Home
Prev 1.4.12
Next 1.4.14
यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् 1-4-13 यस्मात् प्रत्ययविधिः तदादि प्रत्यये अङ्गम् आ कडारात् एका सञ्ज्ञा
Sampurna sutra Up
यस्मात् प्रत्ययविधिः तदादि प्रत्यये अङ्गम् ।
Neelesh Sanskrit Brief Up
यस्मात् शब्दात् प्रत्ययः विधीयते, तदादि शब्दस्वरूपम् तस्मिन् प्रत्यये परे 'अङ्गम्' इति संज्ञां प्राप्नोति ।
Neelesh English Brief Up
When a प्रत्यय is attached to a word, everything that begins with the first letter of that word up to (and excluding) the first letter of the प्रत्ययः itself, is called the an अङ्गम् of that प्रत्यय.
Kashika Up
यस्मात् प्रत्ययो विधीयते धातोर्वा प्रातिपदिकाद् वा तदादि शब्दरूपं प्रत्यये परतोऽङ्गसंज्ञं भवति। कर्ता। हर्ता। करिष्यति। हरिष्यति। अकरिष्यत्। औपगवः। कापटवः। यस्मादिति संज्ञिनिर्देशार्थम्, तदादीति संबन्धात्। प्रत्ययग्रहणं किम्? न्यविशत। व्यक्रीणीत। <<नेर्विशः>> १.३.१७ इत्युपसर्गाद् विधिरस्ति, तदादेरङ्गसंज्ञा स्यात्। विधिग्रहणं किम्? प्रत्ययपरत्वमात्रे मा भूत्। स्त्री इयती॥ तदादिवचनं स्यादिनुमर्थम्॥ करिष्यावः, करिष्यामः। कुण्डानि। पुनः प्रत्ययग्रहणं किमर्थम्? लुप्तप्रत्यये मा भूत्। श्र्यर्थम्। भ्र्वर्थम्। अङ्गप्रदेशाः — <<अङ्गस्य>> ६.४.१ इत्येवमादयः॥
Siddhanta Kaumudi Up
यः प्रत्ययो यस्मात्क्रियते तदादि शब्दस्वरूपं तस्मिन्प्रत्यये परेऽङ्गसंज्ञं स्यात् । भवामि भविष्यामीत्यादौ विकरणविशिष्यस्याऽङ्गसंज्ञार्थं तदादिग्रहणम् । विधिरिति किम् । स्त्री इयती । प्रत्यये किम् । प्रत्ययविशिष्टस्य ततोऽप्यधिकस्य वा माभूत् ॥
Laghu Siddhanta Kaumudi Up
यः प्रत्ययो यस्मात् क्रियते तदादिशब्दस्वरूपं तस्मिन्नङ्गं स्यात्॥
Neelesh Sanskrit Detailed Up
अष्टाध्याय्यां पाठितासु संज्ञासु अन्यतमा अङ्गम् इति संज्ञा प्रकृतसूत्रेण पाठ्यते । यस्मात् शब्दात् प्रत्ययस्य विधानं क्रियते, तस्य शब्दस्य प्रथमवर्णात् प्रारभ्य, प्रत्ययस्य प्रथमवर्णं यावत् (परन्तु प्रत्ययस्य प्रथमवर्णं विहाय) विद्यमानः सम्पूर्णः अंशः तस्य प्रत्ययस्य अङ्गरूपेण स्वीक्रियते — इति अस्य सूत्रस्य आशयः ।
स्मर्तव्यम् - अङ्गम् इति संज्ञा नित्यम् प्रत्ययस्य सन्दर्भे एव भवति । इत्युक्ते, अङ्गम् अस्ति इति उच्यते चेत् कस्य प्रत्ययस्य अङ्गम् अस्ति इति अपि वक्तव्यम् । यदि प्रत्ययस्य सन्दर्भः न दीयते, तर्हि अङ्गसंज्ञा अपि नैव सम्भवति ।
