3-1-123 छन्दसि निष्टर्क्यदेवहूयप्रणीयोन्नीयोच्छिष्यमर्यस्तर्याध्वर्यखन्यखान्यदेवयज्यापृच्छ्यप्रतिषीव्यब्रह्मवाद्यभाव्यस्ताव्योपचाय्यपृडानि प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कृत्याः
निष्टर्क्यादयः शब्दाश्छन्दसि विषये निपात्यन्ते। यदिह लक्षणेनानुपपन्नं तत् सर्वं निपातनात् सिद्धम्। निष्टर्क्य इति <<कृती छेदने>> इत्यस्माद् निस्पूर्वात् क्यपि प्राप्ते ण्यत्, आद्यन्तविपर्ययश्च, निसश्च षत्वं निपात्यते। निष्टर्क्यं (ऐ०आ० ५.१.३) चिन्वीत पशुकामः। देवशब्द उपपदे ह्वयतेर्जुहोतेर्वा क्यप्, दीर्घस्तुगभावश्च। देवहूयः (श०ब्रा० २.१.३.२)। प्रपूर्वादुत्पूर्वाच्च नयतेः क्यप्। प्रणीयः। उन्नीयः। उत्पूर्वाच्छिषेःक्यप्। उ॒च्िछष्यः॑(मै०सं० ३.९.२)। <<मृङ् प्राणत्यागे>>, <<स्तृञ् आच्छादने>>, <<ध्वृ हूर्छने>>, एतेभ्यो यत् प्रत्ययः। मर्यः॑ (तै०आ० १.३.२)। स्त॒र्या। स्त्रियामेव निपातनम्। ध्वर्यः। खनेर्यत्। खन्या॑ (तै०सं० ७.४.१३.१)। एतस्मादेव ण्यत्। खान्यः। देवशब्द उपपदे यजेर्यः। देवय॒ज्या (ऋ० १०.३०.१५)। स्त्रीलिङ्गनिपातनम्। आङ्पूर्वात् पृच्छेः क्यप्। आपृच्छ्यः॑ (ऋ० १.६०.२)। प्रतिपूर्वात् सीव्यतेः क्यप् षत्वं च। प्रतिषीव्यः। ब्रह्मण्युपपदे वदेर्ण्यत्। ब्रह्म॒वाद्य॑म् (तै०सं० २.५.८.३)। भवतेः स्तौतेश्च ण्यत्, आवादेशश्च भवति। भा॒व्य॑म् (शौ०सं० १३.१.५४), स्ताव्यः। उपपूर्वस्य चिनोतेर्ण्यदायादेशौ। उपचाय्यपृडम् (काठ०सं० ११.१)। पृडे चोत्तरपदे निपातनमेतत्॥ हिरण्य इति वक्तव्यम्॥ हिरण्यादन्यत्र उपचेयपृडमेव।
निष्टर्क्ये व्यत्ययं विद्यान्निसः षत्वं निपातनात्।
ण्यदायादेश इत्येता उपचाय्ये निपातितौ ॥ १॥
ण्यदेकस्माच्चतुर्भ्यः क्यप् चतुर्भ्यश्च यतो विधिः।
ण्यदेकस्माद्यशब्दश्च द्वौ क्यपौ ण्यद्विधिश्चतुः॥ २॥
कृन्ततेर्निस्पूर्वात्क्यपि प्राप्ते ण्यत् । आद्यन्तयोर्विपर्यासो निसः षत्वं च । निष्टर्क्यं चिन्वीत पशुकामः । देवशब्दे उपपदे ह्वयतेर्जुहोतेर्वा क्यप् दीर्घश्च । स्पर्धन्ते वा उ देवहूये (स्पर्ध॑न्ते॒ वा उ॑ देव॒हूये॑) । प्र उत् आभ्यां नयतेः क्यप् । प्रणीयः । उन्नीयः । उत्पूर्वाच्छिषेः क्यप् । उच्छिष्यः । मृङ्स्तृञ्ध्वृभ्यो यत् । मर्यः । स्तर्या । स्त्रियामेवायम् । ध्वर्यः । खनेर्यण्ण्यतौ । खन्यः । खान्यः । यजेर्यः । शुन्धध्वं दैव्याय कर्मणे देवयज्यायै (शुन्ध॑ध्वं॒ दैव्या॑य॒ कर्म॑णे देवय॒ज्यायै॑) । आङ्पूर्वात्पृच्छेः क्यप् । आपृच्छ्यं धरुणं वाज्यर्षति (आ॒पृच्छ्यं॑ ध॒रुणं॑ वा॒ज्य॑र्षति) । सीव्यतेः क्यप् षत्वं च । प्रतिषीव्यः । ब्रह्मणि वदेर्ण्यत् । ब्रह्मवाद्यम् । लोके तु वदः सुपि क्यप् च-<{SK2854}> इति क्यब्यतौ । भवतेः स्तौतेश्च ण्यत् । भाव्यः । स्ताव्यः । उपपूर्वाच्चिनोतेर्ण्यत् आयादेशश्च पृडे उत्तरपदे । उपचाय्यपृडम् ।<!हिरण्य इति वक्तव्यम् !> (वार्तिकम्) ॥ उपचेयपृडमन्यत् ॥ मृड सुखने पृड चेत्यस्मादि गुपधलक्षणः कः ॥
च्छन्दसि निष्टर्क्यदेबहुयचप्रणीयोन्नीयोच्छिष्यमर्यस्तर्याध्वर्यखन्यखान्यदेवयज्यापृच्छयप्रतिषीव्यब्रह्मवाद्यभाव्यस्ताव्योपचाय्यपृदानि॥ नुगभावश्चेति। यदा जुहोतेस्तदेति भावः। उपचाय्यपृडमिति।'मृड सुखे' 'पृड च' इत्येतस्मात् ठिगुपधलक्षणः कः, उपचाय्यं च तत्पृडं चेति कर्मधारयः। हिरष्ये चेति वक्तव्यमिति। हिरण्येऽभिधेय इत्यर्थः। व्यत्ययमिति। आद्यन्तविपर्यास इत्यर्थः। ण्यदेकस्मादिति। एकस्माद्वातोर्ण्यत्प्रत्ययो निपात्यते, तदनन्तरेषु देवहूयादिषु चतुर्षु चतुर्भ्यो धातुभ्यः क्यब् निपात्यते, उपसर्गभेदान्नयतेर्भेदः। द्वौ क्यपाविति। द्वाभ्यां धातुभ्यां द्वौ क्यपौ निपात्येते इत्यर्थः। ण्यद्विधिश्चतुरिति। सुजन्तमेतत्, क्रियाभ्यावृत्तिवाचिचतुरो वा ण्यद्विधीयत इत्यर्थः॥