संप्रसारणसंज्ञायाम् शंप्रसारणाच्च' इति पूर्वरूपत्वं प्राप्तम् 'वार्णादाङ्गं बलीयः' इति उवङ बाध्यते ॥