अहन्
8-2-68 अहन् पदस्य पूर्वत्र असिद्धम् रुः
Sampurna sutra
Up
पदस्य अह्नः रुँः
Neelesh Sanskrit Brief
Up
अहन्-इत्यस्य पदान्ते रुँत्वं भवति ।
Neelesh English Brief
Up
The word अहन् gets रुँत्व at पदान्त.
Kashika
Up
अहन्नित्येतस्य पदस्य रुर्भवति। अहोभ्याम्। अहोभिः। नलोपमकृत्वा निर्देशो ज्ञापकः — नलोपाभावो यथा स्यादिति। दीर्घाहा निदाघः। हे दीर्घाहोऽत्रेति। अहन्नित्यत्र तु लाक्षणिकत्वात् अहन्शब्दस्य रुर्न भवति॥ अह्नो रुविधौ रूपरात्रिरथन्तरेषूपसंख्यानं कर्तव्यम्॥ अहोरूपम्। अहोरात्रः। अहोरथन्तरम्। <<रोऽसुपि>>८.२.६९ इत्यस्यापवादो रुत्वमुपसंख्यायते। अपर आह — सामान्येन रेफादौ रुत्वं भवति — अहोरम्यम्, अहोरत्नानीति॥
Siddhanta Kaumudi
Up
अहन्नित्यस्य रुः स्यात्पदान्ते । अहोभ्याम् । अहोभिः । इह अहः अहोभ्यामित्यादौ रत्वरुत्वयोरसिद्धत्वान्नलोपे प्राप्ते । अहन्नित्यावर्त्य नलोपाभावं निपात्य द्वितीयेन रुर्विधेयः । तदन्तस्यापि रुत्वरत्वे । दीर्घाण्यहानि यस्मिन् स दीर्घाहा निदाघः । इह हल्ङ्यादिलोपे प्रत्ययलक्षणेनाऽसुपीति निषेधाद्रत्वाभावे रुः । तस्यासिद्धत्वान्नान्तलक्षण उपधादीर्घः । संबुद्धौ तु हे दीर्घाहो निदाघः । दीर्घाहानौ । दीर्घाहानः । दीर्घाह्ना । दीर्घाहोभ्याम् । दण्डि । दण्डिनी । दण्डीनि । स्रग्वि । स्रग्विणी । स्रग्वीणि । वाग्मि । वाग्मिनी । वाग्मीनि । बहुवृत्रहाणि । बहुपूषाणि । बह्वर्यमाणि । असृजः पदान्ते कुत्वम् । सृजेः क्विनो विधानात् । विश्वसृडादौ तु न । सृजिदृशोः <{SK2405}> इति सूत्रे रज्जुसृड्भ्यामिति भाष्यप्रयोगात् । यद्वा व्रश्च <{SK294}>इति सूत्रे सृजियज्योः पदान्ते षत्वं कुत्वापवादः । स्रग्ऋत्विक्शब्दयोस्तु निपातनादेव कुत्वम् । असृक्शब्दस्तु अस्यतेरौणादिके ऋच्प्रत्यये बोध्यः । असृक् । असृग् । असृजी । असृञ्जि । पद्दन्न <{SK228}> इति वा असन् । असानि । असृजा । अस्ना । असृग्भ्याम् । असभ्यामित्यादि । उर्क् । उर्ग् । ऊर्जि । ऊन्र्जि । नरजानां संयोगः ।<!बहूर्जि नुम्प्रतिषेधः !> (वार्तिकम्) ।<!अन्त्यात्पूर्वो वा नुम् !> (वार्तिकम्) ॥ बहूर्जि । बहूर्ञ्जि वा कुलानि ॥ त्यत् । त्यद् । त्ये । त्यानि । तत् । तद् । ते । तानि । यत् । यद् । ये । यानि । एतत् । एतद् । एते । एतानि । अन्वादेशे तु एनत् । बोभिद्यतेः क्विप् । बेभित् । बेभिद् । बेभिदी । शावल्लोपस्य स्थानिवत्त्वादझलन्तत्वान्न नुम् । अजन्तलक्षणस्तु नुम् न । स्वविधौ स्थानिवत्त्वाभावात् । बेभिदि ब्राह्मणकुलानि चेच्छिदि ॥ गवाक्छब्दस्य रूपाणि क्लीबेऽर्चागतिभेदतः । असन्ध्यवङपूर्वरूपैर्नवाधिकशतं मतम् ॥ 1 ॥ स्वम्सुप्सु नव षड् भादौ षट्के स्युस्त्रीणि जश्शसोः । चत्वारि शेषे दशके रूपाणीति विभावय ॥ 2 ॥ तथाहि । गामञ्चतीति विग्रहे ऋत्विक् <{SK373}> आदिना क्विन् । गतौ नलोपः । अवङ् स्फोटायनस्य <{SK88}> इत्यवङ् । गवाक् । गवाग् । सर्वत्र विभाषा <{SK87}> इति प्रकृतिभावे गोअक् । गोअग् । पूर्वरूपे । गोऽक् । गोऽग् । पूजायां नस्य कुत्वेन ङः । गवाङ् । गोअङ् । गोऽङ् । अम्यपि एतान्येव नव । औङः शी । भत्वात् अचः <{SK416}> इत्यल्लोपः । गोची । पूजायां तु गवाञ्ची । गोअञ्ची । गोऽञ्ची ॥ जश्शसोः शिः <{SK312}> ॥ शेः सर्वनामस्थानत्वान्नुम् । गवाञ्चि । गोअञ्चि । गोऽञ्चि । गतिपूजनयोस्त्रीण्येव । गोचा । गवाञ्चा । गोअञ्चा । गोऽञ्चा । गवाग्भ्याम् । गोअग्भ्याम् । गोऽग्भ्याम् । गवाङ्भ्याम् । गोअङ्भ्याम् । इत्यादि ॥ सुपि तु ङान्तानां पक्षेङ्णोः कुग् <{SK130}> इति कुक् । गवाङ्क्षु । गवाङ्षु । गवाक्षु । गोअक्षु । गोक्षु । न चेह । चयो द्वितीया इति पक्षे ककारस्य खकारेण षण्णामाधिक्यं शङ्क्यम् । चर्त्वस्यासिद्धत्वात् । कुक्पक्षे तु तस्यासिद्धत्वाज्जश्त्वाऽभावे पक्षे द्वितीयादेशात्रीणि रूपाणि वर्द्धन्त एव ॥ ऊह्यमेषां द्विर्वचनानुनासिकविकल्पनात् । रूपान्यश्वाक्षिभूतानि <{SK527}> भवन्तीति मनीषिभिः ॥ 1 ॥ तिर्यक् । तिरश्ची । तिर्यञ्चि । पूजायां तु । तिर्यङ् । तिर्यञ्ची । तिर्यञ्चि । यकृत् । यकृती । यकृन्ति । पद्दन् <{SK228}> इति वा यकन् । यकानि । यक्ना । यकृता । शकृत् । शकृती । शकृन्ति । शकानि । शक्ना । शकृता । ददत् । ददती ॥
Laghu Siddhanta Kaumudi
Up
अहन्नित्यस्य रुः पदान्ते । अहोभ्याम् ॥ दण्डि । <<सम्बुद्धौ नपुंसकानां नलोपो वा वाच्यः>> (वार्त्तिकम्) । हे दण्डिन्, हे दण्डि । दण्डिनी । दण्डीनि । दण्डिना । दण्डिभ्याम् ॥ सुपथि । टेर्लोपः । सुपथी । सुपन्थानि ॥ ऊर्क्, ऊर्ग् । ऊर्जी । ऊन्र्जि । नरजानां संयोगः । तत् । ते । तानि ॥ यत् । ये । यानि ॥ एतत् । एते । एतानि ॥ गवाक्, गवाग् । गोची । गवाञ्चि । पुनस्तद्वत् । गोचा । गवाग्भ्याम् ॥ शकृत् । शकृती । शकृन्ति ॥ ददत् ॥
Neelesh Sanskrit Detailed
Up
