6-4-42 जनसनखनां सञ्झलोः असिद्धवत् अत्र आभात् नलोपः आत्
झलि क्ङिति इति चानुवर्तते। जन सन खन इत्येतेषामङ्गानां सनि झलादौ क्ङिति झलादौ प्रत्यये परत आकार आदेशो भवति। जन् — जातः। जातवान्। जातिः। सन् — सनि — सिषासति। सातः। सातवान्। सातिः। खन् — खात्ः। खातवान्। खातिः। झल्ग्रहणं सन्विशेषणार्थं किमर्थमनुवर्त्यते? इह मा भूत् — जिजनिषति। सिसनिषति। चिखनिषति। सनोतेः <<सनीवन्तर्ध०>> ७.२.४९ इति पक्ष इडागमः। तदिह सनोत्यर्थमेव सन्ग्रहणम्। अत्र झलादौ क्ङिति सनोतेर्विप्रतिषेधाद् आत्वमनुनासिकलोपं बाधते। <<घुमास्थागापाजहातिसां हलि>> ६.४.६६ इति हल्ग्रहणं ज्ञापकम् — अस्मिन्नसिद्धप्रकरणे विप्रतिषेधो भवतीति॥
एषामाकारोऽन्तादेशः स्याज्झलादौ सनि झलादौ क्ङिति च । जजातः । जज्ञति । जजंसि । जजान । जजन्यात् । जजायात् । जन्यात् । जायात् ।{$ {!1106 गा!} स्तुतौ$} । देवाञ्जिगाति सुम्नयुः । जिगीतः । जिगति ॥
एषामाकारेऽन्तादेशः स्यात् सनि झलादौ क्ङिति। असात, असनिष्ट॥॥ {$ {! 3 क्षणु !} हिंसायाम् $} (धातुपाठे <{08.0003}>) ॥ क्षणोति, क्षणुते॥ ह्म्यन्तेति न वृद्धिः। अक्षणीत्, अक्षत, अक्षणिष्ट। अक्षथाः, अक्षणिष्ठाः॥ {$ {! 4 क्षिणु !} च $} (धातुपाठे <{08.0004}>) ॥ अप्रत्यये लघूपधस्य गुणो वा। क्षेणोति, क्षिणोति। क्षेणिता। अक्षेणीत्, अक्षित, अक्षेणिष्ट॥ {$ {! 5 तृणु !} अदने $} (धातुपाठे <{08.0006}>) ॥ तृणोति, तर्णोति; तृणुते, तर्णुते॥ {$ {! 6 डुकृञ् !} करणे $} (धातुपाठे <{08.0010}>) ॥ करोति॥ <<अत उत्सार्वधातुके>> <{LSK571}> - उप्रत्ययान्तस्य कृञोऽकारस्य उः स्यात्, सार्वधातुके क्ङिति । कुरुतः ॥
<<जनसनखनां सञ्झलोः>> - जनसन.॒विडवनो॑रितय्त आदित्यनुव्रतते । तदाह — एषामाकारोऽन्तादेश इति । सन् झल् इत्यनयोद्र्वन्द्वात्सप्तमीद्विवचनम् । सनि झलि चेति लभ्यते ।अनुदात्तोपदेशे॑त्यतो झलिक्ङितीत्यनुवर्तते । तत्र झलीत्यनुवृत्तेन सन् विशेष्यते । तदादिविधिः । झलादौ सनीति लभ्यते । क्ङितीत्यनुवृत्तं त्वेत्सूत्रस्थेन झला विशेष्यते । तदादिविधिः । झलादौ क्ङितीति लभ्यते । तथाच झलादौ सनीति, झलादौ क्ङितीति च परनिमित्तद्वयं लब्धम् । तदाह — झलादौ सनि झलादौ क्ङिति चेति । सन्विशेषणं झलादाविति किम् । जिजनिषति । सिसनिषति । चिखनिषति । अथ क्ङितोर्झल्विशेषमस्य प्रयोजनमाह — जज्ञतीति । जनन् अतीति स्थिते अतेर्ङित्त्वेऽपि झलादित्वाऽभावादात्त्वाऽभावेगमहने॑त्युपधालोपे नकारस्य श्चुत्वेन ञकार इति भावःजनसनखनां स॑नित्याश्रित्य योगविभागेन उक्तार्थसिदिंध चाश्रित्य झ्लग्रहणं त्वत्र सूत्रे प्रत्याख्यातं भाष्ये । जजंसीति ।नश्चे॑त्यनुस्वारः । जजाथः जजाथ । जजन्मि जजन्वः जजन्मः । जजानेति । जज्ञतुः । सेडयम् । जजनिथ जज्ञथुः ।जज्ञिव । जनिता । जनिष्यति । जजन्तु — जजातात् । जजाहि । जजनानि । अजजमजजाताम् । अजज्ञुः । अजजनमजजन्व । विधिलिङिये विभाषे॑ति मत्वाह — जजायात् जंजन्यादिति । अजनीत् — अजानीत् ।अजनिष्यत् । गा स्तुतौ । देवान् जिगातीति ।भृञामि॑दित्यत्रबहुलं छन्दसी॑ति वचनादभ्यासस्येत्त्वमिति भावः । जिगीत इति ।