1-1-72 येन विधिः तदन्तस्य स्वं रूपं
index: 1.1.72 sutra: येन विधिस्तदन्तस्य
येन विधिः, स्वस्य रूपस्य, तदन्तस्य
index: 1.1.72 sutra: येन विधिस्तदन्तस्य
विशेषणेन निर्दिष्टः विधिः तम् विशेषणम् स्वीकृत्य अपि भवति, तदन्तम् स्वीकृत्य अपि भवति ।
index: 1.1.72 sutra: येन विधिस्तदन्तस्य
A विधि mentioned using an adjective happens in the context of that adjective, and also in context of the words which end in that adjective.
index: 1.1.72 sutra: येन विधिस्तदन्तस्य
येन विशेषणेन विधिर्विधीयते स तदन्तस्य आत्मान् तस्य समुदायस्य ग्राहको भवति , स्वस्य च रूपस्य । एरच् 3.3.56 - इवर्णान्तादच्प्रत्ययो भवति -
चयः, जयः, अयः । ओरावश्यके 3.1.125, उवर्णान्ताद् ण्यद् भवति - अवश्यलाव्यम्, अवश्यपाव्यम् । <!समासप्रत्ययविधौ तदन्तविधेः प्रतिषेधो वक्तव्यः!> । द्वितीयान्तं श्रितादिभिः सह समस्यते 2.1.24 कष्टश्रितः । इह मा भूत् - कष्टं परमश्रित इति । प्रत्ययविधौ - नडाऽदिभ्यः फक् 4.1.99 - नडस्य अपत्यं नाडायनः । इह मा भूत् - सूत्रनडस्य अपत्यं सौत्रनाडिः । किमविशेषेण ? न इत्याह । <!उगिद्वर्णग्रहणवर्जम् इति वाच्यम्!> । उगितश्च 4.1.6 इति ङीप्प्रत्ययः तदन्तादपि भवति - भवती, अतिभवती । वर्णग्रहणम् अत इञ् 4.1.95 - दाक्षिः, प्लाक्षिः । <!यस्मिन् विधिस्तदादावल्ग्रहणे!> । अल्ग्रहणेषु यस्मिन् विधिस्तदादौ इति वक्तव्यम् । अचि श्नुधातुभ्रुवां य्वोरियङुवङौ 6.4.77 इति - श्रियः, भ्रुवः ॥
index: 1.1.72 sutra: येन विधिस्तदन्तस्य
विशेषणं तदन्तस्य संज्ञा स्यात् स्वस्य च रूपस्य ।<!समासप्रत्ययविधौ प्रतिषेधः !> (वार्तिकम्) ।<!उगिद्वर्णग्रहणवर्जम् !> (वार्तिकम्) ॥
index: 1.1.72 sutra: येन विधिस्तदन्तस्य
अष्टाध्याय्याः सूत्रैः उक्तः विधिः कीदृशेभ्यः शब्देभ्यः भवति इत्यस्मिन् विषये कश्चन सामान्यनियमः प्रकृतसूत्रेण उच्यते । यदि सूत्रे स्थानिनः निर्देशार्थम् किञ्चन विशेषणम् निर्दिष्टम् अस्ति, तर्हि तेन सूत्रेण निर्दिष्टः विधिः विशेषणस्य विषये तु अवश्यम् एव प्रयुज्यते,परन्तु तद् विशेषणम् यस्य अन्ते विद्यते तादृशस्य शब्दस्य विषये अपि प्रयुज्यते — इति प्रकृतसूत्रस्य अर्थः । अस्यैव निर्देशः व्याकरणग्रन्थेषु
पठँ (व्यक्तायां वाचि, भ्वादिः, <{1.381}>)
→ पठ् + लट् [वर्तमाने लट् 3.2.123]
→ पठ् + मिप् [तिप्तस्झि.. 3.4.78 इति उत्तमपुरुषैकवचनस्य मिप्-प्रत्ययः]
→ पठ् + शप् + मि [कर्तरि शप् 3.1.68 इति शप्]
→ पठ् + अ + मि [इत्संज्ञालोपः]
→ पठ् + आ + मि [अत्र केवल-अकारस्य अङ्गसंज्ञा न विद्यते, अपितु
→ पठामि
2.दिव उत् 6.1.131 इत्यस्मिन् सूत्रे
सुदिव् + भ्याम् [तृतीयाद्विवचनस्य प्रत्ययः । अस्मिन् प्रत्यये परे सुदिव्-शब्दस्य स्वादिष्वसर्वनामस्थाने 1.4.17 इति पदसंज्ञा विधीयते ।]
→ सुदि उ + भ्याम् [दिव उत् 6.1.131 इत्यत्र तदन्तविधिना
