आदिरन्त्येन सहेता
1-1-71 आदिः अन्त्येन सहेता स्वं रूपं
Sampurna sutra
Up
अन्त्येन इता सह आदिः स्वस्य रूपस्य
Neelesh Sanskrit Brief
Up
अन्तिम-इत्-वर्णेन सह गृहीतः आदिवर्णः तयोः मध्ये विद्यमानानाम् वर्णानाम् , स्वस्य च निर्देशं करोति ।
Neelesh English Brief
Up
A beginning letter, when combined with an ending इत् letter, stands for itself and for all the letters in between.
Kashika
Up
आदिरन्त्येनेत्संज्ञकेन सह गृह्यमाणस्तन्मध्यपतितानां वर्णानां ग्राहको भवति, स्वस्य च रूपस्य। अण्। अक्। अच्। हल्। सुप्। तिङ्। अन्त्येनेति किम्? सुडिति तृतीयैकवचनेन टा इत्यनेन ग्रहणं मा भूत्॥
Siddhanta Kaumudi
Up
अन्त्येनेता सहित आदिर्मध्यगानां स्वस्य च संज्ञा स्यात् ॥ इति हल्संज्ञायाम् ॥ उपदेशेऽन्त्यं हलित्स्यात् ॥ उपदेश आद्योच्चारणम् ॥ ततः अण् अच् इत्यादिसंज्ञासिद्धौ ॥
Laghu Siddhanta Kaumudi
Up
अन्त्येनेता सहित आदिर्मध्यगानां स्वस्य च संज्ञा स्यात् । यथाऽणिति अ इ उ वर्णानां संज्ञा। एवमच् हल् अलित्यादयः॥
Neelesh Sanskrit Detailed
Up
व्याकरणशास्त्रे प्रयुक्तासु संज्ञासु मुख्याः सन्ति अच्/अण्/अक्-आदयः आहत्य चतुश्चत्वारिंशत् (44) संज्ञाः । एतासाम् सर्वानाम् एकत्ररूपेण निर्देशः 'प्रत्याहारः' इति शब्देन क्रियते । एतासाम् सर्वासाम् संज्ञानाम् निर्माणार्थम् प्रकृतसूत्रम् पाठितम् अस्ति । शिवसूत्रेषु विद्यमानः वर्णः यदा तस्मात् अनन्तरम् विद्यमानेन इत्संज्ञकवर्णेन सह एकत्ररूपेण उच्चार्यते, तदा तादृशेन उच्चारणेन तयोः द्वयोः वर्णयोः मध्ये विद्यमानानाम् सर्वेषाम् वर्णानाम्, तथा च तस्य स्वस्य अपि वर्णस्य ग्रहणं भवति — इति अस्य सूत्रस्य आशयः । यथा, शिवसूत्रे विद्यमानः 'ह्' इति वर्णः यदा 'जबगडदश्' इत्यत्र विद्यमानेन इत्संज्ञक-शकारेण सह एकत्ररूपेण ('हश्' इति रीत्या) उच्चार्यते, तदा 'हश्' इत्यनेन हकारात् आरभ्य शकारपर्यन्तम् विद्यमानानाम् सर्वेषाम् अपि वर्णानाम् (ह्, य्, व्, र्, ल्, ञ्, म्, ङ्, ण्, न्, झ्, भ्, घ्, ढ्, ध्, ज्, ब्, ग्, ड्, द् — इत्येतेषाम्) ग्रहणम् भवति । एतादृशम् अत्र 'हश्' इति संज्ञा, एते सर्वे वर्णाः च संज्ञिनः — इति व्यवहारः भवति । एवमेव, शिवसूत्रेषु विद्यमानः 'र्' इति वर्णः यदा 'लँण्' इत्यत्र विद्यमानेन इत्संज्ञक-अकारेण सह एकत्ररूपेण ('र') इति उच्चार्यते, तदा तेन रेफस्य तथा च लकारस्य - द्वयोः अपि ग्रहणं भवति । एतादृशानाम् एव 'हश्', 'र' आदीनाम् निर्देशः 'प्रत्याहाराः' इति शब्देन भवति । अनेन प्रकारेण अष्टाध्याय्याम् आहत्य चतुश्चत्वारिंशत् प्रत्याहाराः प्रयुक्ताः दृश्यन्ते ।
अष्टाध्याय्याम् पाणिनिना कुत्रापि 'प्रत्याहारः' इति शब्दः नैव उपयुक्तः अस्ति । 'प्रत्याहारः' इति व्याकरणशास्त्रस्य विशिष्टा संज्ञा नास्ति । प्रकृतसूत्रेण 'प्रत्याहार' इति संज्ञा नैव दीयते, अपितु 'अच्', 'अण्', 'अक्' एतादृशाः चतुश्चत्वारिंशत् संज्ञाः दीयन्ते । एते सर्वे शब्दाः एव व्याख्यानेषु 'प्रत्याहाराः' शब्देन निर्दिष्टाः सन्ति । एतेषाम् सोदाहरणम् आवली प्रत्याहारावली अस्मिन् विभागे द्रष्टुं शक्यते ।
