हलि सर्वेषाम्

8-3-22 हलि सर्वेषाम् पदस्य पूर्वत्र असिद्धम् संहितायाम् भोभगोअघोअपूर्वस्य अशि लोपः

Sampurna sutra

Up

भो-भगो-अघो-अपूर्वस्य पदस्य यः हलि लोपः सर्वेषाम्

Neelesh Sanskrit Brief

Up

भोस्, भगोस्, अघोस् एतेभ्यः परस्य तथा च अवर्णात् परस्य पदान्ते विद्यमानस्य सामान्ययकारस्य लघूच्चारणयकारस्य च संहितायाम् हल्-वर्णे परे लोपः भवति ।

Neelesh English Brief

Up

In the context of संहिता, all the grammarians say that the normal यकार as well as the लघु-उच्चारण-यकार is removed when it is followed by a हल्-letter, provided that such a यकार occurs at end of a पद and comes after the letter अ , or if such a यकार occurs at the end of the words भोस्, भगोस्, or अघोस्.

Kashika

Up

हलि परतो भोभगोअघोअपूर्वस्य यकारस्य पदान्तस्य लोपो भवति सर्वेषामाचार्याणां मतेन। भो हसति। भगो हसति। अघो हसति। भो याति। भगो याति। अघो याति। वृक्षा हसन्ति। सर्वेषांग्रहणं शाकटायनस्यापि लोपो यथा स्यात्, लघुप्रयत्नतरो मा भूदिति॥

Siddhanta Kaumudi

Up

भोभगोअघोअपूर्वस्य लघ्वलघूच्चारणस्य यकारस्य लोपः स्याद्धलि सर्वेषां मतेन । भो देवाः । भो लक्ष्मि । भो विद्वद्वृन्द । भगो नमस्ते । अघो याहि । देवा नम्याः । देवा यान्ति । हलि किम् । देवायिह ॥