अङ्गसंज्ञायाः कानिचन उदाहरणानि
अङ्गसंज्ञायाः कानिचन उदाहरणानि एतानि —
1. राम -शब्दात् प्रथमाद्विवचनस्य औ इति प्रत्यये कृते, राम-शब्दस्य प्रथमवर्णः र् इत्यस्मात् आरभ्य प्रत्ययस्य प्रथमवर्णः औ इति यावत् (परन्तु तं विहाय) यत् शब्दस्वरूपम् वर्तते, तस्य प्रकृतसूत्रेण अङ्गसंज्ञा भवति । अतः अत्र राम इति प्रातिपदिकस्य औ -प्रत्ययस्य सन्दर्भेण अङ्गसंज्ञा अपि भवति ।
2. पठ् -धातोः लट्लकारस्य तिप् -प्रत्यये परे <<कर्तरि शप्>> 3.1.68 इति शप् -विकरणप्रत्ययः विधीयते । अत्र प्रक्रियायाम् पठ् + अ + ति इति स्थिते, तिप् -प्रत्ययस्य विधानम् पठ् -धातोः विषये कृतम् अस्ति, अतः पठ् -इत्यस्य आदिवर्णात् (पकारात्) आरभ्य तिप्-प्रत्ययस्य प्रथमवर्णं (तकारं) यावत् (परन्तु तकारं विहाय) यत् शब्दस्वरूपम् वर्तते, तस्य सम्पूर्णस्य तिप् -प्रत्ययस्य सन्दर्भेण अङ्गसंज्ञा भवति । इत्युक्ते अत्र तिप् -प्रत्ययस्य अङ्गरूपेण पठ् + अ इति अंशः स्वीक्रियते ।
3. सम् -उपसर्गपूर्वात् पठ् -धातोः लङ्लकारस्य प्रक्रियायाम् सम् + पठ् + अ + त् इत्यत्र लङ्लकारः पठ् -धातोः विधीयते, अतः अत्र पठ् -इत्यस्य आदिवर्णात् (पकारात्) आरभ्य लङ्-लकारस्य प्रथमवर्णम् यावत् (परन्तु तं विहाय) विद्यमानस्य शब्दस्वरूपस्य अङ्गसंज्ञा भवति । अनया व्याख्यया लङ् -प्रत्ययस्य अङ्गम् पठ् + अ इति स्वीक्रियते । इत्युक्ते, अत्र सम् - उपसर्गः अङ्गसंज्ञायां भागं न गृह्णाति । अतएव, <<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> 6.4.71 इत्यनेन विहितः अङ्गस्य अडागमः टित्त्वात् <<आद्यन्तौ टकितौ>> 1.1.46 इत्यनेन पठ् -धातोः एव आदौ विधीयते, न हि सम् -उपसर्गात् पूर्वम् । अतएव सम् + पठ् इत्यस्य लङ्लकारस्य प्रथमपुरुषैकवचनम् समपठत् इति भवति ।
अङ्गाधिकारः
अङ्गसंज्ञाम् अधिकृत्य अष्टाध्याय्याम् <<अङ्गस्य>> 6.4.1 इति कश्चित् बृहन् अधिकारः विद्यते । षष्ठाध्यायस्य चतुर्थपादात् आरभ्य सप्तमाध्यायस्य समाप्तिपर्यन्तम्, इत्युक्ते आहत्य पञ्चसु पादेषु अस्य अधिकारस्य व्याप्तिः अस्ति । अस्मिन् अधिकारे उक्तानि सर्वाणि अपि कार्याणि अङ्गसंज्ञकस्य विषये एव भवन्ति । कानिचन उदाहरणानि एतानि —
1. भू -धातोः तृच् -प्रत्यये कृते <<सार्वधातुकार्धधातुकयोः>> 7.3.84 इत्यनेन तृच् -प्रत्ययस्य अङ्गस्य अन्तिम-उकारस्य गुणः (ओकारः) विधीयते । प्रक्रिया इयम् -
भू (सत्तायाम्, भ्वादिः <{1.1}>)
→ भू + तृच् [<<ण्वुल्तृचौ>> 3.1.133 इति तृच्-प्रत्ययः]