→ सुद्युभ्याम् [इको यणचि 6.1.77 इति यणादेशः]
ह्रस्वसंज्ञकस्य इ-धातोः तुगागमः —
इण् (गतौ, अदादिः, <{2.40}>)
→ इ + क्यप् [एतिस्तुशास्वृदृजुषः क्यप् 3.1.109 इति क्यप्-प्रत्ययः]
→ इ तुक् + य [ह्रस्वस्य पिति कृति तुक् 6.1.71 इति तुगागमः]
→ इत्य
ह्रस्वान्तस्य स्तु-धातोः तुगागमः —
ष्टुञ् (स्तुतौ, अदादिः, <{2.38}>)
→ स्तु [धात्वादेः षः सः 6.1.64 । <!निमित्तापाये नैमित्तिकस्याप्यपायः!> इति षत्वनिवृत्तौ ष्टुत्वनिवृत्तिः ]
→ स्तु + क्यप् [एतिस्तुशास्वृदृजुषः क्यप् 3.1.109 इति क्यप्-प्रत्ययः]
→ स्तु + तुक् + य [ह्रस्वस्य पिति कृति तुक् 6.1.71 इत्यत्र तदन्तविधिना ह्रस्वान्तस्य धातोः तुगागमः]
→ स्तुत्य
अनेन प्रकारेण यत्र यत्र विशेषणम् उपयुज्य विधेः निर्देशः कृतः अस्ति, तत्र तत्र प्रकृतसूत्रेण तदन्तविधेः प्रयोगः भवति ।
प्रकृतसूत्रेण उक्तः तदन्तविधिः द्वयोः स्थलयोः नैव इष्यते । तदर्थम् वार्त्तिककारः <! समासप्रत्ययविधौ तदन्तविधेः प्रतिषेधो वक्तव्यः!> इति वार्त्तिकम् अस्मिन् सूत्रे पाठयति । समासविधौ, प्रत्ययविधौ च तदन्तविधेः प्रयोगः न करणीयः — इति अस्य वार्त्तिकस्य अर्थः । यथा —
द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः 2.1.24 अनेन सूत्रेण
नडादिभ्यः फक् 4.1.99 इत्यनेन सूत्रेण नडादिगणस्य शब्देभ्यः
केषुचन विशिष्टेषु स्थलेषु समासविधौ उत प्रत्ययविधौ अपि तदन्तविधिः अवश्यम् इष्यते । अतः एतादृशेषु स्थलेषु <! समासप्रत्ययविधौ तदन्तविधेः प्रतिषेधो वक्तव्यः!> इति वार्त्तिकेन प्राप्तं तदन्तविधेः प्रतिषेधम् बाधित्त्वा पुनः तदन्तविधेः विधानार्थम् वार्त्तिककारः प्रथमवार्त्तिकस्य निषेधरूपेण द्वितीयम् वार्त्तिकं पाठयति — <!उगिद्वर्णग्रहणवर्जम् इति वाच्यम्!> — इति । यत्र उगित्-ग्रहणम् वर्णग्रहणम् वा क्रियते, तत्र समासविधौ प्रत्ययविधौ च अपि तदन्तग्रहणम् अवश्यमेव भवति — इति अस्य वार्त्तिकस्य आशयः । यथा —
1) उगितश्च 4.1.6 अनेन सूत्रेण उगित्-शब्दात् स्त्रीत्वं द्योतयितुम्
2) एरच् 3.3.56 इत्यस्मिन् सूत्रे विद्यमानः
इ-धातोः अच्-प्रत्ययः —
इण् (गतौ, अदादिः, <{2.40}>)
→ इ + अच् [एरच् 3.3.56 इति अच्-प्रत्ययः]
→ ए + अ [सार्वधातुकार्धधातुकयोः 7.3.84 इति गुणः]
→ अय् + अ [एचोऽयवायावः 6.1.78 इति अयादेशः]
→ अय
जि-धातोः अच्-प्रत्ययः —
जि (अभिभवे, भ्वादिः, <{1.1096}>)
→ जि + अच् [एरच् 3.3.56 इति अच्-प्रत्ययः]
→ जे + अ [सार्वधातुकार्धधातुकयोः 7.3.84 इति गुणः]
→ जय् + अ [एचोऽयवायावः 6.1.78 इति अयादेशः]
→ जय
प्रकृतसूत्रस्य भाष्ये, तदनुषङ्गेन परिभाषेन्दुशेखरे च तदन्तविधेः सम्बन्धिन्यः नैकाः परिभाषाः परिगणिताः विद्यन्ते । एताभ्यः काश्चन परिभाषाः प्रकृतसूत्रस्यैव अर्थम् भिन्नरूपेण स्पष्टीकुर्वन्ति, काश्चन अन्याः च परिभाषाः प्रकृतसूत्रस्य विशिष्टेषु सन्दर्भेषु नियमनं कुर्वन्ति । एताभ्यः केवलम् मुख्यानाम् कासाञ्चित् परिभाषाणाम् सङ्क्षेपः अधः दत्तः अस्ति । एतासाम् विस्तरः, तथा च अस्मिन्नेव सन्दर्भे पाठिताः अन्याः परिभाषाः तु प्रकृतसूत्रस्य भाष्ये, परिभाषेन्दुशेखरे च द्रष्टव्याः ।
