बन्धुनि बहुव्रीहौ

6-1-14 बन्धुनि बहुव्रीहौ ष्यङः सम्प्रसारणं

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

ष्यङः संप्रसारणमित्यनुवर्तते। बन्धुशब्द उत्तरपदे बहुव्रीहौ समासे ष्यङः संप्रसारणं भवति। कारीषगन्ध्या बन्धुरस्य कारीषगन्धीबन्धुः। कौमुदगन्धीबन्धुः। बहुव्रीहाविति किम् ? कारीषगन्ध्याया बन्धुः कारीषगन्ध्याबन्धुः। अत्रापि पूर्ववदेव। परमकारीषगन्धीबन्धुरित्यत्र भवति। अतिकारीषगन्ध्याबन्धुरिति च न भवति, तथा कारीषगन्ध्याबन्धुधनः कारीषगन्ध्यापरमबन्धुरिति। बन्धुनीति नपुंसकलिङ्गनिर्देशः शब्दरूपापेक्षया, पुँल्लिङ्गाभिधेयस्त्वयं बन्धुशब्दः॥ मातच्मातृकमातृषु वा॥ ष्यङः संप्रसारणं भवति विभाषया बहुव्रीहावेव। कारीषगन्ध्या मातास्येत्येवं बहुव्रीहौ कृत एतस्मादेवोपसंख्यानात् पक्षे मातृशब्दस्य मातजादेशः। तत्र चित्करणसामर्थ्याद् बहुव्रीहिस्वरमन्तोदात्तत्वं बाधते। मातृमातृकशब्दयोश्च भेदेनोपादानाद् <<नद्यृतश्च>> ५.४.१५३ इति कबपि विकल्प्यते। कारीषगन्धीमातः, कारीषगन्ध्यामातः। कारीषगन्धीमातृकः, कारीषगन्ध्यामातृकः। कारीषगन्धीमाता, कारीषगन्ध्यामाता॥

Siddhanta Kaumudi

Up

बन्धुशब्दे उत्तरपदे ष्यङः सम्प्रसारणं स्याद्बहुव्रीहौ । कारीषगन्ध्या बन्धुरस्येति कारीषगन्धीबन्धु । बहुव्रीहाविति किम् । कारीषगन्ध्याया बन्धुः कारीषगन्ध्याबन्धुः क्लीबनिर्देशस्तु शब्दस्वरूपापेक्षया ।<!मातज्मातृकमातृषु वा !> (वार्तिकम्) ॥ कारीषगन्धीमातः । कारीषगन्ध्यामातः । कारीषगन्धीमातृकः । कारीषगन्ध्यामातृकः । कारीषगन्धीमाता । कारीषगन्ध्यामाता । अस्मादेव निपातनान्मातृशब्दस्य मातजादेशः नद्युतश्च <{SK833}> इति कब्विकल्पश्च । बहुव्रीहावेवेदम् । नेह कारीषगन्ध्याया माता कारीषगन्ध्यामाता । चित्त्वसामर्थ्याच्चित्स्वरो बहुव्रीहिस्वरं बाधते ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<बन्धुनि बहुव्रीहौ>> - बन्धुनि बहुव्रीहौ । कारीषगन्धीबन्धुरिति । तत्र पत्युत्तरपदत्वाऽभावात्तत्पुरुषत्वाऽभावाच्च पूर्वेण न प्राप्तिः । मातञ्मातृकमातृषु वेति । वार्तिकमिदम् । मातच्, मातृक, मातृ-एषु परेषु ष्यङः संप्रसारणं वा वक्तव्यमित्यर्थः । मातचि उदाहरति — कारीषगन्धीमातः, कारीषगन्ध्यामात इति । मातृशब्दस्य मातजादेशः । अदन्तमेतत् । मातृके उदाहरति — कारीषगन्धीमातृकः कारीषगन्ध्यामातृक इति ।नद्यृतश्चे॑ति कप् । मातृशब्दे उदाहरति — कारीषगन्धीमाता, कारीषगन्ध्यामातेति । शैषिककबभावे रूपम् । ननु मातृशब्दस्य मातजादेशे किं प्रमाणं,नद्यृतश्चे॑ति नित्यविधानात्पाक्षिककप्च दुर्लभ इत्यत आह — अत एवेति । बहुव्रीहावेवेदमिति ।बन्धुनि बहुव्रीहौ इति सूत्रे अस्य वार्तिकस्य पठितत्वादिति भावः ।मात॑जिति चित्करणं स्वरार्थमित्याह — चित्त्वसामर्थ्यादिति ।

Padamanjari

Up