अहन् (= दिवसः) इति नकारान्त-नपुंसकलिङ्गशब्दस्य यत्र पदसंज्ञा भवति, तत्र अस्य शब्दस्य अन्ते विद्यमानस्य नकारस्य प्रकृतसूत्रेण रुँ इति आदेशः विधीयते । सुप्-प्रत्यये परे <<सुप्तिङन्तं पदम्>> 1.4.14 इत्यनेन पदसंज्ञायां जातायाम् अस्य सूत्रस्य प्रयोगः कृतः दृश्यते । कानिचन उदाहरणानि एतादृशानि —
1. अहन्-शब्दस्य तृतीयाद्विवचनस्य अहोभ्याम् इति रूपम् इत्थं सिद्ध्यति —
अहन् + भ्याम् [तृतीयाद्विवचनस्य भ्याम्-प्रत्ययः]
→ अहरुँ + भ्याम् [भ्याम्-प्रत्यये परे <<स्वादिष्वसर्वनामस्थाने>> 1.4.17 इति अहन्-शब्दस्य पदसंज्ञा भवति, अतः तस्य पदान्तनकारस्य <<अहन्>> 8.2.68 इति रुँत्वम् जायते ]
→ अहउ + भ्याम् [<<हशि च>> 6.1.114 इति उत्वम्]
→ अहोभ्याम् [<<आद्गुणः>> 6.1.87 इति गुणैकादेशः]
2. अहन्-शब्दस्य तृतीयाबहुवचनस्य भिस्-प्रत्यये परे अहोभिः इति रूपम् इत्थं सिद्ध्यति —
अहन् + भिस् [तृतीयाबहुवचनस्य भिस्-प्रत्ययः]
→ अहरुँ + भिस् [भिस्-प्रत्यये परे <<स्वादिष्वसर्वनामस्थाने>> 1.4.17 इति अहन्-शब्दस्य पदसंज्ञा भवति, अतः तस्य पदान्तनकारस्य <<अहन्>> 8.2.68 इति रुँत्वम् जायते ]
→ अहउ + भ्याभिस्म् [<<हशि च>> 6.1.114 इति उत्वम्]
→ अहोभिस् [<<आद्गुणः>> 6.1.87 इति गुणैकादेशः]
→ अहोभिः [<<ससजुषो रुँः>> 8.2.66 इति प्रत्ययसकारस्य रुँत्वम्, ततः <<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गः । ]
3. अहन्-शब्दस्य सप्तमीबहुवचनस्य अहस्सु इति रूपम् इत्थं सिद्ध्यति —
अहन् + सु [सप्तमीबहुवचनस्य प्रत्ययः]
→ अहरुँ + सु [<<स्वादिष्वसर्वनामस्थाने>> 1.4.17 इति अहन्-इत्यस्य पदसंज्ञा । <<अहन्>> 8.2.68 इत्यनेन नकारस्य रुत्वम् ।]
→ अहर् + सु [उकारस्य <<उपदेशेऽजनुनासिक इत्>> 1.3.2 इति इत्संज्ञा । <<तस्य लोपः>> 1.3.9 इति लोपः]
→ अहः + सु [<<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गः]
→ अहस्सु [<<वा शरि>> 8.3.36 इति विसर्गस्य विकल्पेन सत्वम्]
सुप्-प्रत्ययस्य यत्र लुक् भवति, तत्र प्रकृतसूत्रेण उक्तम् रुँत्वं अपवादत्वेन बाधित्वा <<रोऽसुपि>> 8.2.69 इत्यनेन रेफादेशः विधीयते । अतः अहन्-शब्दस्य प्रथमैकवचनस्य प्रक्रियायाम् सुँ-प्रत्ययस्य <<स्वमोर्नपुंसकात्>> 7.1.23 इत्यनेन लुकि कृते इदं सूत्रं नैव प्रवर्तते । एवमेव, समासेषु यत्र अहन्-शब्दः पूर्वपदरूपेण प्रवर्तते, तत्र <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इत्यनेन सुप्-प्रत्ययस्य लुकि कृते अपि प्रकृतसूत्रं न प्रवर्तते ।