Laghu Siddhanta Kaumudi

Up

भोभगोअघोअपूर्वस्य यस्य लोपः स्याद्धलि। भो देवाः। भगो नमस्ते। अघो याहि॥

Neelesh Sanskrit Detailed

Up

भोस्, भगोस् तथा अघोस् एतेषाम् अन्ते विद्यमानस्य सकारस्य, तथा च अवर्णात् (अकारात् / आकारात्) अन्तन्तरम् पदान्ते विद्यमानस्य सकारस्य <<ससजुषो रुः>> 8.2.66 इत्यनेन रुँत्वे कृते, तस्य हश्-वर्णे परे <<भोभगोअघोअपूर्वस्य योऽशि>> 8.3.18 इत्यनेन यकारादेशः भवति । अस्य यकारस्य <<व्योर्लघुप्रयत्नतरः शाकटायनस्य>> 8.3.18 इत्यनेन विकल्पेन लघूच्चारणः यकारः विधीयते । एतयोः द्वयोः अपि यकारयोः (इत्युक्ते, सामान्ययकारस्य, लघूच्चारणस्य यकारस्य च) प्रकृतसूत्रेण हल्-वर्णे परे लोपः भवति । उदाहरणानि एतानि — 1. भोस्, भगोस्, अघोस् एतेषाम् अन्ते विद्यमानस्य यकारस्य हलि परे लोपः भोस्, भगोस् तथा च अघोस् —एते त्रयः शब्दाः निपाताः (अतश्च, अव्ययसंज्ञकाः, अतश्च पदसंज्ञकाः) सन्ति । <<चादयोऽसत्वे>> 1.4.57 इत्यत्र निर्दिष्टस्य चादिगणस्य आकृतिगणत्वात् एते शब्दाः पण्डितैः तत्रैव समाविश्यन्ते । एते त्रयः अपि शब्दाः सम्बोधनवाचकाः सन्ति । सामान्यरूपेण 'भोस्' इति अव्ययम् मनुष्याणाम् सम्बोधनार्थम्; 'भगोस्' इति अव्ययम् देवानाम् सम्बोधनार्थम्, 'अघोस्' इति अव्ययं च राक्षसानाम् सम्बोधनार्थम् उपयुज्यते । एतेषाम् सर्वेषाम् अन्ते विद्यमानस्य सकारस्य <<ससजुषो रुः>> 8.2.66 इत्यनेन रुँत्वे कृते, अश्-वर्णे परे तस्य <<भोभगोअघोअपूर्वस्य योऽशि>> 8.3.17 इत्यनेन यकारादेशे कृते, प्रकृतसूत्रेण हल्-वर्णे परे अयम् यकारः लुप्यते । 1. भोस्-जनाः इत्यत्र यकारलोपः — भोस् जनाः → भोरुँ जनाः [<<ससजुषोः रुँः>> 8.2.66 इति पदान्तसकारस्य रुँत्वम् । → भोय् जनाः [<<भोभगोअघोअपूर्वस्य योऽशि>> 8.3.17 इति रुँ-इत्यस्य अश्-वर्णे परे यकारादेशः] → भोय् / भोय्॔ जनाः [<<व्योर्लघुप्रयत्नतरः शाकटायनस्य>> 8.3.18 इति पदान्तयकारस्य अश्-वर्णे परे वैकल्पिकः लघूच्चारणः यकारः] → भो जनाः [<<हलि सर्वेषाम्>> 8.3.20 इति उभयप्रकारयोः यकारयोः लोपः] 2. भगोस् देवाः इत्यत्र यकारलोपः — भगोस् देवाः → भगोरुँ देवाः [<<ससजुषोः रुँः>> 8.2.66 इति पदान्तसकारस्य रुँत्वम् ] → भगोय् देवाः [<<भोभगोअघोअपूर्वस्य योऽशि>> 8.3.17 इति रुँ-इत्यस्य अश्-वर्णे परे यकारादेशः] → भगोय् / भगोय्॔ देवाः [<<व्योर्लघुप्रयत्नतरः शाकटायनस्य>> 8.3.18 इति पदान्तयकारस्य अश्-वर्णे परे वैकल्पिकः लघूच्चारणः यकारः] → भगो देवाः [<<हलि सर्वेषाम्>> 8.3.20 इति उभयप्रकारयोः यकारयोः लोपः] 3. अघोस् राक्षसाः इत्यत्र यकारलोपः — अघोस् राक्षसाः → अघोरुँ राक्षसाः [<<ससजुषोः रुँः>> 8.2.66 इति पदान्तसकारस्य रुँत्वम् ] → अघोय् राक्षसाः [<<भोभगोअघोअपूर्वस्य योऽशि>> 8.3.17 इति रुँ-इत्यस्य अश्-वर्णे परे यकारादेशः] → अघोय् / अघोय्॔ राक्षसाः [<<व्योर्लघुप्रयत्नतरः शाकटायनस्य>> 8.3.18 इति पदान्तयकारस्य अश्-वर्णे परे वैकल्पिकः लघूच्चारणः यकारः] → अघो राक्षसाः [<<हलि सर्वेषाम्>> 8.3.20 इति उभयप्रकारयोः यकारयोः लोपः] 2. अवर्णात् (अकारात् /आकारात्) अनन्तरम् विद्यमानस्य पदान्त-यकारस्य हलि परे लोपः अकारात् उत आकारात् अनन्तरम् पदान्ते यकारः विधीयते