6-4-15 अनुनासिकस्य क्वि झलोः क्ङिति न उपधायाः
index: 6.4.15 sutra: अनुनासिकस्य क्विझलोः क्ङिति
अनुनासिकस्य अङ्गस्य उपधायाः क्वि-झलोः क्ङिति दीर्घः
index: 6.4.15 sutra: अनुनासिकस्य क्विझलोः क्ङिति
अनुनासिकान्तस्य अङ्गस्य उपधावर्णस्य - (1) क्विप्-प्रत्यये परे (2) झलादि-कित्-प्रत्यये परे (3) झलादि-ङित्-प्रत्यये परे - दीर्घादेशः भवति ।
index: 6.4.15 sutra: अनुनासिकस्य क्विझलोः क्ङिति
If an अङ्ग ends in an अनुनासिक, the उपधा letter of that अङ्ग becomes दीर्घ in presence of a क्विप्-प्रत्यय, झलादि-कित्-प्रत्यय and a झलादि-ङित्-प्रत्यय.
index: 6.4.15 sutra: अनुनासिकस्य क्विझलोः क्ङिति
अनुनासिकान्तस्य अङ्गस्य उपधायाः दीर्घो भवति क्विप्रत्यये परतो झलादौ च क्ङिति। प्रशान्। प्रतान्। झलादौ किति शान्तः। शान्तवान्। शान्त्वा। शान्तिः। ङिति खल्वपि शंशान्तः। तन्तान्तः। यङ्लुगन्तादयं तस्। अनुनासिकस्य इति किम्? ओदनपक्। पक्वः। पक्ववान्। क्विझलोः इति किम्? गम्यते। रम्यते। क्ङितीति किम्? गन्ता। रन्ता।
index: 6.4.15 sutra: अनुनासिकस्य क्विझलोः क्ङिति
अनुनासिकान्तस्योपधाया दीर्घः स्यात् क्वौ झलादौ च क्ङिति । इदमिवाचरति इदामति । राजेव राजानति । पन्था इव पथीनति । मथीनति । ऋभुक्षीणति । द्यौरिवदेवतीति माधवः । अत्र ऊठि द्यवतीत्युचितम् । क इव कति । चकाविति हरदत्तः । माधवस्तु ण्यल्लोपाविति वचनात् णलि वृद्धिं बाधित्वाऽतो लोपाच्चक इति रूपमाह । स्व इव स्वति । सस्वौ । सस्व । यत्तु स्वामी स्वांचकरेति तदनाकरमेव ॥
index: 6.4.15 sutra: अनुनासिकस्य क्विझलोः क्ङिति
अनुनासिकान्तस्योपधाया दीर्घः स्यात्क्वौ झलादौ च क्ङिति। इदमिवाचरति इदामति। राजेव राजानति। पन्था इव पथीनति॥
index: 6.4.15 sutra: अनुनासिकस्य क्विझलोः क्ङिति
अनुनासिकान्त-अङ्गस्य यः उपधावर्णः, तस्य - (1) क्विप्-प्रत्यये परे, (2) झलादि कित्-प्रत्यये परे, तथा च (3) झलादि ङित्-प्रत्यये परे अनेन सूत्रेण दीर्घादेशः विधीयते । उदाहरणानि एतानि -
क्विप्-प्रत्यय
अष्टाध्याय्याम् द्वौ भिन्नौ 'क्विप्-प्रत्ययौ विद्येते । कृत्संज्ञकः 'क्विप्' प्रत्ययः क्विप् च 3.2.76 इति सूत्रेण सर्वेभ्यः धातुभ्यः विधीयते । सनादिसंज्ञकः 'क्विप्' प्रत्ययः <! सर्वप्रातिपदिकेभ्यः क्बिब्वा वक्तव्यः !> इति वार्त्तिकेन सर्वेभ्यः प्रातिपदिकेभ्यः विधीयते । उदाहरणानि एतानि -
शमुँ (उपशमे, दिवादिः, <{4.98}>)