→ भू + इट् + तृ [<<आर्धधातुकस्येड् वलादेः>> 7.2.35 इति इडागमः । <<यदागमास्तद्गुणीभूतास्तद्ग्रहणेन गृह्यन्ते>> अनया परिभाषया अयम् इडागमः प्रत्ययस्यैव अवयवरूपेण स्वीक्रियते ।]
→ भो + इ + तृ [इतृच् इति प्रत्ययस्य अङ्गम् भू इति अस्ति । अस्य अङ्गस्य अन्तिमवर्णस्य (उकारस्य) <<सार्वधातुकार्धधातुकयोः>> 7.3.84 इति गुणादेशः भवति । ]
→ भव् + इ + तृ [<<एचोऽयवायावः>> 6.1.78 इति अयादेशः]
→ भवितृ
2. सम् -उपसर्गपूर्वात् पठ् -धातोः लङ्लकारस्य प्रक्रियायाम् <<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> 6.4.71 इत्यनेन विहितः अडागमः अङ्गस्य आद्यवयवरूपेण विधीयते । अत्र सम् -उपसर्गस्य अङ्गसंज्ञायां समावेशः न भवति, अतः अडागमः अपि तस्मात् पूर्वम् न विधीयते अपितु पठ् -धातोः पूर्वम् संस्थाप्यते —
पठँ (व्यक्तायां वाचि, भ्वादिः, <{1.381}>)
→ सम् + पठ् + लङ् [<<अनद्यतने लङ्>> 3.2.111 इति लङ् । अस्य प्रत्ययस्य अङ्गम् पठ् इति अस्ति ।]
→ सम् + अट् + पठ् + लङ् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> 6.4.71 इत्यनेन अङ्गस्य आद्यवयवरूपेण अडागमः विधीयते ।]
→ सम् + अ + पठ् + तिप् [<<तिप्तस्झि..>> 3.4.78 इत्यनेन प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]
→ सम् + अ + पठ् + त् [<<इतश्च>> 3.4.100 इति इकारलोपः]
→ सम् + अ + पठ् + शप् + त् [<<कर्तरि शप्>> 3.1.68 इति शप्]
→ समपठत्
3. पठ् -धातोः लट्लकारस्य उत्तमपुरुषैकवचनस्य प्रक्रियायाम् मिप् -प्रत्यये परे पठ् -धातोः शप् -विकरणप्रत्यये कृते पठ् + शप् इति सर्वस्य मिप् -प्रत्ययस्य सन्दर्भेण अङ्गसंज्ञा भवति । अतएव <<अतो दीर्घो यञि>> 7.3.101 इत्यनेन शप् -विकरणस्य अकारस्य दीर्घादेशे कृते पठामि इति अन्तिमं रूपं सिद्ध्यति —
पठँ (व्यक्तायां वाचि, भ्वादिः, <{1.381}>)
→ पठ् + लट् [<<वर्तमाने लट्>> 3.2.123 इति लट्]
→ पठ् + मिप् [<<तिप्तस्झि..>> 3.4.78 इति उत्तमपुरुषैकवचनस्य मिप्-प्रत्ययः]
→ पठ् + शप् + मिप् [<<कर्तरि शप्>> 3.1.68 इति शप्]
→ पठ् + अ + मि [इत्संज्ञालोपः]
→ पठ् + आ + मि [<<अतो दीर्घो यञि>> 7.3.101 इति दीर्घः । अत्र मिप्-प्रत्ययस्य अङ्गम् पठ् + शप् इति अस्ति, अतः अत्र अङ्गस्य अन्ते विद्यमानस्य अकारस्य दीर्घादेशः भवति।]
→ पठामि
दलकृत्यम्
