अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः

5-4-87 अहःसर्वैकदेशसङ्ख्यातपुण्यात् च रात्रेः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः अच् तत्पुरुषस्य सङ्ख्या अव्ययादेः

Sampurna sutra

Up

तत्पुरुषस्य अहः-सर्व-एकदेश-सङ्ख्यात-पुण्यात् सङ्ख्या-अव्ययादेः च रात्रेः अच्

Neelesh Sanskrit Brief

Up

यस्य तत्पुरुषसमासस्य पूर्वपदम् 'अहन्', 'सर्व', 'सङ्ख्यात' तथा 'पुण्य' एतेषु कश्चन शब्दः , उत एकदेशवाचकः शब्दः / संख्यावाचकः शब्दः / अव्ययवाचकः शब्दः अस्ति, तथा च उत्तरपदम् 'रात्रि' इति शब्दः अस्ति, तस्मात् 'अच्' इति समासान्तप्रत्ययः भवति ।

Kashika

Up

अहरादिभ्यः परो यो रात्रिशब्दः तदन्तस्य तत्पुरुषस्याच् प्रत्ययो भवति, चकारात् संख्यादेरव्ययादेश्च। अहर्ग्रहणं द्वन्द्वार्थम्। अहश्च रात्रिश्च अहोरात्रः। सर्वरात्रः। एकदेशे — पूर्वं रात्रेः पूर्वरात्रः। अपररात्रः। <<पूर्वापराधरो०>> २.२.१ इति समासः। संख्याता रात्रिः संख्यातरात्रः। <<विशेषणं विशेष्येण०>> २.१.५७ इति समासः। एवं पुण्या रात्रिः पुण्यरात्रः। संख्याव्ययादेः खल्वपि — द्वे रात्री समाहृते द्विरात्रः। त्रिरात्रः। अतिक्रान्तो रात्रिम् अतिरात्रः। नीरात्रः॥

Siddhanta Kaumudi

Up

एभ्यो रात्रेरच् स्याच्चात्संख्याव्ययादेः ।<!अहर्ग्रहणं द्वन्द्वार्थम् !> (वार्तिकम्) ॥ अहश्च रात्रिश्चाहोरात्रः । सर्वा रात्रिः सर्वरात्रः । पूर्वं रात्रेः पूर्वरात्रः । संख्यातरात्रः । पुण्यरात्रः । द्वयोः रात्र्योः समाहारो द्विरात्रम् । अतिक्रान्तो रात्रिमतिरात्रः ॥