चेत् हल्-वर्णे परे प्रकृतसूत्रेण तस्य लोपः भवति । द्वे उदाहरणे एतादृशे — 1. देवा + जस् + गच्छन्ति इत्यत्र यकारलोपः — देवा जस् गच्छन्ति → देवास् गच्छन्ति [<<प्रथमयोः पूर्वसवर्णः>> 6.1.102 इति पूर्वसवर्णदीर्घः आकारः] → देवारुँ गच्छन्ति [<<ससजुषोः रुँः>> 8.2.66 इति पदान्तसकारस्य रुँत्वम् ] → देवाय् गच्छन्ति [<<भोभगोअघोअपूर्वस्य योऽशि>> 8.3.17 इति रुँ-इत्यस्य अश्-वर्णे परे यकारादेशः] → देवाय् / देवाय्॔ गच्छन्ति [<<व्योर्लघुप्रयत्नतरः शाकटायनस्य>> 8.3.18 इति वैकल्पिकः लघूच्चारणः यकारः] → देवा गच्छन्ति [<<हलि सर्वेषाम्>> 8.3.20 इति उभयप्रकारयोः यकारयोः लोपः] 2. विश्वपा + सुँ + हसति इत्यत्र यकारलोपः — विश्वपा सुँ हसति → विश्वपा रुँ हसति [<<ससजुषोः रुँः>> 8.2.66 इति पदान्तसकारस्य रुँत्वम् ] → विश्वपाय् हसति [<<भोभगोअघोअपूर्वस्य योऽशि>> 8.3.17 इति अश्-वर्णे परे यकारादेशः] → विश्वपाय् / विश्वपाय्॔ हसति [<<व्योर्लघुप्रयत्नतरः शाकटायनस्य>> 8.3.18 इति वैकल्पिकः लघूच्चारणः यकारः] → विश्वपा हसति [<<हलि सर्वेषाम्>> 8.3.20 इति उभयप्रकारयोः यकारयोः लोपः] 'हलि' इत्यस्य 'हशि' इत्येव अर्थः यद्यपि अस्मिन् सूत्रे 'हलि' इति निर्देशः कृतः अस्ति, तथापि पदान्तयकारस्य निर्माणम् अच्-वर्णे परे, हश्-वर्णे च परे एव सम्भवति । तत्र अच्-वर्णे परे तु पदान्तयकारस्य <<लोपः शाकल्यस्य>> 8.3.19 इत्यनेन विकल्पेन लोपः भवति । हश्-वर्णे परे पदान्तयकारस्य नित्यम् एव लोपः इष्यते, तदर्थम् प्रकृतसूत्रस्य निर्माणं कृतम् अस्ति । अतएव अस्मिन् सूत्रे अशि इति शब्दस्य अनुवृत्तिं कृत्वा तस्य हलि शब्देन सह अन्वयः क्रियते, येन अशि हलि लोपः भवति इति अर्थः सिद्ध्यति । वस्तुतस्तु, अत्र अशि इति शब्दस्य अनुवृत्तेः अन्यद् अपि एकम् प्रयोजनम् वर्तते; तदित्थम् ‌— प्रकृतसूत्रे व्योः इत्यस्मात् केवलम् यकारस्यैव अनुवृत्तिः इष्यते; यतः यदि अत्र वकारस्यापि अनुवृत्तिः क्रियते तर्हि वृक्षव् करोति एतादृशेषु क्लिष्टस्थलेषु प्रकृतसूत्रेण अनिष्टः वकारलोपः सम्भवति, यः न इष्यते । परन्तु अत्र केवलम् यकारस्य अनुवृत्तिं कर्तुम् कश्चन बाधः अस्ति । यकारः पूर्वस्मिन् सूत्रे स्वतन्त्रपदरूपेण न हि विद्यते, अपि तु व्योः इति पदस्य अंशरूपेण विद्यते ।अतः अनुवृत्तिः करणीया चेत् व्योः इत्यस्यैव भवेत्, न हि तस्य केवलम् एकस्य अंशस्य, इति <<एकयोगविशिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः>> अनया परिभाषया स्पष्टीक्रियते । अतः अस्मिन् सूत्रे व्योः इत्येव पदम् अनुवृत्तिरूपेण स्वीकृत्य, अशि इति पदम् अपि अनुवृत्तिरूपेण स्वीक्रियते, येन अशि हलि परे इति अर्थः सिद्ध्यति । एतादृशेन अर्थेन वृक्षव् करोति इत्यत्र अनिष्टः वकारलोपः निवार्यते, यतः अस्मिन् वाक्ये पदान्तवकारात् अनन्तरम् ककारः अस्ति, यः यद्यपि हल्-वर्णः अस्ति तथापि अश्-वर्णः नास्ति । अनेन प्रकारेण प्रकृतसूत्रे अशि इति शब्दं अनुवर्त्य अनिष्टः वकारलोपः निवार्यते । वृक्षव् इति क्लिष्टप्रयोगः कथं सिद्ध्यति इति जिज्ञासूनाम् लाभाय अधः दर्शितम् अस्ति । वृक्षं वाति [इति कृद्वृत्तिः । The one who moves the tree. E.g. wind.] → वृक्ष + वा + विच् [<<अन्येभ्योऽपि दृश्यते>> 3.2.75 इति विच्-प्रत्ययः] → वृक्ष + वा + ० [चकारस्य इत्संज्ञा, लोपः । वकारोत्तरः इकारः उच्चारणार्थः, सोऽपि लुप्यते । अपृक्तवकारस्य <<वेरपृक्तस्य>> 6.1.67 इति लोपः । कृदन्तस्य <<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा] → वृक्ष + वा + णिच् [<!