--> शम् + क्विप्
--> शम् + व् [ककारस्य लशक्वतद्धिते 1.3.8 इति इत्संज्ञा, पकारस्य हलन्त्यम् 1.3.3 इति इत्संज्ञा । द्वयोः तस्य लोपः 1.3.9 इति लोपः । इकारः उच्चारणार्थः, सः अपि लुप्यते ।]
--> शाम् + व् [अनुनासिकस्य क्विझलोः क्ङिति इति उपधादीर्घः]
--> शाम् [वकारस्य वेरपृक्तस्य 6.1.67 इति लोपः भवति]
एवमेव -
अ) प्र + तम् (काङ्क्षायाम्, <{4.99}>) + क्विप् --> प्रतान्
आ) दम् (उपशमे, <{4.100}>) + क्विप् --> दाम्
इ) घुण् (भ्रमणे, <{1.505}>) + क्विप् --> घूण् ।
इत्यादीनि रूपाणि अपि सिद्ध्यन्ति ।
राजन् + क्विप्
→ राजन् + व् [ककारस्य लशक्वतद्धिते 1.3.8 इति इत्संज्ञा, पकारस्य हलन्त्यम् 1.3.3 इति इत्संज्ञा । द्वयोः तस्य लोपः 1.3.9 इति लोपः । इकारः उच्चारणार्थः, सः अपि लुप्यते ।]
→ राजान् + व् [अनुनासिकस्य क्विझलोः क्ङिति 6.1.14 इत्यनेन अनुनासिकस्य अङ्गस्य उपधावर्णस्य क्विप्-प्रत्यये परे दीर्घादेशः भवति ।]
--> राजान् [वेरपृक्तस्य 6.1.67 इति अपृक्तवकारस्य लोपः । सनाद्यन्ता धातवः 3.1.32 इति धातुसंज्ञा ।]
वाक्ये प्रयोगः - देवदत्तः राजानति । देवदत्तः राजा इव आचरति इत्यर्थः ।
एवमेव -
अ) पन्था इव आचरति इति पथीनति । अ्त्र 'पथिन् + क्विप् --> पथीन्' इति क्विबन्तधातुः ।
आ) दण्डिन् इव आचरति इति दण्डीनति । अत्र 'दण्डिन् + क्विप् --> दण्डीन्' इति क्विबन्तधातुः ।
झलादि कित्-प्रत्ययः
यस्य प्रत्ययस्य आदिवर्णः झल्-अस्ति, तथा यस्मिन् प्रत्यये ककारः इत्संज्ञकः अस्ति, सः प्रत्ययः 'झलादि-कित्-प्रत्ययः' नाम्ना ज्ञायते । यथा - क्त्वा, क्त, क्तिन् आदयः । अस्मिन् प्रत्यये परे अङ्गस्य उपधावर्णस्य दीर्घः भवति । यथा -
शमुँ (उपशमे, दिवादिः, <{4.98}>)
--> शम् + क्त [निष्ठा 3.2.102 इति क्तप्रत्ययः]
--> शाम् + त [अनुनासिकस्य क्विझलोः क्ङिति इति उपधादीर्घः]
--> शांत [नश्चापदान्तस्य झलि 8.3.24 इति अनुस्वारः]
--> शान्त [अनुस्वारस्य ययि परसवर्णः 8.4.58 इति परसवर्णः]
एवमेव
अ) तम् (कांक्षायाम् <{4.99}>) + क्त --> तान्त
आ) क्षम् (सहने, <{1.510}>) + क्त --> क्षान्त
आदीनि रूपाणि अपि सिद्ध्यन्ति ।
झलादि ङित्-प्रत्ययः
यस्य प्रत्ययस्य आदिवर्णः झल्-अस्ति, तथा यस्मिन् प्रत्यये ङकारः इत्संज्ञकः अस्ति (नो चेत् यः प्रत्ययः अतिदेशेन ङित्त्वम् प्राप्नोति) सः प्रत्ययः 'झलादि-ङित्-प्रत्ययः' नाम्ना ज्ञायते । एतादृशे प्रत्यये परे अनुनासिकान्तस्य अङ्गस्य वर्तमानसूत्रेण उपधादीर्घः भवति । यथा -