1. तदादिः इति किमर्थम् ? — यस्मात् शब्दात् मूलरूपेण प्रत्ययः विधीयते केवलं तस्यैव शब्दस्य अङ्गसंज्ञा भवति इति न, अपि तु सः शब्दः यस्य अंशस्य आदौ विद्यते, तस्य सम्पूर्णस्य अंशस्य अङ्गसंज्ञा भवति - इति स्पष्टीकर्तुम् अत्र तदादिः इति शब्दः स्थापितः अस्ति । यथा, भू -धातोः उत्तमपुरुषैकवचनस्य प्रक्रियायाम् भू + शप् + मिप् इति स्थिते, मिप् इति प्रत्ययः यद्यपि केवलम् भू इत्यस्मात् विहितः अस्ति, तथापि मिप् प्रत्ययस्य अङ्गं किम् - इति पृष्टे, भू -धातुः यस्य आदिः, तादृशः भू + शप् इति अंशः अत्र मिप् प्रत्ययस्य अङ्गरूपेण स्वीक्रियते - इति उत्तरम् ।
2. प्रत्ययविधिः इत्यत्र विधिः इति किमर्थम् ? — यस्मात् शब्दात् मूलरूपेण प्रत्ययः विधीयते , तस्य शब्दस्य आधारेण एव अङ्गसंज्ञा दीयते - इति स्पष्टीकर्तुम् अत्र विधिः इति शब्दः स्थापितः अस्ति । अस्य कः अर्थः इति चेत्, यस्मात् शब्दात् प्रत्ययः विधीयते, तस्य शब्दस्य प्रक्रियायाम् कुत्रचित् सम्पूर्णरूपेण लोपः सम्भवति । तादृशे लोपे कृते कस्माच्चित् अन्यस्मात् शब्दात् अनन्तरम् एव प्रत्ययः स्थापितः दृश्यते । एतादृशी स्थितिः यत्र वर्तते तत्र केवलम् पूर्वपरसान्निध्यं दृष्ट्वा अनुचितस्य शब्दस्य अङ्गसंज्ञा मा भूत्, इति ज्ञापयितुम् अत्र सूत्रे प्रत्ययविधिः इति शब्दः उपयुक्तः अस्ति । प्रत्ययस्य साक्षात् विधानम् यस्मात् शब्दात् भवति (इत्युक्ते, यस्मात् शब्दात् प्रत्ययः मूलरूपेण विहितः अस्ति), तस्यैव शब्दस्य अङ्गसंज्ञा भवेत् ; यस्मात् शब्दात् प्रत्ययः दृश्यरूपेण आतिष्ठति, तस्य अङ्गसंज्ञा मा भूत् — इति अत्र आशयः । स्त्री इयती इत्यस्मिन् उदाहरणे अस्य प्रयोजनम् स्पष्टं भवति । तत्र सम्पूर्णा प्रक्रिया एतादृशी —
स्त्री + इदम् + वतुँप् + ङीप् [इयती इति शब्दः इदम्-शब्दात् <<किमिदंभ्यां वो घः>> 5.2.40 इति सूत्रेण वतुँप्-प्रत्यये कृते, ततः स्त्रीत्वं द्योतयितुम् <<उगितश्च>> 4.1.6 इत्यनेन ङीप्-प्रत्यये कृते सिद्ध्यति । तस्मात् पूर्वम् 'स्त्री' इति शब्दः स्थापितः अस्ति ।]
→ स्त्री + इयम् + वत् + ई [इत्संज्ञक-उकार-पकार-ङकाराणाम् लोपः]
→ स्त्री + इयम् + घत् + ई [<<किमिदंभ्यां वो घः>> 5.2.40 इति सूत्रेण एव वतुँप्-प्रत्ययस्य वकारस्य घ-आदेशः अपि भवति ।]
→ स्त्री + इयम् + इयत् + ई [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.2.2 इत्यनेन घकारस्य इय्-आदेशः]
→ स्त्री + ई + इयत् + ई [<<इदङ्किमोरीश्की>> 6.3.90 इत्यनेन इदम्-शब्दस्य ई-आदेशः । <<अनेकाल् शित् सर्वस्य>> 1.1.55 इति शित्त्वात् सर्वादेशः]
→ स्त्री + ० + इयत् + ई [तद्धितसंज्ञके इयत्-प्रत्यये परे <<यस्येति च>> 6.4.148 इति अङ्गस्य ईकारस्य लोपः । अनेन प्रकारेण अत्र वतुँप्-प्रत्ययस्य अङ्गस्य सम्पूर्णरूपेण लोपः भवति ।]
