अज्झनगमां सनि

6-4-16 अच् हन् गमां सनि न उपधायाः क्वि झलोः क्ङिति

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अजन्तानामङ्गानां हनिगम्योश्च सनि झलादौ परे दीर्घो भवति। अजन्तानाम् — विवीषति। तुष्टूषति। चिकीर्षति। जिहीर्षति। हन् — जिघांसति। गम् — अधिजिगांसते ॥गमेरिङादेशस्येति वक्तव्यम्॥ इह मा भूत् — संजिगंसते वत्सो मात्रेति। स्वर्गं लोकं समजिगांसद् इति छन्दसि यदनिङादेशस्यापि दीर्घत्वं दृश्यते, तद् <<अन्येषामपि दृश्यते>> ६.३.१३७ इत्यनेन भवति। अथ वा इहाज्ग्रहणं न कर्तव्यम्। सनि दीर्घो भवतीत्येतावदेव सूत्रं कर्तव्यम्, तत्राचा गृह्यमाणस्य विशेषणे सति सिद्धमजन्तस्य दीर्घत्वम्। तत् क्रियते प्रवृत्तिभेदेन गमेरपि विशेषणार्थम् — अजन्तस्याङ्गस्य दीर्घो भवति, अजादेशस्य गमेरिति। ततो न वक्तव्यमिदं गमेरिङादेशस्येति॥

Siddhanta Kaumudi

Up

अजन्तानां हन्तेरजादेशगमेश्च दीर्घः स्याज्झलादौ सनि । सन्लिटोर्जेः <{SK2331}> जिगीषति । विभाषा चेः <{SK2525}> चिकीषति । चिचीषति । जिघांसति ॥

Laghu Siddhanta Kaumudi

Up

अजन्तानां हन्तेरजादेशगमेश्च दीर्घो झलादौ सनि॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<अज्झनगमां सनि>> - अज्झनगमां सनि । अच्, हन्, गम् — एषां द्वन्द्वः । 'नोपधायाः' इत्यत उपधाया इत्यनुवृत्तं हनगमोरन्वेति, न त्वजन्ते, असंभवात् । अङ्गस्येत्यधिकृतम् । अचस्तद्विशेषणत्वात्तदन्तविधिः । गमधातुरिह अजादेश एव विवक्षित इति प्रकृतसूत्रभाष्ये स्पष्टम् ।ढ्रलोपे पूर्वस्ये॑त्यतो दीर्घ इत्यनुवर्तते । तदाह — अजन्तानामित्यादिना । झलादौ सनीति ।च्छ्वोः शू॑डिति सूत्रभाष्येअज्झनगमा॑मित्यत्र सनं झला विशेषयिष्याम् इत्युक्तेरिति भावः । अथ जिधातोरभ्यासात्परस्य कुत्वविधिं स्मारयति — सन्लिटोर्जेरिति । जिगीषतीति । जिगीषतीति । जेर्दीर्घे अभ्यासात्परस्य कुत्वम् । अथ चिञ्धातोरभ्यासात्परस्य कुत्वविकल्पं स्मारयति — विभाषा चेरिति । चिकीषति- चिचीषतीति । अजन्तत्वाद्दीर्घः । जिघांसतीति । हनेः सनिअज्झने॑त्यकारस्य दीर्घः, न त्वन्त्यस्य नकारस्य, दीर्घश्रुत्याअचट इत्युपस्थितेः । द्वित्वम् ।अभ्यासाच्चे॑ति कुत्वम् ।नश्चे॑त्यनुस्वारः ।

Padamanjari

Up

अत्र यद्यपधाया इत्यनुवर्तेत, अजन्तेषु व्यञ्जनस्य दीर्घप्रसङ्गः । तस्मान्निवृतम् । यद्येवम्, हनिगम्योरलोऽन्त्यस्य दीर्घप्रसङ्गः तन्न, अचश्च इत्युपस्थानात् । न चैवमभ्यासस्य प्रसङ्गः, हन् स इति स्थिते परत्वाद्दीर्घत्वे कृते पुनः प्रसङ्गविज्ञानात् द्विर्वचनम् । अस्तु वाऽभ्यासस्यापि दीर्घः, ह्रस्वः इति भविष्यति । जिघांसतीति । अभ्यासाच्चेति कुत्वम् । अधिजिगांसत इति । इङ्श्चेति गमिरादेशः । इह बहवो गमयः - गम्लृ सःप्लृ गतौ इति धातुः, णौ गमिरबोधने, सनि चेतीणादेशः, इण्वदिक इति वक्तव्यम् इतीक आदेशः, इङ्श्च इतीङदेशश्चेति तत्राविशेषात्सर्वत्र प्रसङ्गे सत्याह - गमेरिङदेशस्येति वक्तव्यमिति । इण इक इङ्श्चैक एवादेशः स इहोपलक्ष्यते, अतो धातुमेकं वर्जयित्वा त्रयाणामादेशस्य एग्रहणम्, तथा च वक्ष्यति - अजादेशस्य गमेरिति । एवं चेणिकोरादेशस्यापि गमेर्भावकर्मणोरात्मनेपद इडभावे झलादौ सनि अज्झन इति दीर्घो भवत्येव सञ्जिगांस्यते इति । सञ्जिगंसत इति । गमेः समो गम्यृच्छि इत्यात्मनेपदं विहितम्, तत्र च अकर्मकात् इति वर्तते, तेन सनन्तादपि पूर्ववत्सनः इत्यात्मनेपदमकर्मकादेव भवति, ततश्च मातरमित्यपफाठः, । मात्रेति तृतीयान्तं पठितव्यम् । सञ्चिगांसदिति । सम्पूर्वाद् गमेः सन्, सकर्मकत्वात् परस्मैपदम्, छान्दसत्वादिडभावः, बहुलं च्छन्दस्यमाङ्योगेऽपि इत्यडभावः । प्रायेण तु वृतौ साट्कं कठ।ल्ते । इहेत्यादिना गमेरिङदेशस्येति वक्तव्यम् इत्येतत्प्रत्याचष्टे । कथं पुनः सनि दीर्घः इत्येतावति सूत्रे क्रियमाणऽजन्तस्यैव दीर्घत्वं लभ्यते अत आह - तत्राचेत्यादि । सनि दीर्घः इति सूत्रे क्रियमाणएऽङ्गस्येति वर्तते, दीर्घश्रुत्या वा अचश्च इत्युपतिष्ठते, तत्र विशेषणविषेष्यभावं प्रति कामचारादुतरत्र हनिगम्योदीर्घविधानाद् गृह्यमाणमङ्गमचा विशेष्यते, तेन त्वचाङ्गम, विशेषणेन तदन्तविधिर्भवतीति सिद्धमजन्तस्य दीर्घत्वम्, यथा अकृत्सार्वधातुकयोः इत्यत्र । तस्मादिहाज्ग्रहणं न कर्तव्यम् । किमर्थ तर्हि क्रियते इत्याह - तत्क्रियत इति । प्रवृत्तिभेदेन - व्यापारभेदेन । तमेव दर्शयति - अजन्तस्येति । एवं च अज्ग्रहणं सामर्थ्यादावर्तते इत्युक्तं भवति ॥