3-3-139 लिङ्निमित्ते लृङ् क्रियातिपत्तौ प्रत्ययः परः च आद्युदात्तः च धातोः कृत् भविष्यति
लिङ्निमित्ते भविष्यति लुङ् क्रियातिपत्तौ
भविष्यति अर्थे, लिङ्लकारस्य यत् निमित्तम् तस्मिन्नेव निमित्ते, क्रियातिपत्तिं दर्शयितुम् धातोः लृङ्लकारः भवति ।
In the context of future, if the cause-effect scenario is being described with an implication that the action did not happen, the लृङ्लकारः is used.
भविष्यतीत्यनुवर्तते। <<हेतुहेतुमतोर्लिङ्>> ३.३.१५६ इत्येवमादिकं लिङो निमित्तम्। तत्र लिङ्निमित्ते भविष्यति काले लृङ् प्रत्ययो भवति क्रियातिपत्तौ सत्याम्। कुतश्चिद् वैगुण्यादनभिनिर्वृत्तिः क्रियायाः क्रियातिपत्तिः। दक्षिणेन चेदायास्यन्न शकटं पर्याभविष्यत्। यदि कमलकमाह्वास्यन्न शकटं पर्याभविष्यत्। अभोक्ष्यत भवान् घृतेन यदि मत्समीपमागमिष्यत्। भविष्यत्कालविषयमेतद् वचनम्। भविष्यदपर्याभवनं च हेतुमत्, तत्र हेतुभूतं च कमलकाह्वानम्। लिङ्गिलिङ्गिे बुद्ध्वा तदतिपत्तिं च प्रमाणान्तरादवगम्य वक्ता वाक्यं प्रयुङ्क्ते — यदि कमलकमाह्वास्यन्न शकटं पर्याभविष्यदिति, हेतुहेतुमतोराह्वानापर्याभवनयोर्भविष्यत्कालविषययोरतिपत्तिरितो वाक्यादवगम्यते॥
हेतुहेतुमद्भावादि लिङ्निमित्तं तत्र भविष्यत्यर्थे लृङ् स्यात् क्रियाया अनिष्पत्तौ गम्यमानायाम् । अभविष्यत् । अभविष्यतम् । अभविष्यन् । अभविष्यन् । अभविष्यः । अभविष्यतम् । अभविष्यत । अभविष्यम् । अभविष्याव । अभविष्याम ॥
हेतुहेतुमद्भावादि लिङ्निमित्तं तत्र भविष्यत्यर्थे ऌङ् स्यात् क्रियाया अनिष्पत्तौ गम्यमानायाम्। अभविष्यत्। अभविष्यताम्। अभविष्यन्। अभविष्यः। अभविष्यतम्। अभविष्यत। अभविष्यम्। अभविष्याव। अभविष्याम। सुवृष्टिश्चेदभविष्यत्तदा सुभिक्षमभविष्यत्, इत्यादि ज्ञेयम्॥ {$ {! 2 अत !} सातत्यगमने $}(धातुपाठे <{01.0038}>)॥ अतति॥
अस्य सूत्रस्य अर्थं ज्ञातुमादौ बिन्दुद्वयं ज्ञातव्यम् - 1. लिङ्निमित्तम् = <<हेतुहेतुमतोर्लिङ्>> 3.3.156 अनेन सूत्रेण 'कारणम् - फलम्' एतयोः युग्मं दर्शयितुम् लिङ्लकारस्य प्रयोगः भवति । यथा - 'कृष्णं नमेत् चेत् सुखम् यायात्' । एतत् 'कारण-फल-युग्मम्' लिङ्लकारस्य निमित्तमस्ति इत्युच्यते । 2. क्रियातिपत्तिः = क्रियायाः अनिष्पत्तिः (इत्युक्ते क्रियायाः अभावः) । अत्र अस्य सूत्रस्य अर्थः भवति - यत्र कारण-फल-युग्मेन निर्दिष्टायाः क्रियायाः अभावः भविष्यकालस्य साहाय्येन वक्तव्यः अस्ति, तत्र लृङ्लकारस्य प्रयोगः भवति । यथा - 1. कृष्णं अनंस्यत् चेत् सुखमयास्यत् । (यदि कृष्णस्य नमनम् करिष्यति, तर्हि सुखमपि यास्यति, परन्तु इदानीम् कृष्णस्य नमनं न कृतम्।) 2. सुवृष्टिः चेद् अभविष्यत् तदा सुभिक्ष्यमभविष्यत् । (यदि सुवृष्टिः भविष्यति तर्हि सुभिक्ष्यमपि भविष्यति, परन्तु इदानीम् सुवृष्टिः न जाता) लृङ्लकारस्य विषये धातोः <<स्यतासी लृलुटोः>> 3.1.33 इति 'स्य' विकरणप्रत्ययः भवति ।