→ स्त्री + इयती [वर्णमेलनम्]
→ स्त्रीयती [<<अकः सवर्णे दीर्घः>> 6.1.101 इति सवर्णदीर्घः । अत्र वस्तुतः वतुप्-प्रत्ययात् (इत्युक्ते इयत् इति तस्य दृश्यरूपात्) अव्यवहितरूपेण पूर्वम् स्त्री इति शब्दः विद्यते । अस्यां स्थितौ प्रकृतसूत्रे यदि केवलम् यस्मात् प्रत्ययः इति उच्येत, तर्हि स्त्री -शब्दस्य अपि अत्र अनिष्टा अङ्गसंज्ञा भवेत् । एतादृश्याम् अङ्गसंज्ञायां कृतायाम् <<स्त्रियाः>> 6.4.79 इति सूत्रेण स्त्री -शब्दस्य अन्तिम-ईकारस्य अनिष्टः इयङ्-आदेशः सम्भवेत् । एतत् सर्वं मा भूत् इति हेतुना पाणिनिना प्रकृतसूत्रे विधिः इति शब्दः स्थापितः अस्ति । यस्मात् शब्दात् मूलरूपेण प्रत्ययस्य विधानं क्रियते, तस्यैव अङ्गसंज्ञा भवेत् — इति अनेन शब्देन स्पष्टी भवति । अतः अत्र स्त्री -शब्दस्य अङ्गसंज्ञायाः अभावात् केवलम् सवर्णदीर्घं कृत्वा इष्टरूपं सिद्ध्यति ।]
3. प्रत्ययविधिः इत्यत्र प्रत्ययग्रहण कृते पुनः प्रत्यये इति किमर्थम् ? — अङ्गस्य अन्तिमसीमां ज्ञापयितुम् अस्मिन् सूत्रे प्रत्यये इति शब्दः स्थापितः अस्ति । प्रत्यये परे अङ्गसंज्ञा भवति, इत्युक्ते प्रत्ययः स्वयम् अङ्गसंज्ञायां नैव स्वीक्रियते — इति अत्र प्रत्यये इति शब्देन स्पष्टी भवति ।
##Balamanorama
<<यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्>> - राम-आ इति स्थिते अङ्गकार्यं वलिधास्यन्नङ्गसंज्ञामाह - यस्मात्प्रत्ययविधि । यस्मादिति । प्रकृतिभूतादित्यर्थः । यः प्रत्यय इति । यच्छब्दान्तराध्याहारस्तु प्रत्यासत्तिलभ्यः । स च यस्माद्यस्य प्रत्ययस्य विधिस्तस्मिन्प्रत्यये तदादेरङ्गसंत्रेत्यर्थलाभाय । तत्प्रकृतिरूपमादिर्यस्य तत् — तदादि । नपुंसकवाशाच्छब्दरूपमित्यध्याहार्यम् । तदाह — तदादि शब्दस्वरूपमिति । प्रकृते च रामशब्दस्य प्रकृतिमात्रस्य तदादित्वं व्यभूधातोर्लट् । मिप् । कर्तरि शवबिति विकरणसंज्ञः शप् । गुणावादेशौ अतो दीर्घो यञीति भवेत्यङ्गस्य दीर्घः । भवामीति रूपम् । तथा भूधातोर्लृट् मिप् । 'स्यातासी लृलुटोः' इति विकरणसंज्ञः स्यः । इट् गुणावादेशौ । षत्वम् ।