Laghu Siddhanta Kaumudi

Up

एभ्यो रात्रेरच् स्याच्चात्संख्याव्ययादेः। अहर्ग्रहणं द्वन्द्वार्थम्॥

Neelesh Sanskrit Detailed

Up

अनेन सूत्रेण तत्पुरुषसमासस्य विषये 'अच्' इति समासान्तप्रत्ययः विधीयते । यस्मिन् तत्पुरुषसमासे पूर्वपदरूपेण 'अहन्' / 'सर्व' / 'सङ्ख्यात' / 'पुण्य' एतेषु कश्चन शब्दः , उत एकदेशवाचकः शब्दः / सङ्ख्यावाचकशब्दः / अव्ययवाचकः शब्दः विद्यते, तथा च उत्तरपदम् 'रात्रि' इति शब्दः अस्ति, तस्मात् अच् इति समासान्तप्रत्ययः भवति । उदाहरणानि एतानि - 1. अहश्च रात्रिश्च एतयोः समाहारः [<<चार्थे द्वन्द्वः>> 2.2.29 इति द्वन्द्वसमासः । यद्यप्यत्र तत्पुरुषसमासान्ताः प्रत्ययाः पाठ्यते तथापि अहन्-शब्दस्य रात्रि-शब्देन सह तत्पुरुषसमासः नैव भवितुमर्हति । अतः विधानसामर्थ्यात् द्वन्द्वसमासस्य ग्रहणमेव अत्र क्रियते ।] = अहन् + रात्रि + अच् [वर्तमानसूत्रेण अच् इति समासान्तप्रत्ययः।] → अहरुँ + रात्रि + अ [<<रोऽसुपि>> 8.2.69 इत्यत्र पाठितेन <!रूपरात्रिरथन्तरेषु रुत्वं वाच्यम्!> इत्यनेन वार्त्तिकेन अहन्-शब्दस्य नकारस्य रुँत्वं भवति ।] → अहर् + रात्रि + अ [उँकारस्य <<उपदेशेऽजनुनासिक इत>> 1.3.2 इति इत्संज्ञा । <<तस्य लोपः>> 1.3.9 इति लोपः] → अह उ + रात्रि + अ [रेफस्य <<हशि च>> 6.1.114 इति उकारः] → अहोरात्रि + अ [<<आद्गुणः>> 6.1.87 इति गुण-एकादेशः] → अहोरात्र् + अ [<<यस्येति च>> 6.4.148 इति इकारलोपः] → अहोरात्र [<<स नपुंसकम्>> 2.4.17 इत्यनेन प्राप्तं नपुंसकलिङ्गम् बाधित्वा <<रात्राह्नाहाः पुंसि>> 2.4.29 इत्यनेन पुंस्त्वम् ।] 2. सर्वा रात्रिः [<<पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन>> 2.1.48 इति तत्पुरुषसमासः] → सर्वा + रात्रि + अच् [वर्तमानसूत्रेण अच् इति समासान्तप्रत्ययः।] → सर्व + रात्रि + अच् [ <!सर्वनाम्नः वृत्तिमात्रे पुंवद्भावः!> इत्यनेन वार्त्तिकेन पुंवद्भावः] → सर्व + रात् र् + अ [<<यस्येति च>> 6.4.148 इति इकारलोपः] → सर्वरात्र [<<रात्राह्नाहाः पुंसि>> 2.4.29 इत्यनेन पुंस्त्वम् ।] 3. सङ्ख्याता (counted / measured) रात्रिः [<<विशेषणं विशेष्येण बहुलम्>> 2.1.57 इति कर्मधारयसमासः] = सङ्ख्याता + रात्रि + अच् [वर्तमानसूत्रेण अच् इति समासान्तप्रत्ययः] → सङ्ख्यात + रात्रि + अ [<<पुंवत् कर्मधारयजातीयदेशीयेषु>> 6.3.42 इति पुंवद्भावः] → सङ्ख्यात + रात् र्+ अ [<<यस्येति च>> 6.4.148 इति इकारलोपः] → सङ्ख्यातरात्र [<<स नपुंसकम्>> 2.4.17 इत्यनेन प्राप्तं नपुंसकलिङ्गम् बाधित्वा <<रात्राह्नाहाः पुंसि>> 2.4.29 इत्यनेन पुंस्त्वम् ।] 4. पुण्या रात्रिः [<<विशेषणं विशेष्येण बहुलम्>> 2.1.57 इति कर्मधारयसमासः] = पुण्या + रात्रि + अच् [वर्तमानसूत्रेण अच् इति समासान्तप्रत्ययः] → पुण्य + रात्रि + अ [<<पुंवत् कर्मधारयजातीयदेशीयेषु>> 6.3.42 इति पुंवद्भावः] → पुण्य + रात् र् + अ [<<यस्येति च>> 6.4.148 इति इकारलोपः] → पुण्यरात्र [<<स नपुंसकम्>> 2.4.17 इत्यनेन प्राप्तं नपुंसकलिङ्गम् बाधित्वा <<रात्राह्नाहाः पुंसि>> 2.4.29 इत्यनेन पुंस्त्वम् ।] 4. एकदेशवाचकशब्दः (= सः शब्दः येन एकस्य अवयवस्य निर्देशः भवति । A word that is used to indicate a part of a whole. यथा - मध्य, अर्ध, पूर्व, उत्तर, अपर - आदयः) - पूर्वम् रात्रेः [<<पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे>> 2.2.1 इति एकदेशिसमासः] = पूर्व + रात्रि + अच् [वर्तमानसूत्रेण अच् इति समासान्तप्रत्ययः] → पूर्व + रात् र् + अच् [<<यस्येति च>> 6.4.148 इति इकारलोपः] → पूर्वरात्र [<<रात्राह्नाहाः पुंसि>> 2.4.29 इत्यनेन पुंस्त्वम् ।] एवमेव - उत्तरात्रः, मध्यरात्रः, अपररात्रः आदयः शब्दाः अपि सिद्ध्यन्ति । 5. सङ्ख्यावाचकशब्दः - द्वयोः रात्र्योः समाहारः [<<तद्धितार्थोत्तरपदसमाहारे च>> 2.1.51 इति द्विगुः] → द्वि + रात्रि + अच् [वर्तमानसूत्रेण अच् इति समासान्तप्रत्ययः] → द्वि + रात् र् + अच् [<<यस्येति च>> 6.4.148 इति इकारलोपः] → द्विरात्र [<<रात्राह्नाहाः पुंसि>> 2.4.29 इत्यनेन पुंस्त्वम् इति काशिकाकारस्य पक्षः ; <<संख्यापूर्वा रात्रिः>> इत्यनेन लिङ्गानुशासनसूत्रेण (लिङ्गानुशासनम् १३२) अत्र नपुंसकम् भवेत् इति कौमुदीमतम् ।] एवमेव - नवरात्रः/नवरात्रम्, पञ्चरात्रः/पञ्चरात्रम् - एते शब्दाः सिद्ध्यन्ति । 6. अव्ययवाचकशब्दः - अतिक्रान्तः रात्रिम् [<<कुगतिप्रादयः>> 2.2.18 इत्यत्र पाठितेन <!अत्यादयः क्रान्ताद्यर्थे!> अनेन वार्त्तिकेन तत्पुरुषसमासः] → अति + रात्रि + अच् [वर्तमानसूत्रेण अच् इति समासान्तप्रत्ययः] → अति + रात् र् + अच् [<<यस्येति च>> 6.4.148 इति इकारलोपः] → अतिरात्र [<<रात्राह्नाहाः पुंसि>> 2.4.29 इत्यनेन पुंस्त्वम् ।] एवमेव - नीरात्रः अयमपि शब्दः सिद्ध्यति ।

