1-3-29 समः गमृच्छिप्रच्छिस्वरति अर्तिश्रु विदिभ्यः धातवः आत्मनेपदम् कर्तरि अकर्मकात् च
अकर्मकात् समः गमि-ऋच्छि-प्रच्छि-स्वरति-अर्ति-श्रु-विदिभ्यः आत्मनेपदम्
अकर्मकप्रयोगेषु 'सम्' उपसर्गात् - गम्, ऋच्छ्, प्रच्छ्, स्वर्, ऋ, श्रु, विद् - एतेभ्यः धातुभ्यः आत्मनेपदस्य प्रत्ययाः भवन्ति ।
When the उपसर्ग 'सम्' is attached to any of the verbs - गम्, ऋच्छ्, प्रच्छ्, स्वर्, ऋ, श्रु, विद् - they get the प्रत्ययाः of आत्मनेपद ; provided that the verbs are used in an अकर्मक sense.
अकर्मकादिति वर्तते। शेषात् कर्तरि परस्मैपदे प्राप्ते संपूर्वेभ्यो गमि ऋच्छि प्रच्छि स्वरति अर्ति श्रु विदि इत्येतेभ्योऽकर्मकेभ्यो धातुभ्य आत्मनेपदं भवति। संगच्छते। समृच्छते। संपृच्छते। संस्वरते। संकल्पा अस्य समरन्त। अर्तेर्लुङि च्लेः <<सर्तिशास्त्यर्तिभ्यश्च>> ३.१.५६ इत्यङादेशः। तत्र परस्मैपदेष्वित्येतद् नाश्रीयते। <<बहुलं छन्दस्यमाङ्योगेऽपि>> ६.४.७५ इत्याट् प्रतिषिध्यते। <<ऋदृशोऽङि गुणः>> ७.४.१६ इति गुणः — समरन्त। संशृणुते। संवित्ते। ऋच्छेरनादेशस्य ग्रहणम् — समृच्छिष्यते। अर्त्यादेशस्य त्वर्तीत्येव सिद्धमात्मनेपदम्। अर्तिरुभयत्र पठ्यते, <<ऋ गतिप्रापणयोः>> इति भ्वादौ,<<ऋ सृ गतौ>> इति जुहोत्यादौ, विशेषाभावाद् द्वयोरपि ग्रहणम्। विदेर्ज्ञानार्थस्य ग्रहणम्, परस्मैपदिभिर्गमादिभिः साहचर्यात्, न लाभार्थस्य स्वरितेत्त्वादुभयतोभाषस्य॥ दृशेश्चेति वक्तव्यम्॥ संपश्यते। अकर्मकादित्येव — ग्रामं संपश्यति॥
अकर्मकाभ्याम् इत्येव । संगच्छते ॥
एते सर्वे धातवः मूलरूपेण परस्मैपदिनः सन्ति, परन्तु सम-उपसर्गपूर्वकेभ्यः एतेभ्यः अकर्मकेषु अर्थेषु आत्मनेपदस्य प्रत्ययाः विधीयन्ते । क्रमेण पश्यामः - 1) गम् (गतौ) - सङ्गच्छते ('मिलित्वा गच्छति' इत्यर्थः) । अयमकर्मकः धातुः । 2) ऋच्छ् (गति-इन्द्रियप्रलय-मूर्तिभावेषु) - समृच्छते ('मिलति' इत्यर्थः) । सकर्मके तु परस्मैपदमेव - रामलक्ष्मणौ समृच्छतः । 3) प्रच्छ् (ज्ञीप्सायाम्) - सम्पृच्छते ('विमर्शं करोति' इत्यर्थः), यथा - रामः लक्ष्मणेन सह सम्पृच्छते । सकर्मके तु परस्मैपदमेव - छात्रः गुरुं सम्पृच्छति । 4) स्वर् (आक्षेपे) - संस्वरते ('मिलित्वा गायति' इत्यर्थः) । सकर्मके तु परस्मैपदमेव - छात्राः गीतं संस्वरन्ति । 5) ऋ (गतिप्रापणयोः - भ्वादि, गतौ -जुहोत्यादि) - समृच्छते ('मिलति' इत्यर्थः) । सकर्मके तु परस्मैपदमेव - रामलक्ष्मणौ समृच्छतः । (ऋ-धातोः <<पा-घ्रा-ध्मा..