अतो दीर्घो यञी॑ति 'भविष्य' इत्यङ्गस्य दीर्घः । भविष्यामी॑ति रूपम् । अत्र आदिग्रहणाऽभावे मिप्प्रत्यये परतो भू इति प्रकृतिमात्रस्य अङ्गसंज्ञा स्यात्, भूशब्दादेव मिप्प्रत्ययविधेः, नतु 'भव' इत्यस्य, 'भविष्य' इत्यस्य च विकरणविशिष्टस्य, ततो मिप्प्रत्ययविधेरभावात् । ततश्चअतो दीर्घो यञी॑ति मिप्प्रत्यये परतो दीर्घो न स्यात् । अत आदिग्रहणमित्यर्थः । विधिरिति किमिति । यस्माद्यः प्रत्यय#ः । परत्वेन श्रूयते तदादि शब्दरूपं तस्मिन् प्रत्यये अङ्गसंज्ञामित्येतावतैव सिद्धे विधिग्रहणं किमर्थमिति प्रश्नः । स्त्री इयतीति । इदं परिमाणमस्या इत्यर्थे इदंशब्दात् 'किमिदंभ्यां वो घः' इति वतुप्, वस्य घश्च । तस्य इयादेशः । 'इदंकिमोः' इति इदम् ईश् । शित्त्वात्सर्वादेशः । ई-इयत् इति स्थिते 'यस्येति च' इतीकारलोपः । इयदिति प्रत्ययमात्रमवशिष्यते ।उगितश्चे॑ति ङीपि इयतीति रूपम् । अत्र विधिग्रहणाऽभावे स्त्री-इयतीत्यत्र रेफादीकारस्य 'स्त्रियाः' इत्यङ्गकार्यमियङ् स्यात् । स्त्रीशब्दात्परत्वेन इयदिति प्रत्ययस्य श्रूयमाणत्वात् । न च यस्येति लोपस्याभीयत्वेना.ञसिद्धत्वादजादिप्रत्ययपरकत्वाऽभावान्नात्र इयङः प्राप्तिरिति वाच्यम्, अन्यूनानतिरिक्तसमानाश्रये कार्ये कर्तव्य एव आभीया.ञसिद्धत्वस्य प्रवृत्तेः । अस्ति च यस्येति चेति शास्त्रापेक्षया 'स्त्रिया' इति सूत्रे अधिकस्य स्त्रीशब्दस्यापेक्षा । कृते तु विधिग्रहणे इयङत्र न भवति, बतुप् इदम एवात्र विहितत्वेन तस्मिन् परे स्त्रीशब्दस्याङ्गत्वाऽभावात् । न च यस्येति लोपस्य इयङि कर्तव्ये अचः परस्मिन्निति स्थानिवद्भावः शङ्क्यः, पदान्तविधौ तन्निषेधात् । स्त्रीशब्दस्य सुनिरूपिताङ्गत्वेऽपि नेयङ्, प्रत्यासत्त्या अजादिप्रत्ययनिरूपिताङ्गत्वे तत्प्रवृत्तेः । प्रत्यये किमिति ।यस्मात्प्रत्ययविधिस्तदाद्यङ्ग॑मित्येतावदेवास्त्वित्यर्थः । प्रत्ययविशिष्यस्य ततो ।ञप्यधिकस्य वा मा भूदिति । तदादि शब्दरूपं कियदित्यपेक्षायामविशेषात्प्रत्ययविशिष्टं वा, ततोऽप्यधिकं वा निरवधिकमङ्गं स्यात् । नच यस्मात्प्रत्ययेति प्रत्ययस्य श्रुतत्वात्प्रत्ययावध्येवाङ्गत्वं भविष्यतीति वाच्यम्, यस्मात्प्रत्ययविधिस्तदादीत्यर्थसमर्पणेन तस्य प्रत्ययग्रहणस्य चरितार्थत्वात् । ततश्च प्रत्ययविशिष्टस्याङ्गत्वे वव्रश्चेत्यत्र प्रत्ययविशिष्टस्याङ्गत्वेन उरदित्यादेशस्य परनिमित्तत्वाऽलाभादचः परस्मिन्निति स्थानिवत्त्वाऽप्रवृत्त्या 'न सम्प्रसारण' इति सम्प्रसारणनिषेधो न स्यात् । अधिकस्याङ्गत्वे चदेवदत्त् ओदनमापाक्षी॑दित्यादौ देवदत्तादिशब्दोत्तरं सुपं निमित्तीकृत्य लुङ्पर्यन्तमङ्गत्वात्तस्य लुङ्परत्वेन देवदत्तादिशब्दात्पूर्वमप्यडापत्तिः, अङ्गसंज्ञायाः प्रत्ययनिमित्तत्वाऽभावेन लुङादिनिरूपिताङ्गस्येत्यर्थस्य दुर्लभत्वात् ।॒प्रत्यये॑ इत्युक्तौ तु न कोऽपि दोष इत्यलम् ।
##Padamanjari