तदन्तविधिः
<!पदाङ्गाधिकारे तस्य च तदन्तस्य च!> इत्यनया परिभाषया अत्र तदन्तविधिः अवश्यं प्रवर्तते, अतः यस्य अन्ते 'अहन्' शब्दः अस्ति तादृशस्य शब्दस्य विषये अपि अस्य सूत्रस्य प्रयोगः भवितुम् अर्हति । यथा -
दीर्घम् अहः यस्मिन् सः (मासः / ऋतुः) इति बहुव्रीहिसमासे कृते
दीर्घाहन् इति यत् प्रातिपदिकं सिद्ध्यति, तस्य सुबन्तप्रक्रियायाम् अपि प्रकृतसूत्रस्य प्रयोगः दृश्यते । यथा,
दीर्घहन्-शब्दस्य प्रथमैकवचनम् एतादृशं सिद्ध्यति —
दीर्घाहन् + सुँ + मासः [प्रथमैकवचनस्य प्रत्ययः]
→ दीर्घाहन् + स् + मासः [<<उपदेशेऽजनुनासिक इत्>> 1.3.2 इति उकारस्य इत्संज्ञा । <<तस्य लोपः>> 1.3.9 इति लोपः]
→ दीर्घाहन् मासः [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> 6.1.68 इति अपृक्त-सुँ-प्रत्ययस्य लोपः । प्रत्ययस्य लोपे अपि <<प्रत्ययलोपे प्रत्ययलक्षणम्>> 1.1.62 इत्यनेन प्रत्ययविशिष्टं कार्यम् अवश्यं प्रवर्तते, अतः दीर्घाह न इत्यस्य <<सुप्तिङन्तं पदम्>> 1.4.14 इति पदसंज्ञा भवति ।]
→ दीर्घाहान् मासः[<<सर्वनामस्थाने चासम्बुद्धौ>>6.4.8 इति नकारान्तस्य अङ्गस्य उपधादीर्घः।]
→ दीर्घाहारुँ मासः [<<अहन्>> 8.2.68 इत्यनेन पदान्तनकारस्य रुत्वम् भवति । यद्यपि प्रकृतसूत्रेण उक्तम् रुँत्वम् अङ्गकार्यसदृशम् स्वीक्रियते, तथापि अत्र अत्र <<न लुमताङ्गस्य>> 1.1.63 इति निषेधः न प्रवर्तते, यतः अत्र सुँ-प्रत्ययस्य लोपः कृतः अस्ति, न हि लुक् । अतः अत्र नकारस्य रुत्वम् अवश्यं विधीयते ।]
→ दीर्घाहाय् मासः[<<भोभगोअघोअपूर्वस्य योऽशि>> 8.3.17 इति पदान्त-रुँ-इत्यस्य यकारादेशः]
→ दीर्घाहा मासः [<<हलि सर्वेषाम्>> 8.3.22 इति यकारलोपः]
वार्त्तिकम् - <!रूपरात्रिरथन्तरेषु रुत्वं वाच्यम् !>
सुप्-प्रत्ययस्य यत्र लुक् भवति तत्र <<अहन्>>
8.2.68 इति सूत्रेण प्राप्तं रुँत्वं बाधित्वा <<रोऽसुपि>>
8.2.69 इति सूत्रेण रेफादेशः विधीयते । परन्तु
केषुचन स्थलेषु सुब्लुकि कृते अपि रुत्वम् एव इष्यते । तादृशानां स्थलानां परिगणनार्थम् वार्त्तिककारः <!रूपरात्रिरथन्तरेषु रुत्वं वाच्यम्!> इति वार्त्तिकं निर्माति ।
रुप,
रात्रि,
रथ — एतेभ्यः कश्चन शब्दः उत्तरपदरूपेण विद्यते चेत् पूर्वपदरूपेण स्थितस्य
अहन्-शब्दस्य रेफस्य <<रोऽसुपि>>
