7-3-77 इषुगमियमां छः शिति
इषु गमि यम इत्येतेषां शिति परतश्छकारादेशो भवति। इच्छति। गच्छति। यच्छति। इषेरुदितो ग्रहणम्। इह मा भूत् — इष्यति, इष्णातीति। ये त्विषिमुदितं नाधीयते, त इह च सूत्रेऽचीत्यनुवर्तयन्ति। तत् च प्रधानमज्ग्रहणं शितीत्यनेन विशेष्यत इति वर्णयन्ति। तथा च सति तदादिविधिर्न भवति। <<यस्मिन् विधिस्तदादावल्ग्रहणे>> इत्येतदपि विशेषणेनैवेष्यते। तेन इषाणेत्यत्र छत्वं न भवति। न ह्ययमजेव शिदिति॥
एषां छः स्याच्छिति परे । गच्छति । जगाम । जग्मतुः । जग्मुः । जगमिथ । जगन्थ । गन्ता ॥
एषां छः स्यात् शिति। गच्छति। जगाम॥
<<इषुगमियमां छः>> - इषुगमि । शितीति ।ष्ठिवुक्लमुचमा॑मित्यतस्तदनुवृत्तेरिति भावः । उदिन्निर्देशात्तौदादिकस्य इषेग्र्रहणम् । अत्राऽचीत्यनिवर्त्त्य अजादौ शितीत्याश्रित्य इष्यति इष्णाति इत्यत्र छत्वं नेति भाष्ये स्थितम् । एवं चात्र सूत्रे, तुदादौ च उदित्पाठोऽनार्ष इति शब्देन्दुशेखरे स्थितम् । गच्छतीति । शपि मकारस्य छकारः । जग्मतुरिति ।गमहने॑त्युपधालोपः । एवं जग्मुः । भारद्वाजनियमात्थलि वेट् । तदाह — जगमिथ जगन्थेति । जग्मथुः जग्म । जगाम — जगम जग्मिव जग्मिम । क्रादिनियमादिट् ।
इच्छतीति । तुदादित्वाच्छः । इष्यतीति । ठिष गतौऽ। इष्णातीति । ठिष आभीक्ष्ण्येऽ। ये पुनरुदितमिषि नाधीयत इति । धातुपाठे । इह च सूत्रे अचीत्यनुवर्तयन्तीति ।'क्सस्याचि' इत्यतः । नन्वचीत्यनुवृतावपि'हलः श्नः शानज्झौ' इति शानजादेशे इषाणेत्यत्र च्छत्वं स्यादेव, अजादित्वात् ? इत्यत आह - तत्रेति । स्यादेतदेवं यद्यचीत्येन शिद्विशेप्येत - शितिच्छाए भवति, किंविशिष्टे ? अचि - अजादाविति; इह तु शिता अज्विशेष्यते - अचि छाए भवति, किं विशिष्टे ? शितीति, तेन तदादिविधिर्न भवति । कि कारणम् ? इत्यत आहयस्मिन्विधिरिति । न केवलं तदन्तविधौ विशेषणत्वापेक्षा, अपि तर्हि तदादिविधावपीत्यपिशब्दस्यार्थः । इषाणेत्यत्रापीति । न केवलमिष्यतीत्यत्रैव - इत्यपिशब्दस्यार्थः । न ह्ययमजेवेति । अज्मात्रस्यात्र शित्वं नास्तीत्यर्थः । इतिकरणो हेतौ ॥