Balamanorama

Up

<<अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः>> - अहःसर्वैकदेश । एभ्यो रात्रेरिति । अहन्, सर्व, एकदेश, सङ्ख्यात, पुण्य — एभ्यः परस्य रात्रिशब्दस्येत्यर्थः । अहन्नादिपूर्वपदकस्य रात्र्यन्तस्य तत्पुरुषस्येति यावत् । ननु अहरादी रात्र्यन्तस्तत्पुरुषो नास्त्येव, अह्नो रात्रिरिति वा, अहश्चासौ रात्रिश्चेति वा, असंभवादित्यत आह-अहग्र्रहणं द्वन्द्वार्थमिति । नच ब्राहृणो यदहस्तस्यावयवभूता या मानुषीरात्रिरिति षष्ठीतत्पुरुषः संभवतीति वाच्यम्,अहग्रहणं द्वन्द्वार्थ॑मिति भाष्यप्रामाण्येन एवंजातीयकतत्पुरुषस्य प्रयोगाऽभावोन्नयनात् । अहोरात्र इति । द्वन्द्वादच्, इलोपः,जातिरप्राणिना॑मित्येकवत्त्वम् ।स नपुंसक॑मिति बाधित्वारात्राह्नाहाः पुंसी॑ति पुंस्त्वम् । सर्वा रात्रिः सर्वरात्र इति । सर्वा रात्रिरिति विग्रहेपूर्वकालैके॑ति कर्मधारयः । अच् । इकारलोपः ।रात्राह्नाहा॑इति पुंस्त्वम् ।सर्वनाम्नो वृत्तिमात्रे॑ इति पुंवत्त्वम् । एकदेशेत्यर्थग्रहणमित्यभिप्रेत्योदाहरति — पूर्वमिति । पूर्वं रात्रेरिति विग्रहेपूर्वपराधरोत्तर॑मित्येकदेशिसमासः । अच्, इलोपः,रात्राह्ने॑ति पुंस्त्वम् । सङ्ख्यातरात्र इति । सङ्ख्याता रात्रिरिति विग्रहे कर्मधारायः ।पुंवत्कर्मधारये॑ति पुंवत्त्वम् । अच्, इलोपः ।रात्राह्ने॑ति पुंस्त्वम् । द्विरात्रमिति ।तद्धितार्थे॑ति द्विगुः । सङ्ख्यादित्वादच्, इलोपः ।सङ्ख्यापूर्वं रात्रं क्लीब॑मिति नपुंसकत्वम् । अतिरात्र इति ।अत्यादयः क्रान्ताद्यर्थे॑ इति समासः । अव्ययादित्वादच्, इलोपः,रात्राह्ने॑ति पुंस्त्वम् ।

Padamanjari

Up

अहर्ग्रहणं द्वन्द्वार्थमिति। न तु तत्पुरुषार्थम्; मुख्यार्थवृतयोस्तत्पुरुषासम्भवात्। न ह्यस्ति सम्भवः- रात्रिश्चेति, नाप्यहोरात्रिरित्यस्ति। यदि तु रात्रिशब्देन तद्गुणमहरुच्यते अहः शब्देन तद्गुणा रात्रिः, ततः सम्भवेदपिविशेषणसमासः। गौणार्थता तु भवति। न च मुख्ये सम्भवति गौणस्य ग्रहणं युक्तम्, तस्मादहर्ग्रहणं द्वन्द्वार्थम्। तथा च -'हेमन्तशिशिरावहोरात्रे च च्छन्दसि' इति द्वन्द्वे समासान्तो निर्द्यिष्टः। अहोरात्र इति। समाहारद्वन्द्वः, रात्राह्नाहाः पंसिऽ, अह्नो रुत्वे रूपरात्रिरथन्तरेषुऽ इति नकारस्य रुत्वम्, तस्य'हशि च' इत्युत्वम्। द्विरात्र इति। समाहारे द्विगुः। नीरात्र इति। प्रादिसमासः,'ढ्रलोपे पूर्वस्य दीर्घो' णःऽ ॥