ज्वरत्वरस्रिव्यविमवामुपधायाश्च

6-4-20 ज्वरत्वरस्रिव्यविमवामुपधायाः च क्वि झलोः क्ङिति च्छ्वोः सूठ् अनुनासिके

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

ज्वर त्वर स्रिवि अव मव इत्येतेषामङ्गानां वकारस्य उपधायाश्च स्थान ऊडित्ययमादेशो भवति क्वौ परतोऽनुनासिके झलादौ च क्ङिति। जूः, जूरौ, जूरः। जूर्तिः। त्वर — तूः, तूरौ, तूरः। तूर्तिः। स्रिवि — स्रूः, स्रुवौ, स्रुवः। स्रूतः। स्रूतवान्। स्रूतिः। अव — ऊः, उवौ, उवः। ऊतिः। मव — मूः, मुवौ, मुवः। मूतिः। ज्वरत्वरोरुपधा वकारात् परा, स्रिव्यवमवां पूर्वा॥

Siddhanta Kaumudi

Up

ज्वरादीनामुपधावकारयोरूठ् स्यात् क्वौ झलादावनुनासिकादौ च प्रत्यये । अत्र क्ङितीति नानुवर्तते । अवतेस्तुनि कृते ओतुरिति दर्शनात् । अनुनासिकग्रहणं चानुवर्तेते । अवतेर्मन्प्रत्यये तस्य टिलोपे ओमिति दर्शनात् । ईडभावे ऊठि पिति गुणः । मामोति । मामवीति । मामूतः । मामवति । मामोषि । मामोमि । मामावः । मामूमः । मामूहि । मामवानि । अमामोत् । अमामोः । अमामवम् । अमामाव । अमामूम । तुर्वी हिंसायाम् । तोतूर्वीति ॥

Laghu Siddhanta Kaumudi

Up

एषामुपधावकारयोरूठ् अनुनासिके क्वौ झलादौ क्ङिति॥ अतः क्विप्। जूः। तूः। स्रूः। ऊः। मूः॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

ज्वर रोगे, ञित्वरा सम्भ्रमे, स्त्रिवु गतिशोषणयोः, अव रक्षणे, मव बन्धने । ज्वरत्वरेत्यादि । वस्तुकथनम् ॥