इतोऽपि काश्चन परिभाषाः प्रकृतसूत्रात् सिद्ध्यन्ति । तासाम् अवगमनार्थम् जिज्ञासुभिः परिभाषाग्रन्थाः एव द्रष्टव्याः ।
index: 1.1.72 sutra: येन विधिस्तदन्तस्य
येन विधिस्तदन्तस्य - यच्छब्दस्वरूपमुपादाय यो विधिरारभ्यते स तस्य तदन्तस्य च भवतीत्येतद्वक्तुमाह-येन विधिः । विधीयत इति विधिः ।उपसर्गे घोः कि॑रिति धाधातोर्भावे किप्रत्ययः । येनेति करणे तृतीया । शास्त्राकृद्विधाने कर्ता । धातोरित्यधिकृत्य #एरजिति इकारेण करणेन धातोरच्प्रत्ययं विधत्ते पाणिनिः । करणं च व्यापारवत् । एरजित्यत्र विशेषणस्य इकारस्य पाणिनिकर्तृकविधानक्रियायां करणस्य इतरव्यावर्तनमेव व्यापारः । ततश्च विशेषणमेवात्र येनेति तृतीयान्तेनोच्यते । स्वं रूपमित्यतः स्वमित्यनुवर्तते षष्ठन्ततया च विपरिणम्यते । एवं चविशेषणसमर्पकः शब्दस्तदन्तस्य स्वस्य च प्रत्यायक॑ इति फलति । तदाह — विशेषणमित्यादि । विशेषणसमर्पकः शब्दस्तदन्तस्य शब्दस्य, विशेषण समर्पकशब्दस्य च बोधकः स्यादिति यावत् । ततश्च एरजित्यत्र इकारान्ताद्धातोरच्प्रत्ययः स्यात्, इकाररूपाद्धातोश्चेति फलति । यथा-चयः, अयः । केचित्तु करणं कर्तृपरतन्त्रमिति तृतीयया पारतन्त्र्यं लक्ष्यते, तच्च शब्दानां विशेषणत्वेनेति विशेषणपरत्वं यच्छब्दस्य लभ्यत इत्याहुः । तत्तु शब्देन्दुशेखरे दूषितम् । समासेति । वार्तिकमेतत् । समासविधौ प्रत्ययविधौ च तदन्तविधेः प्रतिषेधो वाच्य इत्यर्थः । तेन कृष्णं परमश्रित इत्यत्रद्वितीया श्रिते॑ति समासो न भवति । सूत्रनडस्य गोत्रापत्यं सौत्रनाडिः ।अत इञ् । अनुशतिकादीनां चेत्युभयपदवृद्धिः । अत्र नडादिभ्यः फगिति फग्नभवति । नन्वेवं सति पचन्तमतिक्रान्ता अतिपचन्तीत्यत्रउगितश्चे॑ति उगिदन्तात्प्रातिपदिकाद्विहितो ङीप् न स्यात्, प्रत्ययविधौ तदन्तविधेः प्रतिषेधात् । तथा दाक्षिरित्यत्र अत इञिति इञ् न स्यात् । अस्यापत्यं इरित्यत्रैव इञ्स्यादित्यत आह — उगिदिति । इदमपि वार्तिकम् ।द्वितीयायां चे॑ति वर्जयतेर्णमुल् ।उगिद्ग्रहणं वर्णग्रहणं च वर्जयित्या समासप्रत्ययविधावित्युक्तः प्रतिषेधो भवती॑त्यर्थः । उगिद्वर्णग्रहणे तु येन विधिरिति तदन्तविधिरस्त्येव, ततश्च अतिपचन्तीत्यत्र उगिदन्तप्रातिपदिकान्तादुगितश्चेति ङीप्, दाक्षिरित्यत्र अवर्णान्तादिञ् च सिध्यति ।
index: 1.1.72 sutra: येन विधिस्तदन्तस्य