शमुँ (उपशमे, दिवादिः, <{4.98}>)
--> शम् + यङ् [धातोरेकाचो हलादे क्रियासमभिहारे यङ् 3.1.22 इति क्रियासमभिहारे यङ्-प्रत्ययः]
→ श + शम् + य [सन्यङोः 6.1.9 इति द्वित्वम्]
--> श + शम् + य [हलादिः शेषः 7.4.60 इति मकारः लुप्यते ।]
→ शन् + शम् + य [नृगतोऽनुनासिकान्तस्य 7.4.85 इति अभ्यासस्य नुक्-आगमः ।]
→ शन् + शम् [यङोऽचि च 2.4.74 इति यङ्-प्रत्ययस्य लुक् । अयं बहिरङ्गत्वात् द्वित्वकार्यात् अनन्तरं भवति । ]
→ शन्शम् [ सनाद्यन्ताः धातवः 3.1.32 इति धातुसंज्ञा ]
→ शन्शम् + लट् [वर्तमाने लट् 3.2.123 इति लट् ]
→ शन्शम् + तस् [तिप्तस्झि... 3.4.78 इति प्रथमाद्विवचनस्य विवक्षायाम् तस्-प्रत्ययः । सार्वधातुकमपित् 1.2.4 इत्यनेन तस्-प्रत्ययः ङिद्वत् कार्य करोति ।]
→ शन्शम् + शप् + तस् [कर्तरि शप् 3.1.68 इति औत्सर्गिकं गणविकरणम् शप्]
→ शन्शम् + तस् [<ऽचर्करीतं चऽ> इत्यनेन गणसूत्रेण यङ्लुगन्तानाम् अदादिगणे समावेशः क्रियते । अतः अदिप्रभृतिभ्यः शपः 2.4.72 इति शपः लुक् भवति । ]
→ शन्शाम् + तस् [अनुनासिकस्य क्विझलोः क्ङिति 6.4.15 इति झलादि ङिति तस्-प्रत्यये परे उपधादीर्घः ]
--> शन्शाम्तः [ससजुषोः रुँः 8.2.66 इति रुँत्वम्, खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गः ]
→ शंशांतः [नश्चापदान्तस्य झलि 8.3.24 इति अनुस्वारः]
→ शंशान्तः [अनुस्वारस्य ययि परसवर्णः 8.4.58 इति नकारादेशः]
एवमेव 'तम् (कांक्षायाम् <{4.99}>)' इत्यस्य यङ्लुकि लटि प्रथमपुरुषे द्विवचनस्य रूपम् 'तन्तान्तः' इति सिद्ध्यति ।
1) झलादि-कित्-ङित्-प्रत्यये परे अनुनासिकस्य क्विझलोः क्ङिति 6.4.15 अनेन सूत्रेण उक्तः उपधादीर्घः द्वाभ्यां सूत्राभ्याम् बाध्यते -
अ) अनुदात्तोपदेशधातूनां विषये तथा च तनोत्यादिगणस्य धातूनां विषये अत्र उक्तम् उपधादीर्घं बाधित्वा अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिक लोपो झलि क्ङिति 6.4.37 इत्यनेन अनुनासिकलोपः भवति । यथा, गम् + क्त --> गत ।
आ) जन्, सन्, खन् - एतेषां विषये अत्र उक्तम् उपधादीर्घं बाधित्वा जनसनखनां सञ्झलोः 6.4.42 इति अन्तिमवर्णस्य आकारादेशः भवति । यथा - जन् + क्त --> जात ।
2) हन्-धातोः विषये क्विप्-प्रत्यये परे शिष्टप्रयोगसामर्थ्यात् इदं सूत्रं न प्रवर्तते । ब्रह्माणं अहन् = ब्रह्म + हन् + क्विप् --> ब्रह्महन् ।