>> 7.3.78 इत्यनेन ऋच्छ्-आदेशः भवति शित्-प्रत्यये परे । अतः अस्य लट्-लकारस्य रूपम् 'ऋच्छ्' धातुवदेव भवति ।) 6) श्रु (श्रवणे) - संशृणुते ('सूक्ष्मरूपेण शृणोति' इत्यर्थः) । सकर्मके तु परस्मैपदमेव - छात्रः गुरुं संशृणोति । 7) विद् (ज्ञाने) - संवित्ते ('सम्पूर्णरूपेण जानाति' इत्यर्थः) । सकर्मके तु परस्मैपदमेव - छात्रः वेदान् संवेत्ति । (ज्ञातव्यम् - अत्र 'विद्' इति अदादिगणस्य धातोः एव ग्रहणं क्रियते, अन्येषाम् गणानाम् धातूनाम् न ।) वार्तिकम् - <!दृशेश्चेति वक्तव्यम्!> । सम-उपसर्गात् परः दृश् (प्रेक्षणे) अयं धातुः अपि अकर्मकेषु अर्थेषु आत्मनेपदी ज्ञातव्यः । यथा - संपश्यते ('चिन्तयति, निरीक्षते' इत्यर्थः) । सकर्मके तु परस्मैपदमेव - सः ग्रामं संपश्यति ।
<<समो गम्यृच्छिभ्याम् (॰प्रच्छिस्वरत्यर्तिश्रुविदिभ्यः)>> - समो गम्यृच्छिभ्याम् ।आत्मनेपद॑मिति शेषः । अकर्मकाभ्यामित्येवेति ।स्वाङ्गकर्मकाच्चे॑ति तु निवृत्तमिति भावः । सङ्गच्छते इति । संगतं भवतीत्यर्थः ।
'समो गम्यच्छिभ्याम्' इत्येतावत्सूत्रम्। प्रच्छयादयस्तु वार्तिकद्दष्टाः सूत्ररूपेण पठिताः, सूत्रकारवद्वार्तिककारोऽपि शास्त्रस्य कर्ता, न व्याख्यातेति दर्शयितुम्। तत्र हीति। उतरार्थमनुवर्तमानमपि योगविभागसामर्थ्यात् तत्र न सम्बध्यत इत्यर्थः। न लाभार्थस्येति। सताविचारणार्थयोस्त्वनुदातेत्वादात्मनेपदेन भाव्यमेवेति भावः। द्दशेश्चेत्यादि। इदं वक्तव्यरूपेणैव पठितम्। विचित्रा हि वृतेः कृतिः वृत्तिकारेण। अथास्मिन्नकर्मकाधिकारे ये सकर्मका हनिगमिप्रभृतयः, तेषां कथमकर्मकत्वम्? उच्यते - धातोरर्थान्तरे वृतेर्धात्वर्थेनोपसंग्रहात्। प्रसिद्वेरविवक्षातः कर्मणोऽकर्मिका क्रिया॥ वहति भारमिति-प्रापणे सकर्मको वहिः, स्यन्दने त्वकर्मकः। वहन्ति नद्य इति - प्रापणे सकर्मको वहिः, स्यन्दने त्वकर्मकः। वहन्ति नद्य इति - प्राणविशिष्ट्ंअ धारणं जीवतिराह,तत्र प्राणानां धातुनैवोपातत्वान्न तेन कर्मणा सकर्मकत्वम्, न च प्राणकर्मके धारणेऽन्यस्य कर्मत्वमिति जीवतिरकर्मकः। प्रसिद्धेर्यथा - वर्षतीत्यनुपाते कर्मान्तरे नियमेन जलं प्रतीयत इति न तेन सकर्मकत्वम्, तेन'वृष्टे देवे' इति कर्तरि क्तो भवति। व्यभचारिणा तु रुधिरादिना सकर्मक एवः रुधिरं वर्षति, शरान्वर्षतीति । कर्मविवक्षायां तत्कर्मिकैव क्रिया प्रतिषिद्धा स्याद्, न पाकमात्रमित्यविवक्षा कर्मणः॥