अत्वसन्तस्य चाधातोः

6-4-14 अतु असन्तस्य च अधातोः न उपधायाः असम्बुद्धौ सौ

Sampurna sutra

Up

अधातोः अतु-अस्-अन्तस्य असम्बुद्धौ सौ उपधायाः दीर्घः

Neelesh Sanskrit Brief

Up

अतु-प्रत्ययान्तशब्दस्य, तथा अस्-यस्य अन्ते अस्ति तादृशस्य शब्दस्य अङ्गस्य उपधायाः प्रथमैकवचनस्य सुँ-प्रत्यये परे दीर्घः भवति । परन्तु यस्य अन्ते धातुः अस्ति तादृशस्य शब्दस्य अयं दीर्घादेशः न भवति ।

Neelesh English Brief

Up

The उपधा of the words ending in either मत्, वत्, or अस् becomes दीर्घ in presence of the सुँ-प्रत्यय of प्रथमा एकवचन, provided these words do not end in a धातु.

Kashika

Up

अतु अस् इत्येवमन्तस्य अधातोरुपधायाः सावसंबुद्धौ परतो दीर्घो भवति। डवतुभवान्। क्तवतु — कृतवान्। मतुप् — गोमान्। यवमान् । अत्र कृते दीर्घे नुमागमः कर्तव्यः। यदि हि परत्वाद् नित्यत्वात् च नुम् स्यात्, दीर्घस्य निमित्तमजुपधा विहन्येत। असन्तस्य — सुपयाः। सुयशाः। सुस्रोताः। अधातोरिति किम्? पिण्डं ग्रसत इति पिण्डग्रः। चर्म वस्त इति चर्मवः। अनर्थकोऽप्यस्शब्दो गृह्यते, <<अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधिं प्रयोजयन्ति>> (परि० १६) इति। अन्तग्रहणमुपदेशप्रयोगैकदेशस्याप्यत्वन्तस्य परिग्रहार्थम्। अन्यथा मतुपो ग्रहणं न स्यात्, उपदेशे रूपनिर्ग्रहहेतौ नायमत्वन्त इति। असंबुद्धावित्येव — हे गोमन्। हे सुपयः॥

Siddhanta Kaumudi

Up

अत्वन्तस्योपधाया दीर्घः स्याद्धातुभिन्नासन्तस्य चासंबुद्धौ सौ परे । परं नित्यं च नुमं बाधित्वावचनसामर्थ्यादादौ दीर्घः । ततो नुम् । धीमान् । धीमन्तौ । धीमन्तः । हे धीमन् । शसादौ महद्वत् । धातोरप्यत्वन्तस्य दीर्घः । गोमन्तमिच्छति गोमानिवाचरतीति वा क्यजन्तादाचारक्विबन्ताद्वा कर्तरि क्विप् । उगिदचाम् <{SK36}> इति सूत्रेऽज्ग्रहणं नियमार्थं । धातोश्चेदुगित्कार्यं तर्ह्यञ्चतेरेवेति । तेन स्नत् ध्वत् इत्यादौ न । अधातोरिति तु अधातुभूतपूर्वस्यापि नुमर्थम् । गोमान् । गोमन्तौ । गोमन्तः । इत्यादि ॥ भातेर्डवतुः <{SK36}>3 । भवान् । भवन्तौ । भवन्तः । शत्रन्तस्य त्वत्वन्त्वाभावान्न दीर्घः । भवतीति भवन् ॥

Laghu Siddhanta Kaumudi

Up

अत्वन्तस्योपधाया दीर्घो धातुभिन्नासन्तस्य चासम्बुद्धौ सौ परे। उगित्तवान्नुम्। धीमान्। धीमन्तौ। धीमन्तः। हे धीमन् शसादौ महद्वत्॥ भातेर्डवतुः। डित्त्वसामर्थ्यादभस्यापि टेर्लोपः। भवान्। भवान्तौ। भवन्तः। शत्रन्तस्य भवन्॥