<<लिङ्निमित्ते लृङ् क्रियाऽतिपत्तौ>> - लिङ्निमित्ते । हेतुहेतुमद्भावादीति । हेतुहेतुमतोर्लिङ् ,इच्छार्थेषु लिङ्लोटा॑वित्यादि लिङ्निमित्तं लकारार्थप्रक्रियायां स्पष्टीभविष्यति । भविष्यत्यर्थ इति ।भविष्यति मर्यादावचने॑ इत्यतस्तदनुवृत्तेरिति॑ भावः । क्रियातिपत्तिपदं व्याचष्टे -क्रियाया अनिष्पत्ताविति ।सुवृष्टिश्चेदभविष्यत्तदा सुभिक्षमभविष्य॑दित्युदाहरणं बोध्यम् । अभविष्यदिति । लृङ् । तिप् । इतश्चेतीकारललोपः ।स्यतासी लृलुटो॑रिति शबपवादः स्यप्रत्ययः । अट् । वलादिलक्षम इट् । गुणावादैशौ । षत्वम् । अभविष्यन्निति । झिः । स्यः । अट् । इट् । गुणावादेशौ ।झोऽन्त इति झेरन्तादेशः । इतश्चेतीकारलोपः । षत्वम् । रुत्वविसर्गौ । अभविष्यतमिति । थसस्तमादेशः । स्यः अट् । इट् । गुणः । अवादेशः । इतश्चेतीकारलोपः । षत्वम् । रुत्वविसर्गौ । अभविष्यमिति । मिपोऽम् । स्यः । अट् । इट् । गुणावौ । पूर्वरूपम् । षत्वम् । अभविष्यावेति । वस् । स्यः । अट् । इट् । नित्यं ङित इति सकारलोपः । अतो दीर्घः । षत्वम् । एवं मसि अभविष्यामेति रूपम् । इति लृङ्प्रक्रिया । अथ प्रसङ्गादाह —
कुतश्चिद्वैगुण्यादिति । प्रतिबन्धकोदयः सामग्रीवैकल्यं वा वैगुण्यम् । दक्षिणेन मार्गेण न शकट्ंअ पर्याभविष्यदिति । तस्यमार्गस्य ऋजुत्वात्स्थाण्वादेरभावाच्च । पर्याभवनमुभङ्गः । कमलकःउकश्चित्पुरुषः, स शकटादीनां विषमेष्वपि स्थानेषु मुसलाद्यवष्टम्भयोगेन नेता । अमोक्ष्यत भवान् घृतेनेति । घृतमात्रस्यातिपतौ भोजनक्रियाभिनिर्वृतावपि लृङ् भवति; कारणभेदाद्विभिन्नैव भोजनक्रिया, ततो घृतातिपतौ घृतभोजनक्रियाप्यतिपन्नैव । भविष्यत्कालविषयमेतद्वचनमिति । कथं तर्हि भविष्यतोऽर्थस्येदानीमवगतिस्तत्राह - भविष्यदपर्याभवनमिति । हेतुमत् तत्र हेतुभूतमिति । एतेन लिङ्निमितं हेतुहेतुमद्भावं दर्शयति । लिङ्गेन बुध्वेति । असकृत्प्राक्कमलकाह्वाने सति शकटापर्याभवनं दृष्ट्वा भाविनोऽपि कमलकाह्वानस्य शकटापर्याभवनं दृष्ट्वा भाविनोऽपि कमलकाह्वानस्य शकटापर्याभवनहेतुभूत्वं लिङ्गेन बुध्वा । लिङ्गं पुनः कमलकाह्वानत्वम् ।'भविष्यत्कमलकाह्वानमपि शकटापर्याभवनस्य हेतुः कमलकाह्वानत्वात्पूर्वकमलकाह्वानवत्' इति एवं बुध्वेत्यर्थः । तदतपतिमिति । प्रकरणाद् द्विचनान्तस्य समासः, तयोराह्वानापर्याभवनयोरतिपतिमित्यर्थः, तत्र कमलकस्य देशान्तरगमनादिना तदाह्वानस्यातिपतिरवसीयते; तदतिपत्यैव च पर्याभवनस्याप्यति पतिः, शकटस्य गुरुतरभारारोपणादिना । भविष्यत्कालयोरतिपतिरितो वाक्याद् गम्यतीति । नेदानीं कमलक आह्वातुं शक्यते, तच्च शकटमपि पर्याभविष्यत्येवेत्यवगमात् ॥