8.2.69 इत्यनेन प्राप्तं रेफादेशं बाधित्वा रुत्वम् एव भवति — इति अस्य वार्त्तिकस्य अर्थः । उदाहरणानि एतानि —
1. रूप-शब्दे परे —
अह्नः रूपम् [<<षष्ठी>> 2.2.8 इति षष्ठीतत्पुरुषः]
→ अहन् + रूप [<<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुप्-प्रत्यययोः लुक्]
→ अह रुँ + रुप [सुब्लुकि <<रोऽसुपि>> 8.2.69 इत्यनेन प्राप्तं रेफादेशं बाधित्वा पदान्तनकारस्य <! रूपरात्रिरथन्तरेषु रुत्वं वाच्यम् !> इति वार्त्तिकेन रुँत्वम्]
→ अहउ + रुप [<<हशि च>> 6.1.114 इति उकारः]
→ अहोरुप [<<आद्गुणः>> 6.1.87 इति गुणैकादेशः]
2. रात्रि-शब्दे परे —
गतम् अहः, रात्रिः एषा (The day has passed, this is the night) इत्यस्य निर्माणे संहितायाम् सत्याम् अहन्-शब्दस्य नकारस्य रात्रि-शब्दे परे रुँत्वं भवति । प्रक्रिया इयम् —
गतम् (अहन् + सुँ), रात्रिः एषा
→ गतम् (अहन् + ०), रात्रिः एषा [<<स्वमोर्नपुंसकात्>> 7.1.23 इति सुँ-प्रत्ययस्य लुक् भवति ।]
→ गतम् अह रुँ + रात्रिः एषा [सुब्लुकि <<रोऽसुपि>> 8.2.69 इत्यनेन प्राप्तं रेफादेशं बाधित्वा पदान्तनकारस्य <!रूपरात्रिरथन्तरेषु रुत्वं वाच्यम् !> इति वार्त्तिकेन रुँत्वम् ।]
→ गतम् अह उ + रात्रिः एषा [<<हशि च>> 6.1.114 इति उत्वम्]
→ गतम् अहोरात्रिः एषा [<<आद्गुणः>> 6.1.87 इति गुणैकादेशः]
अहोरात्रम् इति शब्दस्य सिद्धौ अपि अनेनैव वार्त्तिकेन रुँत्वं भवति —
अहः च रात्रिः च एतयोः समाहारः [<<चार्थे द्वन्द्वः>> 2.2.8 इति द्वन्द्वसमासः]
→ अहन् + रात्रि + अच् [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुप्-प्रत्यययोः लुक् । <<अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः>> 5.4.87 इति समासान्तः अच्-प्रत्ययः]
→ अहन् + रात् र् + अ [<<यस्येति च>> 6.4.148 इति इकारलोपः]
→ अहरुँ + रात्र [सुब्लुकि <<रोऽसुपि>> 8.2.69 इत्यनेन प्राप्तं रेफादेशं बाधित्वा पदान्तनकारस्य <! रूपरात्रिरथन्तरेषु रुत्वं वाच्यम् !> इति वार्त्तिकेन रुँत्वम् । अत्र <<एकदेशविकृतमनन्यवत्>> इति परिभाषाम् आश्रित्य रात्र-शब्दम् रात्रि-शब्दसदृशम् एव स्वीकृत्य प्रकृतवार्त्तिकस्य प्रयोगः भवति । ]
→ अहउ + रात्र [<<हशि च>> 6.1.114 इति उकारः]
→ अहो + रात्र [<<आद्गुणः>> 6.1.87 इति गुणैकादेशः]
→ अहोरात्र
3. रथन्तर-शब्दे परे —
अह्नः रथन्तरम् [<<षष्ठी>> 2.2.8 इति षष्ठीतत्पुरुषः]