Neelesh Sanskrit Detailed

Up

अतु-प्रत्ययान्तशब्दाः इत्युक्ते वत्-शब्दः /मत् शब्दः येषामन्ते अस्ति ते शब्दाः । यथा - भवत्, धीमत् , गतवत् आदयः । एतेषामङ्गस्य उपधायाः 'प्रथमैकवचनस्य सुँ-प्रत्यये परे' दीर्घादेशः भवति । तथैव 'अस्' येषामन्ते अस्ति - यथा - चन्द्रमस् , सुयशस् - एतेषामपि अङ्गस्य उपधायाः 'प्रथमैकवचनस्य सुँ-प्रत्यये परे' दीर्घादेशः भवति । यथा - 1) मत्-येषामन्ते ते - धीमत् + सुँ = धीमान् । 2) वत्-येषामन्ते ते - भवत् + सुँ = भवान् । गतवत् + सुँ = गतवान् । 3) अस्-येषामन्ते ते - चन्द्रमस् + सुँ = चन्द्रमाः । एतेषु सर्वेषु रूपेषु अङ्गस्य उपधावर्णस्य दीर्घादेशः अनेन सूत्रेण भवति । परन्तु ये मत्/वत्/अस्-अन्ताः धात्वन्तः अपि सन्ति, तेषां विषये अयं दीर्घादेशः न भवति । यथा - 1) 'पिण्डं ग्रसते सः पिण्डग्रः' । अत्र मूलशब्दः अस्ति 'पिण्डग्रस्' । यद्यपि अस्य अन्ते 'अस्' अस्ति तथापि अयं शब्दः धात्वन्तः अपि अस्ति ('ग्रस्' इति धातुः) अतः अत्र दीर्घादेशः न भवति । 2) 'चर्म वस्ते सः चर्मवः' इत्यत्र मूलशब्दः यः 'चर्मवस्' तस्य अस्-अन्तत्वे अपि धात्वन्ते स्थितवति दीर्घादेशः न विधीयते । ज्ञातव्यम् - अङ्गस्य उपधावर्णस्य अयं दीर्घादेशः केवलं प्रथमैकवचनस्य सुँ-प्रत्यये परे एव भवति, सम्बुद्धिप्रत्यये परे न । यथा - हे धीमन्, हे भवन्, हे चन्द्रमः, आदयः ।