स्वरूपविधिपरिहारायायमारम्भः । इदमपि संज्ञासूत्रम् । येनेति करणे तृतीया । विधीयत इति विधिः, कर्मसाधनः किप्रत्ययः । विधिर्विधीयत इति । वधिशब्देन विधानयोग्यं वस्त्वभिधीयते, तस्य सांप्रतिकक्रियाविशेषद्योतनायाख्यातप्रयोगः । आसने आस्ते, करणेन करोतीतिवत् । तदन्तस्येसि बहुव्रीहिः । तदित्यनेन येनेति निर्दिष्टः शब्दो निर्दिश्यते, तदाह - आत्मान्तस्येति । अन्तशब्दस्यावयववाचित्वातदाक्षिप्तस्य समुदायस्येयंसंज्ञेत्याह - समुदायस्य संज्ञा भवतीति । अवश्यलाव्यमिति । मयूरव्यंसकादित्वात्समासः, 'लुम्पेदवश्यमः कृत्ये' इति मलोपः । अथेह कस्मादेजन्तस्य संज्ञा न भवति 'एचोऽयवायावः' इति, किं स्यात् ? अनेकाल्त्वादयादयः सर्वादेशाः स्युः; ततश्च चयनलवनादिष्वयनमिति प्राप्नोति, प्रकरणादिवशाच्चाक्षादिवदर्थविशेषावगतिः स्यात्, नैष दोषः; 'निर्दिश्यमानस्यादेशा भवन्ति' इत्येवं भविष्यन्ति । अथ वा-यथा एचा तदन्तविधिः, एवमयादिभिरपि भविष्यति । एवमपि'आद् गुणः' इत्यत्र आदित्यवर्णान्तो गृह्यते, अचीति चाजादेरिति खट्वेन्द्र इत्यादाववर्णान्तस्य समुदायस्याजादेश्च गुणप्रसङ्गः । षष्ठ।ल्निर्देशान्निर्दिश्यमानस्येत्यपि नास्ति । एवं तर्हि नैवंविधोऽस्य विषयः । येनेति करणे तृतीयेत्युक्तम्, करणं च परतन्त्रम्; कर्त्रधिष्ठितस्यैव करणत्वात् । न च 'एरच्' इत्यादाविकारादीनां पारतन्त्र्यम्, धात्वादीनां च स्वातन्त्र्यं स्वरूपतोऽवभासते । वा स्यादिति । वृक्षादीनामतो विवक्षानिबन्धनं तदुभयमिति । विशेषणत्वेन विवक्षितं परतन्त्रमप्रधानम्, विशेष्यत्वेन विवक्षितं स्वतन्त्रं प्रधानम् । तेन विशेषणं विषेष्यस्य तदन्तस्य संज्ञेत्युक्तं सम्भवति । विशेष्यसन्निधौ च विशेषणं भवति, सन्निधिश्च कुत्रचित्साक्षान्निर्देशेन, यथा-'ईदूदेद्द्विवचनम्' इति द्विवचनस्य । क्वचिदधिकारद्यथा-'एरच्' इति धातोः । क्वचिदाक्षेपाद्, यथा-'इको झल्' इति सना धातोः । 'एचोऽयवायावः' इत्यादौ न कथंचिद्विशेष्यसंनिधिरिति नैतत्प्रवर्तते । यदि विशेषणं तदन्तस्य संज्ञा, ततः 'उदोष्ठ।ल्पूर्वस्य' इत्यत्र ऋकारस्तदन्तस्य धातोः संज्ञेति ओष्ठ।ल्पूर्वग्रहणं धातोरेव विशेषणं स्याद्, न ञकारस्य; संज्ञायाः संज्ञिप्रत्ययनार्थत्वात् । ततश्चेह स्यात्-सङ्कीर्णमिति; पूर्तमित्यादौ च न स्यात् । एवम् 'उतश्च प्रत्ययादसंयोगपूर्वाद् ' इत्यत्रासंयोगपूर्वग्रहणमङ्गस्य विशेषणं स्यात्, नोतः, नैष दोषः; इयं हि संज्ञा गुणप्रधानभावापेक्षा ततश्च 'उतश्च प्रत्ययाद्' इत्यादौ विशेषणसम्बन्धवेलायां गुणभावास्फुरणातमनुभूय पश्चात् विशेष्येण सम्बन्धे संज्ञा भवति । समासेति । अनेनैतदाह-श्रितादयो पश्चात् विशेष्यास्तद्विशेषणं च सुप् । एवं ङडादिभ्यः फक्' इत्यादौ नडादिविशेष्यं प्रातिपदिकं विशेषणमिति । कष्ट्ंअ परमश्रित इति । श्रितान्तमेतत्सुबन्तं न भवतीति सम्बुद्ध्यन्तं पठितव्यम्, तद्धिप्रत्ययलक्षणेन सुबन्तं भवति श्रितान्तं च श्रूयते । नेत्याहेति । कः पुनराह ? उतरवादी, आचार्यो वा । उगिद्वर्णेति । उगिता वर्णेन च प्रातिपदिकं विशेष्यमित्यर्थः । यस्मिन्विधिरिति तदन्तविध्यपवादस्तदादिविधिः, अतो विशेषणेनैव भवति ॥