→ अहन् + रथन्तर [<<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुप्-प्रत्यययोः लुक्]
→ अह रुँ + रथन्तर [सुब्लुकि <<रोऽसुपि>> 8.2.69 इत्यनेन प्राप्तं रेफादेशं बाधित्वा पदान्तनकारस्य <! रूपरात्रिरथन्तरेषु रुत्वं वाच्यम् !> इति वार्त्तिकेन रुँत्वम्]
→ अहउ + रथन्तर [<<हशि च>> 6.1.114 इति उकारः]
→ अहोरथन्तर [<<आद्गुणः>> 6.1.87 इति गुणैकादेशः]
केचन वैयाकरणाः अत्र सर्वेषु अपि रेफादौ शब्देषु परेषु रुँत्वम् भवति — इति मन्यन्ते । इत्युक्ते, तेषाम् मतेन केवलम्
रूप,
रात्रि,
रथन्तर इत्येव न अपि तु
रम्य,
रत्न,
राजन्,
रमते इत्येतेषु अन्येषु रेफादिशब्देषु परेषु अपि अहन्-शब्दस्य नकारस्य <<रोऽसुपि>>
8.2.69 इत्यनेन प्राप्तं रेफादेशं बाधित्वा रुँत्वम् एव भवति, येन
अहोरम्यम्,
अहोरत्नानि,
अहोराजः,
अहो रमते इत्येतानि रूपाणि सिद्ध्यन्ति । ये वैयाकरणाः अमुं पक्षं न स्वीकुर्वन्ति, तेषां मतेन तु एतेषु उदाहरणेषु <<रोऽसुपि>>
8.2.69 इत्यनेन रेफादेशे कृते, ततः <<रो रि>>
8.3.14 इति रेफलोपे, ततः च <<ढ्रलोपे पूर्वस्य दीर्घोऽणः>>
6.3.111 इति दीर्घादेशे कृते
अहारम्यम्,
अहारत्नानि,
अहाराजः,
अहा रमते इत्येतानि रूपाणि एव उचितानि ज्ञेयानि ।
आश्रयात् सिद्धत्वम्
प्रकृतसूत्रम् यद्यपि त्रिपाद्यां विद्यते, तथापि इदं सूत्रम् <<हशि च>>
6.1.114 इत्यस्य कृते
आश्रयात् सिद्धम् अस्ति । इत्युक्ते, प्रकृतसूत्रेण सिद्धस्य रुँत्वस्य एतयोः द्वयोः सूत्रयोः उकारादेशः अवश्यम् सम्भवति । अतएव उपरि
अहोभ्याम्,
अहोभिः,
दीर्घाहा दिवसः इत्येतेषाम् प्रक्रियासु प्रकृतसूत्रस्य प्रयोगात् अनन्तरम् <<हशि >>
6.1.114 इति सूत्रं प्रयुक्तं दृश्यते ।
निर्देशसामर्थ्यात् नकारलोपः न भवति
अहन्-शब्दस्य पदसंज्ञायां जातायाम् वस्तुतस्तु <<नलोपः प्रातिपदिकान्तस्य>>
8.2.7 इत्यनेन नकारस्य लोपः भवेत् । परन्तु तादृशः नकारलोपः क्रियते चेत् प्रकृतसूत्रस्य प्रयोगस्य अवकाशः एव विनश्येत् । अतः प्रकृतसूत्रस्य विधानसामर्थ्यात् एव इदं सूत्रम् <<नलोपः प्रातिपदिकान्तस्य>>
8.2.7 इत्यस्य अपवादरूपेण प्रयुज्यते । इत्युक्ते, पदसंज्ञकस्य अहन्-शब्दस्य नकारस्य <<नलोपः प्रातिपदिकान्तस्य>>
8.2.7 इत्यनेन नकारलोपः न भवति, अपि तु प्रकृतसूत्रेण रुँत्वम् एव प्रवर्तते । अतएव, <<नलोपः प्रातिपदिकान्तस्य>>
