ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च

6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च सम्प्रसारणं वचिस्वपियजादीनां किति

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

<<ग्रह उपादाने>> , <<ज्या वयोहानौ>>, <<वेञो वयिः>> २.४.४१, <<व्यध ताडने>> , <<वश कान्तौ>>, <<व्यच व्याजीकरणे>>, <<ओव्रश्चू छेदने>>, <<प्रच्छ ज्ञीप्सायाम्>> , <<भ्रस्ज पाके>> इत्येतेषां धातूनां ङिति प्रत्यये परतश्चकारात् किति च संप्रसारणं भवति। ग्रह — गृहीतः। गृहीतवान्। ङिति — गृह्णाति। जरीगृह्यते। ज्या — जीनः। जीनवान्। <<ल्वादिभ्यः>> ८.२.४४ इति निष्ठानत्वम्। ङिति — जिनाति। जेजीयते। <<हलः>> ६.४.२ इति संप्रसारणदीर्घे कृते <<प्वादीनां०>>७.३.८० इति ह्रस्वः क्रियते। वयि — लिटि परतो <<वेञो वयिः>> २.४.४१ आदेशस्तस्य ङिदभावात् किदेवोदाह्रियते। ऊयतुः। ऊयुः। यद्येवं वयिग्रहणमनर्थकम्, यजादिषु वेञ् पठ्यते। नैवं शक्यम्। लिटि तस्य <<वेञः>> ६.१.४० इति प्रतिषेधो वक्ष्यते। तत्र यथैव स्थानिवद्भावाद् वयेर्विधिरेवं प्रतिषेधोऽपि प्राप्नोति? नैष दोषः। <<लिटि वयो यः>> ६.१.३८ इति यकारस्य संप्रसारणप्रतिषेधाद् वयेर्विधौ ग्रहणं प्रतिषेधे चाग्रहणमनुमास्यते। सत्यमेतत्। एष एवार्थः साक्षाद् निर्देशेन वयेः स्पष्टीक्रियते। व्यध — विद्धः। विद्धवान्। ङिति — विध्यति। वेविध्यते। वश — उशितः। उशितवान्। ङिति — उष्टः। उशन्ति। व्यच — विचितः। विचितवान्। ङिति — विचति। वेविच्यते। व्यचेः कुटादित्वमनसि (१.२.१ वा०) प्रतिपादितम्। तेन सर्वत्राञ्णिति प्रत्यये संप्रसारणं भवति — उद्विचिता। उद्विचितुम्। उद्विचितव्यमिति। व्रश्चेः — वृक्णः। वृक्णवान्। अथ कथमत्र कुत्वम्, <<व्रश्चभ्रस्ज०>> ८.२.३६ इति हि षत्वेन भवितव्यम् ? <<निष्ठादेशः षत्वस्वरप्रत्ययविधीड्विधिषु सिद्धो वक्तव्यः>> (८.२.३ वा०)। तत्र षत्वं प्रति नत्वस्य सिद्धत्वाद् झलादिर्निष्ठा न भवति। कुत्वे तु कर्तव्ये तदसिद्धमेवेति प्रवर्तते कुत्वम्। ङिति — वृश्चति। वरीवृश्च्यते। प्रच्छ — पृष्टः। पृष्टवान्। ङिति — पृच्छति। परीपृच्छ्यते। प्रश्नः। नङि तु <<प्रश्ने चासन्नकाले>> ३.२.११७ इति निपातनादसंप्रसारणम्। भ्रस्ज — भृष्टः। भृष्टवान्। ङिति — भृज्जति। बरीभृज्ज्यते। सकारस्य <<झलां जश् झशि>> ८.४.५३ इति जश्त्वेन दकारः, <<स्तोः श्चुना श्चुः>> ८.४.४० इति श्चुत्वेन जकारः॥

Siddhanta Kaumudi

Up

एषां किति ङिति च संप्रसारणं स्यात् । इति यकारस्य प्राप्ते ॥

Laghu Siddhanta Kaumudi

Up

एषां सम्प्रसारणं स्यात्किति ङिति च। विध्यति। विव्याध। विविधतुः। विविधुः। विव्यधिथ, विव्यद्ध। व्यद्धा। व्यत्स्यति। विध्येत्। विध्यात्। अव्यात्सीत्॥ {$ {! 10 पुष !} पुष्टौ $} (धातुपाठे <{04.0079}>) ॥ पुष्यति। पुपोष। पुपोषिथ। पोष्टा। पोक्ष्यति। पुषादीत्यङ्। अपुषत्॥ {$ {! 11 शुष !} शोषणे $} (धातुपाठे <{04.0080}>)॥ शुष्यति। शुशोष। अशुषत्॥ {$ {! 12 णश !} अदर्शने $} (धातुपाठे <{04.0091}>) ॥ नश्यति। ननाश। नेशतुः॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छति- भृज्जतीनां ङिति च>> - ग्रहिज्या । चकारेणवचिसवपियजादीना॑मित्यतः कितीति समुच्चीयते ।ष्यङः संप्रसारण॑मित्यनुवर्तते ।तदाह — एषामित्यादि । अत्र परस्मैपदिग्रह्रादिसाहचर्यात् 'अय वय पय [गतौ]' इति पठितस्यात्मनेपदिनो वयेर्न ग्रहणम् । यजादित्वादेव वयेः संप्रसारणे सिद्धे अत्र वयग्रहणं स्पष्टार्थमिति भाष्ये स्पष्टम् [इति] यकारस्य प्राप्ते इति ।न संप्रसारणे संप्रसारण॑मिति लिङ्गादन्त्यस्य यणः पूर्वं संप्रसारणमिति विज्ञानाद्यकारस्य संप्रसारणे प्राप्ते सतीत्यर्थः ।

Padamanjari

Up

गृहीतः, यद्यपि प्रथमं ङिति प्रत्यये परतः सम्प्रसारणं चकारात्किति चेति क्रमो व्याक्यातः, तथाप्यनास्थया प्रथमं कित्युदाहृतम्। विजादेशो गृह्यत इति। पूर्वपरसाहचर्याद्यस्य वपेः परस्मैपदसंभवस्तस्य ग्रहणं न्याय्यम्, यस्तु ठय वच गतौऽ इति वयिः, सोऽनुदातेदात्मनेपदी। यद्येवमिति। वेञादेशस्य ग्रहणमित्यर्थः। यजादिषु वेञ् पठ।ल्त इति। ततश्च पूर्वेणैव सम्प्रसारणं सिद्धिमिति भावः। नैवं शक्यमिति। विज्ञातुमिति शेषः। नानयोपपत्या वयिग्रहणमनर्थकं शक्यं विज्ञातुमित्यर्थः। एवं प्रतिषेधोऽपि प्राप्नोतीति। नात्राविशब्देन समुच्चय उच्यते, किं तर्हि? यथा स्थानिवद्भावाद्विधिः प्राप्यते, तथा प्रतिपेधोऽपि प्राप्नोति, तत्रापि स्तानिवद्भावस्य तुल्यत्वात् इति हेतोस्तुल्यत्वमपिशब्देन द्योत्यते, तेन प्रतिषेध एव भवेदित्यर्थः। उष्ट इति। तसन्तम्। व्यधिर्दिवादिः, व्यचिप्रभृतयस्तुदादयः। वृक्ण इति।'स्कोः संयोगाद्योः' इति सलोपः, पूर्ववन्निष्ठानत्वम्। वरीवृश्च्यत इत्यादौ रीगृत्वतःऽ इति रीग्भावः ॥