ई हल्यघो॑रिति ईत्त्वम् । जिगतीति । अभ्यस्तत्वाददादेशेश्नाभ्यस्तयो॑रित्याल्लोपः । जिगासि जिगीथः जिगीथ । जिगामि जिगीवः । जगौ जगतुः । जगिव । गाता । गास्यति । जिगातु — जिगीतात् जिगीताम् जिगतु । जिगीहि । जिगानि । अजिगात् अजिगीतामजिगुः । अजिगाः । अजिगामजिगीव जिगीयात् । आशिषि — गेयात् । अगासीत् । अगास्यत् । इति जुहोत्यादयः ।॥ इति बालमनोरमायाम् जुहोत्यादयः॥अथ तिङन्ते कण्ड्वादयः ।
झल्शब्देनात्र झलादिर्गृह्यते अङ्गेनाक्षिप्तस्य प्रत्ययस्य झला विशेषणात् । क्ङिद्ग्रहणं तस्य विशेषणम् । प्रकृतं तु झल्ग्रहणं सनो विशेषणम् । तदिहेति । वाक्योपन्यासे । विप्रतिषेधादिति । सनोतेस्तनोत्यादिपाठस्यावकाशोऽन्यतनादि कार्यम् - तनादिकृञ्भ्य उः, तनादिभ्यस्तथासोः इति, इह त्वात्वविधौ सन्ग्रहणस्यावकाशः सन्, शिषासति, स्यतः, सातवानित्यत्रोभयप्रसङ्गे परत्वादात्वं भवति । ननु चासिद्धकाण्डे वक्ष्यति - पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुतरस्येति, यत्र किलैकस्याप्यांसद्धत्वे विप्रषेधाभावस्तत्र का कथा द्वयोरप्यसिद्धत्वे इत्यत आह - घुमास्थागापाजहातीत्यादि । विप्रतिषेधो भवतीति । विप्रतिषेधेन व्यवस्थायां क्रियमाणायामासद्धत्वं न भवतीत्यथेः । कथं कृत्वा ज्ञापकम् हर्गर्हणस्यैतत्प्रयोजनम् - हलादौ यथा स्यात्, इह मा भूत् - गौदः, कम्बलद इति । यदि चात्र विप्रतिषेषो न स्याद्धल्ग्रहणमनर्थकं स्यात् । अस्त्वत्रेत्वम्, तस्यासिद्धत्वादियङदेशो असत्याल्लोपे तत्सिद्धं स्यात्, सति विप्रतिषेधे आल्लोप स्यावकाशः - पाण्णित्रम्, अङ्गुलित्रमिति, ईत्वस्य - दीयते, मीयते गोद इत्यादावसति हल्ग्रहणे परत्वादीत्वं स्यादिति हल्ग्रहणमर्थवद्भवति नैतदस्ति ज्ञापकम् व्यवस्थार्थमेतत्स्यात् । असति हि तस्मिन्नीत्वस्यासिद्धत्वादालोपः, तस्यासिद्धत्वादीत्वमिति चक्रकमव्यवस्था प्राप्नोति नास्ति चक्रकप्रसङ्गः,न ह्यव्ययस्थाकारिणा शास्त्रेण भवितव्यम्, शास्त्रतो नाम व्यवस्था । तत्र पूर्वमीत्वम्, तस्यासिद्धत्वादाल्लोपः, लोपेनावस्थानं भविष्यति । एवमपि कुत एतत् - ईत्वास्यासिद्धत्वादाल्लापः, लोपेनावअस्थानमिति, न पुनर्विपर्यंयः स्यात् -पूर्वमाल्लोपः, तस्यासिद्धत्वादीत्वमीत्वेन व्यवस्थानमिति एवं तर्हि यदि व्यवस्थार्थमेतत्स्यात्, नैवायं हल्ग्रहणं कुर्वीत, अविशेषेणायमीत्वं कृत्वा तस्याजादौ लोपमवादं विदधीत, कथम् इदमस्ति आतो लोप इटि च, ततो धुमास्थानगापाजहातिसां लोपो भवति - इटि चाजादौ च क्ङितीति, किमर्थ पुनरिदमीत्वम् वक्ष्यति - तस्य बाधनार्थं तत्, ईद्भवति ध्वाधीनाम्, ततः एलीङ्, वान्यस्य संयोगादेः, न ल्यपि, मयतेरिदन्यतरस्याम्, ततः यति च, यति च ईद्भवति आतः इत्येव सोऽयमेवं लघीयसा न्यासेन सिद्धे सति यति यद्धल्ग्रहणं करोति तद् गरियांसं यत्नमारभते, तज्ज्ञापयत्याचार्यः - भवतीह विप्रतिषेध इति । इह झल्ग्रहणं शक्यमकर्तुम् । कथम् योगविभागः कर्तव्यः - जनसनखनामनुनासिकस्याकारादेशो भवि, झलि क्ङिति ततः सनि च, जनसनखनामाकारादेशो भवति झलीत्येव ॥