8.2.7 इत्यत्र <!अह्नो नलोपप्रतिषेधो वक्तव्यः!> इति वार्त्तिकम् अपि भाष्यकारेण पाठितम् दृश्यते ।
बाध्यबाधकभावः
<<रोऽसुपि>> 8.2.69 इति सूत्रम् प्रकृतसूत्रस्य अपवादरूपेण प्रवर्तते । सुप्-भिन्ने प्रत्यये शब्दे वा परे अहन्-शब्दस्य नकारस्य प्रकृतसूत्रेण प्राप्तं रुँत्वं बाधित्वा <<रोऽसुपि>>
8.2.69 इत्यनेन रेफादेशः भवति । यत्र सुप्-प्रत्ययस्य लुक् भवति, तत्रापि <<रोऽसुपि>>
8.2.69 इत्यस्यैव प्रयोगः क्रियते, न हि प्रकृतसूत्रस्य ।
Balamanorama
Up
<<हलि च>> - हलि च ।र्वोरुपधाया दीर्घ इकः॑ इत्यनुवर्तते । 'सिपि धातोः' इत्यतो धातोरिति च । तच्च र्वोरित्यनेन विशेष्यते । तदन्तविधिः । तदाह-रेफवान्तस्येत्यादिना । रेफान्तस्य-जीर्यतीत्युदाहरणम् । अपदान्तत्वात् 'र्वोरुपधायाः' इत्यप्राप्ते विधिः । प्रकृते च प्रतिदिव् न् अस् इति स्थिते नकारे हलि परे वान्तस्य दिव्धातोरूपधाया इकारस्य दीर्घ इति भावः । ननुअचः परस्मि॑न्नित्यल्लोपस्य स्थानिवत्त्वादकारेण व्यवधानाद्धल्परत्वाऽभावात्कथमिह दीर्घ इत्याशङ्क्य परिहरति — नचेति । कुत इत्यत आह — दीर्घविधौ तन्निषेधादिति ।न पदान्ते॑ति सूत्रेण दीर्घवधौ स्थानिवत्त्वनिषेधादित्यर्थः । नन्वेवमपि भसंज्ञापेक्षस्याऽल्लोपस्य बहिर्भूतप्रत्ययापेक्षत्वेन बहिरङ्गतया तस्याऽन्तरङ्गे दीर्घे कर्तव्येऽसिद्धत्वादकारेण व्यवधानाद्धल्परत्वाऽभावात्कथमिह दीर्घ इत्यत आह-बहिरङ्गेति । यथोद्देशपक्षे षाष्ठीं परिबाषां प्रति श्चुत्वस्याऽसिद्धतयाऽन्तरङ्गाऽभावे परिभाषाया अप्रवृत्तेरिति राजन्शब्दोक्तन्यायेन दीर्घस्याऽसिद्धतया तद्विषयेअसिद्धं बहिरङ्ग॑मिति परिभाषा न प्रवर्तते इति भावः । प्रतिदीव्न इति ।न भकुर्छुरा॑मिति निषेधस्तु वान्तस्याऽभत्वान्नेति भावः । इत्यादीति । प्रतिदिव्ने । प्रतिदीव्नः २ । प्रतिदीव्नोः २ । भ्यामादौ हलि राजवदित्यर्थः । यज्वन्शब्दः सुटि राजवदित्याह — यज्वेति ।
Padamanjari
Up
अहोभ्यामिति ।'हशि च' इत्युत्वम् । नलोपमकृत्वेत्यादि । नलोपविधावेतद्व्याख्यातम् । लाक्षमिकत्वादिति । अडागमेन अहन्निति रूपलाभात् । ह्रस्वविधाविति । समासे च लुमता लोपाद् रादेशे प्राप्ते रुत्वमुत्वार्थमुच्यते । अहोरूपमिति । षष्ठीसमासः । गतमहो रूपं पश्येत्यसमासः । अहोरात्र इति । ठहस्सर्वैकदेशऽ इत्यादिनाच् समासान्तः, इकारलोपे कृतेऽप्येकदेशविकृतस्यानन्यत्वादुत्वम् । रात्रग्रहणं तु न कृतम्; गतमहो रात्रिरागतेत्यसमासेऽपि रुत्वार्थम् ॥