आदिः, अन्त्यः, मध्यगः, स्वः
अस्मिन् सूत्रे 'आदिः' तथा 'अन्त्यः' इति शब्दौ साक्षात् प्रयुक्तौ स्तः । <<स्वं रूपं शब्दस्याशब्दसंज्ञा>>
1.1.68 इत्यस्मात् सूत्रात् 'स्व' इति शब्दः अपि अनुवर्तते, स च षष्ठ्या विपरिणम्यते । काशिकायाम् ,कौमुद्यां च 'मध्य' इति शब्दः अपि अस्मिन् सन्दर्भे प्रयुक्तः अस्ति । एतेषाम् सर्वेषाम् अर्थाः एतादृशाः —
1) आदिः — यस्मात् पूर्वम् किमपि नास्ति, परन्तु यस्मात् परम् (अनन्तरम्) अन्ये वर्णाः भवन्ति, सः आदिवर्णः ।
2) अन्त्यः — अन्ते भवः अन्त्यः । यस्मात् अनन्तरम् किमपि नास्ति, परन्तु यस्मात् पूर्वम् अन्ये वर्णाः भवन्ति, सः अन्त्यवर्णः ।
3) मध्यगः — मध्ये गच्छति सः मध्यगः । आदिवर्णः तथा अन्त्यवर्णः एतयोर्मध्ये विद्यमानाः वर्णाः मध्यगाः इति नाम्ना निर्दिश्यन्ते । यद्यपि अयं शब्दः सूत्रे कुत्रापि स्पष्टरूपेण न दीयते, तथापि <<तन्मध्यपतितस्तद्ग्रहणेन गृह्यते>> (परिभाषा-90) अनया परिभाषया आदि-अन्त्य-वर्णयोः एकत्ररूपेण ग्रहणं क्रियते चेत् मध्यगानाम् अपि ग्रहणं भवति ।
4) स्वः — आदिवर्णः स्वयं मध्यगेषु न अन्तर्भवत, परन्तु आदिवर्णस्य अपि प्रत्याहारे ग्रहणम् इष्यते; अतः 'स्व' इति शब्दस्य अस्मिन् सूत्रे अनुवृत्तिः कृता अस्ति । अस्य स्वशब्दस्य अन्वयः आदिवर्णेन सह भवति, न हि अन्त्यवर्णेन सह, यतः 'अन्त्येन सह आदिः' इति प्रयोगे 'आदिः' इति प्रधानकर्ता अस्ति इति <<सह युक्तेऽप्रधाने>> 2.3.19 अनेन सूत्रेण स्पष्टी भवति ।
प्रत्याहारग्रहणे यद्यपि आदिवर्णस्य ग्रहणं भवति, तथापि अन्तिम-इत् वर्णस्य, एवमेव मध्ये विद्यमानानाम् इत्-वर्णानाम् ग्रहणं न क्रियते । यदि तादृशम् ग्रहणम् अभविष्यत्, तर्हि 'अच्' इति प्रत्याहारेण 'ऋऌक्' इत्यस्य ककारस्य अपि ग्रहणम् अभविष्यत्, येन, 'अच्' प्रत्याहारेण ककारस्यापि निर्देशे जाते, 'इ + क्' इत्यत्र उत 'उ + क्' इत्यत्र अपि <<इको यणचि>> 6.1.77 इत्यनेन अनिष्टः यणादेशः अभविष्यत् । परन्तु एतादृशः यणादेशः न कुत्रचित् कृतः दृश्यते । यथा, 'अनुनासिक' , 'शिक्षा', 'मुक्ति' — एतादृशेषु शब्देषु संहितायाम् सत्याम् अपि इकार-उकारयोः ककारे परे यणादेशः न भवति । एते शब्दाः एव अस्य प्रमाणम् सन्ति, यत् प्रत्याहारेषु इत्-वर्णानाम् ग्रहणम् न भवति ।
प्रत्ययैः प्रत्याहारनिर्माणार्थम् अस्य सूत्रस्य प्रयोगः
अष्टाध्याय्याम् तृतीयाध्याये, चतुर्थाध्याये, पञ्चमाध्याये च बहवः प्रत्ययाः आवलीरूपेण दत्ताः सन्ति । एतेषाम् विषये अपि आदिवर्णस्य अन्तिम-इत्-वर्णेन सह ग्रहणं कृत्वा प्रत्याहारनिर्माणं भवति । एतादृशाः आहत्य सप्त प्रत्याहाराः अष्टाध्याय्याम् प्रयुक्ताः दृश्यन्ते —
1. सुप् — <<स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्>> 4.1.2 इति सूत्रे विद्यमानः प्रथमः 'सु' इति प्रत्ययः अस्यैव सूत्रस्य अन्तिम-इत्संज्ञकेन पकारेण सह उपयुज्य 'सुप्' इति प्रत्याहारः सिद्ध्यति । अस्मिन् प्रत्याहारे आहत्य 21 प्रत्ययाः विद्यन्ते ।