Balamanorama

Up

<<अत्वसन्तस्य चाधातोः>> - धीमत् स् इति स्थिते — आत्वसन्तस्य । 'अतु' इति लुप्तषष्ठीकं पृथक्पदम् । अङ्गविशेषणत्वात्तदन्तविधिः । अधातोरित्यसन्तविशेषणम् । 'नोपधाया' इत्यत उपधाया इत्यनुवर्तते । अत्वन्तस्य धातुभिन्नाऽसन्तस्य च उपधाया इति लभ्यते ।सर्वनामस्थाने चासंबुद्धौ॑ इत्यतोऽसंबुद्धावितिसौ चे॑त्यतः साविति 'ढ्रलोपे' इत्यतो 'दीर्घ' इति चानुवर्तते । तदाह — अत्वन्तस्येत्यादिना । ननु कृते अकृते च दीर्घे प्रवृत्त्यर्हस्य नुमो नित्यत्वात्परत्वाच्च मकाराऽकारान्नुमि कृते अत्वन्तत्वाऽभावात्कथमिह दीर्घ इत्यत आह — परमिति । वचनसामर्थ्यादिति । अन्यथा निरवकाशत्वापत्तिरिति भावः । ततो नुमिति । दीर्घे कृते नुमित्यर्थः ।विप्रतिषेधे यद्बाधितं तद्बाधित॑मिति त्वनित्यम्,पुनः प्रसङ्गविज्ञानात्सिद्ध॑मित्युक्तेरिति भावः ।धीमानिति । दीर्घे नुमि हल्ङ्यादिलोपे संयोगान्तलोपे रूपमिति भावः । हे धीमन्निति ।असंबुद्धौ॑इत्युक्तेर्नं दीर्घ इति भावः । महद्वदिति । असर्वनामस्थानतया शसादौ नुमभावादिति भावः ।अत्वसो॑रिति वक्तव्येऽन्तग्रहणन्तु अत्वन्तमात्रग्रहणार्थम् । अन्यथोपदेशे ये अत्वन्तास्त एव गृह्रेरन्न तु मतुबादयः । नह्रेते उपदेशेऽत्वन्ता इत्याहुः । नन्वधातोरित्येतदसन्तस्येव अत्वन्तस्यापि विशेषणं कुतो नेत्यत आह — धातोरपीति । अत्वन्तस्य धातुत्वेऽपि दीर्घार्थम् । अधातोरित्येतस्य अत्वन्तविशेषणत्वं नाश्रितमित्यर्थः । ननु धातुपाठेऽत्वन्तधातुरप्रसिद्ध इत्यत आह — गोमन्तमिति ।आचरति वे॑त्यनन्तरम् 'इत्यर्थे' इति शेषः । गोमन्तमिच्छतीत्यर्थे 'सुप आत्मनः क्य' मिति क्यचि 'नः क्ये' इति नियमात्पदत्वाऽभावाज्जश्त्वाऽभावे गोमत्यशब्दात् 'सनाद्यन्ताः' इति धातुत्वात्कर्तरि क्विपि 'यस्य हलः' 'अतो लोपः' इति यलोपाऽलोपयोर्गोमच्छब्दात्सुबुत्पत्तिः । गोमानिवाचरतीत्यर्थे तुसर्वाप्रातिपदिकेभ्यः क्विब्वा वक्तव्यः॑ इति क्विपि 'सनाद्यन्ताः' इति धातुत्वात्कथमस्यउगिदचा॑मिति नुमागमः, अधातोरेव उगितो नुम्विधानादित्याशङ्क्य आह — उगिदचाम#इति सूत्रे इति ।उगितः सर्वनामस्थाने॑ इत्येतावदेव सूत्रमस्तु, अञ्चतेरुगित्त्वादेव सिद्धेः । तोऽज्ग्रहणमतिरिच्यमानं नियमार्थमित्यर्थः । नियमशरीरमाह — धातोश्चेदिति । धातोश्चेदुगितः कार्यं स्यात्तर्हि अञ्चतेरेव नतु धात्वन्तरस्येति नियमार्थ॑मिति पूर्वेणान्वयः । नियमस्य फलमाह — तेनेति ।रुआन्सु ध्वन्सु गतौ॑ इत्युगितौ धातू । ताभ्यां क्विपिअनिदितां हल उपधायाः॑ इति नलोपे सुबुत्पत्तौ सोर्हल्ङ्यादिलोपेवसुरुआंसुध्वंस्वनडुहां दः॑ इति दत्वे रुआत् ध्वत् इति रूपमिष्टम् ।उगितः सर्वनामस्थाने॑ इत्युक्ते त्वत्रापि नुम् स्यात् । कृते त्वज्ग्रहणे उक्तनियमलाभादत्र नुम् न भवतीत्यर्थः । तह्र्रेतावतैव सिद्धेऽधातोरिति किमर्थमित्यत आह — अधातोरिति त्विति । अधातुः पूर्वं भूतः अधातुभूतपूर्वः । पूर्वमधातुभूतस्यापि नुमर्थमधातोरित्येतदित्यर्थः । ततस्चउगिदचां सर्वनामस्थाने॑ इत्येकं वाक्यम् । तत्र अधातोरित्यभावेऽपि अज्ग्रहणादधातोरुगित इति लाभादधातोरुगितो नलोपिनोऽञ्चतेश्च नुमागमः स्यादित्यर्थः ।अधातो॑रित्यपरं वाक्यम् । उक्तोनुमागमोऽधातुभूतपूर्वस्यापि भवतीत्यर्थः । प्रकृते च क्यजाचारक्विबुत्पत्त्यनन्तरं धातुत्वे सत्यपि क्यजाद्युत्पत्तेः पूर्वमदातुत्वसत्त्वान्नुम्निर्बाध इत्यर्थः । एतत्सर्वम्उगिदचा॑मिति सूत्रे भाष्ये स्पष्टम् । अत्र क्यच्पक्षे दीर्घे नुमि च कर्तव्येऽल्लोपो न स्थानिवत्, दीर्घविधौ तन्निषेधात्,क्वौ लुप्तं न स्थानिव॑दित्युक्तेश्च । अथ भवच्छब्दे विशेषमाह — भातेर्डवतुरिति । उणादिसूत्रमेतत् । भाधातोर्डवतुः स्यादित्यर्थः । डकार इत् । उकार उच्चारणार्थः । डित्त्वसामर्थ्यादभस्यापि टेर्लोपः । 'भवत्' इति रूपम् । भवानिति । भवच्छब्दात्सुः ।अत्वसन्तस्ये॑त दीर्घः ।उगिदचा॑मिति नुम्, हल्ङ्यादिलोपः, संयोगान्तलोपश्चेति भावः । शत्रन्तस्य त्विति । 'लटः शतृशानचौ' इति भूधातोर्लटः शत्रादेशः । शकार इत्, ऋकार इत्, शप्, गुणः, अवादेशः , पररूपम्, भवत् इति रूपम् । तस्य तु अत्वन्तत्वाऽभावादत्वसन्तस्येति दीर्घो न भवति । तत्र उकारानुबन्धग्रहणादित्यर्थः । भवन्निति । सौ नुमि हल्ङ्यादिलोपे संयोगान्तलोपः । भवन्तावित्यादि तु पूर्ववदेवेति भावः । दाञ्धातोर्लटः शत्रादेशे शप् ।जुहोत्यादिभ्यः श्लुः॑ 'श्लौ' इति द्वित्वम्, अभ्यासह्रस्वः, 'श्नाभ्यस्तयोरातः' इत्याल्लोपः । दददिति रूपम् । ततः सुबुत्पत्तिः ।

Padamanjari

Up