index: 6.4.15 sutra: अनुनासिकस्य क्विझलोः क्ङिति
अनुनासिकस्य क्विझलोः क्ङिति - अनुनासिकस्य । अङ्स्येत्यधिकृतमनुनासिकेन विशेष्यते । तदन्तविधिः ।नोपधायाःट इत्यत उपधाया इति, 'ढ्रलोपे' इत्यतो दीर्घ इति चानुवर्तते । तदाह — अनुनासिकान्तस्येत्यादिना । इदामतीति ।हलन्तेभ्य आचारक्विप् नास्ती॑ति 'ह्रस्वनद्यापः' इति सूत्रभाष्ये स्पष्टमिति शब्देन्दुशेखरे स्थितम् । पथीनतीति । पथिन्शब्दात्क्विपिअनुनासिकस्ये॑ति इकारस्य दीर्घः । इदं तु माधवानुरोधेन । क्विबभ्युपगमेऽपि तिपि पथेनतीत्येव युक्तम्,इन्ह॑न्निति नियमेन दीर्घाऽप्राप्तेः । न च नियमस्य अन्तरङ्गत्वात्अनुनासिकस्येटत्युपधादीर्घापत्तेरित्याहुः । देवतीतीति । दिव्शब्दादाचारक्विबन्ताच्छपि लघूपधगुणः । 'नः क्ये' इति नियमेन अपदान्तत्वात्दिव उ॑दित्युत्त्वं नेति भावः । अत्र ऊठीति । दिव्शब्दात् क्विपिच्छ्वो॑रिति वकारस्य ऊठि कृते लघूपधगुणं बाधित्व परत्वादिकारस्य यणि द्यूशब्दाच्छपि ऊकारस्य गुणे अवादेशे च द्यवतीति रूपमुचितमित्यर्थः । चकाविति । कशब्दात्क्विबन्ताल्लिटि णलि द्वित्वे चुत्वे चक अ इति स्थिते ककारादकारस्य अतो लोपात्परत्वाद्वृद्धौ आकारे 'आत औ णलः' इत्यौत्त्वे वृद्धिरेकादेश इति भावः । माधवस्त्विति । चक अ इति स्थिते पूर्वविप्रतिषेधाद्वृदिंध बादित्वा ककारादकारस्य अतो लोपे कृते णलोऽकारेण सह चक अ इति रूपमित्यर्थः । नचैवं सति अ इवाचरति अति, औ, अतुरित्यत्रापि लिटिअत आदे॑रिति दीर्घं बाधित्वा अतो लोपः स्यादिति वच्यं,ण्यल्लोपा॑विति पूर्वविप्रतिषेधलभ्योऽतो लोपः संनिहितमेवअकृत्सार्वे॑ति दीर्घं बाधते, ननुअत आदे॑रिति दीर्घमपि,अनन्तरस्ये॑ति न्यायादिति माधवाशय इत्याहुः । तदनाकरमेवेति । अनेकाच्त्वाऽभावादिति भावः । वस्तुतस्तुप्रत्ययग्रहणमपनीये॑त्यस्य भाष्ये अदर्शनात् प्रत्ययान्तत्वादाम्भवत्येवेति युक्तमेवेत्यनुपदमेवोक्तम् ।
index: 6.4.15 sutra: अनुनासिकस्य क्विझलोः क्ङिति
अङ्गाक्षिप्तस्य झला विशेषणातदादिविधिः । कितीत्येतत्सम्भवव्यभिचाराभ्यां झलादेरेव विशेषणम् । प्रतानित्यादि । तमु काडक्षायाम्, शमु उपशमे, दमु ग्लानौ - एतेभ्यः क्विप, मो नो धातोः इति नत्वम् । यङ्लुगन्तातसिति । स्य सार्वधातुकमपित् इति ङ्त्विम् । वस्तुकथनं चैतत्, न त्वनेन निष्ठाशङ्का वार्यते ङिति खल्वपि इत्युपक्रमात् । किञ्च निष्ठायामिटा भवितव्यम्, न चोदित्वाद् यस्य विभाषा इति प्रतिषेधः, एकाचेति तत्रानुवृतेः ॥