तत्करोति तदाचष्टे!> इति वार्त्तिकेन 'वृक्षवाम् आचष्टे' (to speak about the वृक्षवा) अस्मिन् अर्थे णिच्-प्रत्ययः । णिजन्तस्य <<सनाद्यन्ता धातवः>> 3.1.32 इति धातुसंज्ञा विधीयते ।] → वृक्ष + व् + इ [<! णाविष्ठवत् प्रातिपदिकस्य कार्यं भवतीति वक्तव्यम् !> इति वार्त्तिकेन णिच्-प्रत्ययः इष्ठन्-प्रत्ययवत् कार्यम् करोति, अतः <<टेः>> 6.4.155 इत्यनेन अत्र टिलोपः भवति । ] → वृक्षवि + क्विप् [कर्त्रर्थे <<क्विप् च>> 3.2.76 इति क्विप्-प्रत्ययः। The one who speaks about वृक्षवा — इत्यर्थः] → वृक्ष + व् + ० [<<णेरनिटि>> 6.4.51 इति णिच्-प्रत्ययस्य लोपः । <<आतो लोप इटि च>> 6.4.64 इति आकारलोपः । क्विप्-प्रत्यये ककारपकारयोः इत्संज्ञा, लोपः । वकारोत्तरः इकारः उच्चारणार्थः, सोऽपि लुप्यते । अपृक्तवकारस्य <<वेरपृक्तस्य>> 6.1.67 इति लोपः भवति । कृदन्तस्य <<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा भवति ।] → वृक्षव् + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः] → वृक्षव् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> 6.1.68 इति सुँलोपः । <<सुप्तिङन्तं पदम्>> 1.4.14 इति पदसंज्ञा ।] अनेन प्रकारेण वृक्षव् इति शब्दः सिद्ध्यति । अस्मात् शब्दात् अनन्तरम् करोति इति शब्दं संस्थाप्य वृक्षव् करोति इति प्रयोगः भाष्यकारेण लण्-सूत्रस्य भाष्ये कृतः अस्ति, तस्यैव अत्र सन्दर्भः व्याख्यानेषु दत्तः दृश्यते, ततश्च करोति इत्यत्र विद्यमानस्य ककारस्य अश्-प्रत्याहारेण अग्रहणात् प्रकृतसूत्रस्य अत्र प्रयोगः न भवति इति समाधानम् कृतम् लभ्यते । यद्यपि एतत् स्पष्टीकरणम् वृक्षव् करोति इत्यत्र वकारलोपं निवारयति, तथापि वृक्षव् हसति इत्यादिषु प्रयोगेषु तादृशं स्पष्टीकरणम् नैव दातुं शक्यम्, यतः हकारः अश्-प्रत्याहारे अवश्यम् अन्तर्भवति । अतः वृक्षव् हसति इत्यत्र प्रकृतसूत्रेण वकारलोपः अवश्यम् सम्भवति । परन्तु एतादृशानि उदाहरणानि न हि कुत्रचित् दृश्यन्ते । तदेव न, अपितु वृक्षव् शब्दस्य साधुत्वम् अपि शङ्क्यम् एव, यतः लण्-सूत्रस्य भाष्ये एव भाष्यकारेण 'हकार-यकार-वकार-रेफ-लकारान्ताः शब्दाः न विद्यन्ते' इति निर्देशः कृतः अस्ति । बाध्यबाधकभावः <<लोपः शाकल्यस्य>> 8.3.19 तथा च <<ओतो गार्ग्यस्य>> 8.3.20 इति उभाभ्याम् सूत्राभ्याम् अश्-वर्णे परे पदान्तयकारस्य लोपः विधीयते । तत्र <<लोपः शाकल्यस्य>> 8.3.19 इत्यनेन वैकल्पिकः लोपः भवति, <<ओतो गार्ग्यस्य>> 8.3.20 इत्यनेन च नित्यः लोपः भवति । एतयोः द्वयोः अपि सूत्रयोः यद्यपि अशि इति निर्दिष्टम् अस्ति, तथापि एतयोः प्रयोगः अच्-वर्णे परे एव भवति । हश्-वर्णे परे तु प्रकृतसूत्रेण एते द्वे अपि सूत्रे बाध्येते । इत्युक्ते <<हलि सर्वेषाम्>> 8.3.22 इति सूत्रम् <<लोपः शाकल्यस्य>> 8.3.19 तथा च <<ओतो गार्ग्यस्य>> 8.3.20 एतयोः द्वयोः अपि बाधकरूपेण प्रवर्तते ।