2. सुट् — <<स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्>> 4.1.2 इति सूत्रे विद्यमानः प्रथमः 'सु' इति प्रत्ययः अस्मिन्नेव सूत्रे विद्यमानेन औट्-प्रत्ययस्य इत्संज्ञक-टकारेण सह उपयुज्य 'सुट्' इति प्रत्याहारः सिद्ध्यति । अस्मिन् प्रत्याहारे आहत्य 5 प्रत्ययाः विद्यन्ते ।
3. आप् — <<स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्>> 4.1.2 इति सूत्रे विद्यमानस्य 'टा' इति प्रत्ययस्य अकारः अस्यैव सूत्रस्य अन्तिम-इत्संज्ञकेन पकारेण सह उपयुज्य 'टाप्' इति प्रत्याहारः सिद्ध्यति । अस्मिन् प्रत्याहारे आहत्य 15 प्रत्ययाः विद्यन्ते ।
4. तिङ् — <<तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्>> 3.4.78 इति सूत्रे विद्यमानः प्रथमः 'ति' इति प्रत्ययः अस्यैव सूत्रस्य अन्तिम-इत्संज्ञकेन ङकारेण सह उपयुज्य 'तिङ्' इति प्रत्याहारः सिद्ध्यति । अस्मिन् प्रत्याहारे आहत्य 18 प्रत्ययाः विद्यन्ते ।
5. तङ् — <<तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्>> 3.4.78 इति सूत्रे विद्यमानः 'त' इति प्रत्ययः अस्यैव सूत्रस्य अन्तिम-इत्संज्ञकेन ङकारेण सह उपयुज्य 'तङ्' इति प्रत्याहारः सिद्ध्यति । अस्मिन् प्रत्याहारे आहत्य 9 प्रत्ययाः विद्यन्ते ।
6. तृन् — <<लटः शतृशानचावप्रथमासमानाधिकरणे>> 3.2.124 अस्य सूत्रस्य 'तृ' इति अक्षरम् <<तृन्>> 3.2.135 इति प्रत्ययस्य नकारेण सह उपयुज्य 'तृन्' इति प्रत्याहारः सिद्ध्यति । अस्मिन् प्रत्याहारे आहत्य 5 प्रत्ययाः विद्यन्ते ।
7. सङ् — <<गुप्तिज्किद्भ्यः सन्>> 3.1.5 अस्य सूत्रस्य 'सन्' प्रत्ययस्य 'स' इति अक्षरम् <<तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्>> 3.4.78 अस्य सूत्रस्य अन्तिम-ङकारेण सह उपयुज्य 'सङ्' इति प्रत्याहारः भवति । अस्मिन् प्रत्याहारे धातुभ्यः विहिताः सर्वेऽपि प्रत्ययाः (200+) समाविश्यन्ते ।
धातूनाम् प्रत्याहारनिर्माणार्थम् अस्य सूत्रस्य प्रयोगः
<<अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः>>
5.4.50 अस्मिन् सूत्रे विद्यमानः 'कृ' इति धातुः <<कृञो द्वितीयतृतीयशम्बबीजात् कृषौ>>
5.4.58 इत्यत्र विद्यमानेन ञकारेण सह उपयुज्य 'कृञ्' इति प्रत्याहारः सिद्ध्यति । अनेन प्रत्याहारेण 'कृ, भू, अस्' इति त्रयाणां धातूनां ग्रहणं भवति । अनेन प्रकारेण अस्य सूत्रस्य प्रयोगः धातूनाम् प्रत्याहारनिर्माणार्थम् अपि भवति ।
Balamanorama
Up
Padamanjari
Up
इदमपि संज्ञासूत्रम्, आद्यन्तयोर्मध्यापेक्षत्वान्मध्यवर्तिनां संज्ञित्वं विज्ञायते, श्वं रूपम्' इत्यनुवृतेः स्वरूपस्य चेत्याह-मध्यवर्तिनामिति । यद्यप्याद्यन्ताववयवा अवयविनः समुदायरूपस्य सम्बन्धिनौ तथापि तस्य युगपल्लक्ष्ये प्रयोगाभावात्समुदायिनां संज्ञेति दर्शयति-वर्णानामिति । स्वस्य च रूपस्येति । स्वरूपमादेरेव गृह्यन्ते, नान्त्यस्य; अप्राधान्यादिति दध्यत्रेति केवल एव यकारः प्रवर्तते, न णकारेण सहितः । सहग्रहणादाद्यन्तौ समुदितौ संज्ञेति समुदायादेव विभक्तिर्भवति 'इको यण्' इति, नादिमात्रात् । टा इत्यनेन ग्रहणं मा भूदिति । तावतोऽवधेरविवक्षितत्वान्नायमन्त्यः 'टाङसिङसामिनात्स्यः' 'द्वितीयाटौस्वेनः' इति तृतीयैकवचनस्यासौ विशेषणार्थः ॥