नुगतोऽनुनासिकान्तस्य

7-4-85 नुक् अतः नुनासिकान्तस्य अभ्यासस्य यङ्लुकोः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अनुनासिकान्तस्य अङ्गस्य योऽभ्यासः तस्य अकारान्तस्य नुगागमो भवति यङ्यङ्लुकोः परतः। तन्तन्यते। तन्तनीति। जङ्गम्यते। जङ्गमीति। यंयम्यते। यंयमीति। रंरम्यते। रंरमीति। नुकित्येतदनुस्वारोपलक्षणार्थं द्रष्टव्यम्। स्थानिना हि आदेशो लक्ष्यते। तेन यंयम्यते इत्येवमादौ अझल्परत्वेऽपि अनुस्वारो भवति। पदान्तवच्चेति वक्तव्यम्। <<वा पदान्तस्य>> 8.4.59 इति परसवर्नविकल्पो यथा स्यातिति। अतः इति किम्? तेतिम्यते। तपरकरणं तु भूतपूर्वस्य अपि दीर्घस्य निवृत्त्यर्थम्, बाभम्यते। अनुनासिकान्तस्य इति किम्? पापच्यते।

Siddhanta Kaumudi

Up

अनुनासिकान्तस्याङ्गस्य योऽभ्यासोऽदन्तस्तस्य नुक् स्यात् । नुकानुस्वारो लक्ष्यत इत्युक्तम् । यँय्यम्यते । यंयम्यते । तपरत्वसामर्थ्याद्भूतपूर्वदीर्घस्यापि न । भाम क्रोधे । बाभाम्यते । ये विभाषा <{SK2319}> । जाजायते । जञ्जन्यते ।<!हन्तेर्हिंसायां यङि घ्नीभावो वाच्यः !> (वार्तिकम्) ॥ जेघ्नीयते । हिंसायां किम् । जङ्घन्यते ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

नुगित्येतदित्यादि । केन सम्बन्धेनोपलक्षणम् ? अत आह - स्थानिना हीति । उपलक्षणत्वे किं सिद्धम् ? अत आह - तेनेति । अझल्परत्वेऽपीति । तन्तन्यत इत्यादौ झल्परत्वे तु'नश्चापदान्तस्य झलि' इत्यनुस्वारः सिद्ध एव । ठनुस्वारस्य ययि परसवर्णःऽ इति नित्यं परसवर्णः प्राप्नोति, इष्यते च पक्षे अनुस्वारस्य श्रवणम् ? अत आह - पदान्तवच्चेति । तत्कथं लभ्यते ? इहान्तग्रहणं न कर्तव्यं तदन्तविधिना सिद्धम् ? तत्क्रियते - पदान्तस्यानुस्वारस्य यो धर्मः सोऽस्य यथा स्यादिति । एवं च - अनुनासिकान्तस्येति पृथक् पदे, अनुनासिकेति लुप्तषष्ठीकम् । तेतिम्यत इति ।'तिम आर्द्रीभावे' । तपरकरणं किमिति । सर्वत्र ह्लक्वस्यैव भावान्नास्य किञ्चिद्व्यावर्त्यमिति प्रश्नः । भूतपूर्वस्यापीति । अन्यथा तपरकरणमनर्थकं स्यादिति भावः । बाभम्यत इति । ठ्भाम क्रोधे ॥