Balamanorama

Up

<<हलि सर्वेषाम्>> - हलि सर्वेषाम् ।भोभगोअघोअपूर्वस्ये॑त्यनुवर्तते ।व्योर्लघुप्रयत्ने॑त्यतो यकारग्रहणमनुवर्तते । तदाह — भोभगो इति । लघ्वलघूच्चारणस्येति । ओकारात् परस्य यस्य लघुप्रयत्नतरस्यैवानेन लोपः । अलघुप्रयत्नतरस्य त्वोकारात् परस्य यस्य ओतो गाग्र्यस्येत्येव सिद्धम् । अपूर्वकस्य तु यस्य लघ्वलघूच्चारणस्येति विवेकः । यकारस्येति । वकारस्त्वत्र नानुवर्तते । भोभगोअघोअपूर्वस्य वकारस्याऽभावादिति वृत्तिः । 'अव्यपर' इति निर्देशादिति तदाशयः । वृक्षं वातीति वृक्षवाः; तचामष्टे वृक्षव्, ण्यन्तात् क्विप्, इष्ठवद्भावाट्टिलोपः । णेरनिढीति णिलोपः, वृक्षव् करोतीत्यत्र अपूर्वकस्य वस्य सम्भवेऽपि नात्र लोपप्रसक्तिः, अशीत्यनुवर्त्त्य अशात्मके हलीति भाष्ये व्याख्यातत्वात् । वृक्षव् करोतीत्यत्र अपूर्वकस्य वस्य सम्भवेऽपि नात्र लोपप्रसक्तिः अशीत्यनुवर्त्त्य अशात्मके हलीति भाष्ये व्याख्यातत्वात् । वृक्षव् हसतीति तु अस्मादेव भाष्यादसाधुरित्याहुः । सर्वेषां मतेनेति । सर्वाचार्यसंमतत्वादयं लोपो नित्य इति फलितम् । अत्र यदिविभाषा भवद्भगवदघवतामोच्चावस्ये॑ति वार्तिकेनमातुवसो रु सम्बुद्धौ॑ इत्यत्र पठितेनएषामन्तस्य संबुद्ध#औ रुत्वं वा स्यात्, अवेत्यंशस्य ओकारश्चे॑त्यर्थकेन निष्पन्ना भोरादिशब्दा एव गृह्रेरन् तर्हि पुंलिङ्गैकवचनमात्रे भो हरेइत्यादिसिद्धावपि तदन्यत्र द्विवचनादौ स्त्रीनपुंसकयोश्च भो हरिहरौ, भो देवाः, भो लक्ष्मिः, बो विद्वद्वृन्देत्यादौ लोपो न सिध्येत् । अतो भोस् इत्यादिनिपातानामप्यत्र ग्रहणमित्यभिप्रेत्योदाहरति — भो देवा इत्यादि । देवा म्या इति । नचात्र यकारस्य लोपो व्योरित्येव लोपः सिद्ध इति वाच्यम्, लोपो व्योरिति लोपं प्रति यत्वस्याऽसिद्धवात् ।

Padamanjari

Up

यकारस्य पदान्तस्येति । वकारस्तु भोभगोअघोपूर्वो न सम्भवति । अवर्णपूर्वस्तु सम्भवति -वृक्षव् करोतीति । तस्य तु लोपो न भवति, अशि हलीति विशेषणादित्युक्तम् । तस्माद्यकारस्येत्युक्तम् । ननु वृक्षव् हसतीत्यादौ सम्भवति ? न सम्भवति; अनभिधानात्, नह्यएवंविधमभिधानमस्ति । तथा च'लण्' इत्यत्र भाष्यकार आह -'न पदान्ता हलो' णः सन्तिऽ इति । एवं च वृक्षव् करोतीत्ययमपि प्रयोगश्चिन्त्यः ॥