धात्वादेः षः सः

6-1-64 धात्वादेः षः सः उपदेशे

Sampurna sutra

Up

उपदेशे धात्वादेः षः सः

Neelesh Sanskrit Brief

Up

धातोः औपदेशिकस्वरूपे आदिस्थस्य षकारस्य सकारादेशः भवति ।

Neelesh English Brief

Up

A षकार present at the beginning of औपदेशिक form of a धातु is converted to सकार.

Kashika

Up

धातोरादेः षकारस्य स्थाने सकारादेशो भवति। षह — सहते। षिच — सिञ्चति। धातुग्रहणं किम् ? षोडश। षोडन्। षण्डः। षडिकः। आदेरिति किम् ? कषति। लषति। कृषति। <<आदेशप्रत्यययोः>>८.३.५९ इत्यत्र षत्वव्यवस्थार्थं षादयो धातवः केचिदुपदिष्टाः। के पुनस्ते ? ये तथा पठ्यन्ते। अथवा लक्षणं क्रियते — अज्दन्त्यपराः सादयः षोपदेशाः स्मिस्विदिस्वदिस्वञ्जिस्वपितयश्च । सृपिसृजिस्तृस्त्यासेक्सृवर्जम्॥ सुब्धातुष्ठिवुष्वष्कतीनां प्रतिषेधो वक्तव्यः॥ षोडीयति। षण्डीयति। ष्ठीवति। ष्वष्कते। ष्ठिवु इत्यस्य द्वितीयस्थकारष्ठकारश्चेष्यते। तेन तेष्ठीव्यते टेष्ठीव्यत इति चाभ्यासरूपं द्विधा भवति॥

Siddhanta Kaumudi

Up

धातोरादेः षस्य सः स्यात् । सात्पदाद्योः <{SK2123}> इति षत्वनिषेधः । अनुस्वदते । सस्वदे । स्वर्दते । सस्वर्दे ।{$ {!20 उर्द!} माने क्रीडायां च$} ॥

Laghu Siddhanta Kaumudi

Up

स्नुक्, स्नुग्, स्नुट्, स्नुड्। एवं स्निक्, स्निग्, स्निट्, स्निड्॥ विश्ववाट्, विश्ववाड्। विश्ववाहौ। विश्ववाहः। विश्ववाहम्। विश्ववाहौ॥

Neelesh Sanskrit Detailed

Up

धातुपाठे पाठितेभ्यः ~ 2000 धातुभ्यः प्रायेण 90 धातूनाम् औपदेशिस्वरूपे प्रथमवर्णः षकारः विद्यते । एते सर्वे धातवः षोपदेशाः धातवः नाम्ना ज्ञायन्ते । एतेषाम् सर्वेषाम् षकारस्य प्रक्रियायाः प्रारम्भे (इत्संज्ञालोपात् अनन्तरम्) सकारादेशः भवति इति अस्य सूत्रस्य आशयः । कानिचन उदाहरणानि एतानि — 1. ष्वदँ (आस्वादने, भ्वादिः <{1.18}>) → स्वद् । 2. ञिष्वपँ (शये, अदादिः, <{2.63}>) → स्वप् । अत्र 'ञि' इत्यस्य इत्संज्ञां कृत्वा, ततः लोपं कृत्वा प्रकृतसूत्रेण षकारस्य सकारादेशः भवति । 3. षहँ (चक्यर्थे, दिवादिः, <{4.23}> → सह् । 4. षुञ् (अभिषवे, स्वादिः, <{5.1}> → सु । 5. षिचँ (क्षरणे, तुदादिः, <{6.170}> → सिच् । एतादृशं षकारस्य सकारादेशे कृते धातौ द्वौ अन्यौ परिवर्तनौ अपि भवतः — 1. धातौ आदिस्थात् षकारात् परः अव्यवहितरूपेण उत स्वरस्य व्यवधानेन णकारः अस्ति चेत् तस्य नकारादेशः भवति । यथा — 1. षणँ (सम्भक्तौ, भ्वादिः, <{1.535}>) → सन् । 2. ष्णा (शौचे, अदादिः, <{2.47}>) → स्ना 3. ष्णिहँ (प्रीतौ, दिवादिः, <{4.97}>) → स्निह् । 4. षणुँ (दाने, तनादिः, <{8.2}>) → सन् । एतेषु सर्वेषु अपि धातुषु मूलरूपेण नकारः एव विद्यते, परन्तु षकारस्य उपस्थितौ <<रषाभ्यां नो णः समानपदे>> 8.4.1 अथ वा <<अट्कुप्वाङ्नुम्व्यवायेऽपि>> 8.4.2 इत्यनेन णत्वे कृते तस्य णकारादेशः कृतः वर्तते । अतः यदा षकारस्य निवृत्तिं कृत्वा तस्य स्थाने सकारः विधीयते तदा <<निमित्तापाये नैमित्तिकस्याप्यपायः>> इति परिभाषाम् अनुसृत्य णत्वस्य अपि निवृत्तिः भवति, अतश्च णकारस्य स्थाने नकारः आदेशरूपेण विधीयते ।
येषु धातुषु नकारस्य अग्रे अनुस्वार-परसवर्णः सम्भवति, तेषु धातुषु औपदेशिकस्वरूपे एतादृशं णत्वं न कृतं दृश्यते, यतः तत्र णत्वम् अनुनासिकादेशं प्रति असिद्धम् अस्ति । यथा षन्जँ (सङ्गे, <{1.1142}>) अस्मिन् धातौ विद्यमानस्य नकारस्य औपदेशिक-अवस्थायाम् णत्वं नैव कृतम् अस्ति यतः अयं नकारः णत्वात् पूर्वमेव अनुस्वारादेशं प्राप्य षंज् इत्येतं रूपं प्राप्नोति, तत्र च णत्वस्य नैव प्रसक्तिः विद्यते । इत्युक्ते, षन्जँ इत्यत्र षकारस्य सामर्थ्यात् अपि णत्वं न सम्भवति अतः अत्र नकारेण एव उपदेशः क्रियते । 2. धातौ आदिस्थात् षकारात् परः अव्यवहितरूपेण टकारः ठकारः वा विद्यते चेत् तस्य यथासंख्यम् तकारः थकारः च भवति । एतादृशाः प्रायेण 25 धातवः धातुपाठे विद्यन्ते । कानिचन उदाहरणानि एतानि — 1. ष्टगेँ (संवरणे, भ्वादिः, <{1.909}>) → स्तग् ।
2 ष्टिघँ (आस्कन्दने, स्वादिः, <{5.21}>) → स्तिघ् । 3. ष्ठा (गतिनिवृत्तौ, भ्वादिः, <{1.1077}>) → स्था । 4. ष्ठल् (स्थाने, भ्वादिः, <{1.970}>) → स्थल् ।
एतेषु सर्वेषु अपि धातुषु मूलरूपेण तकारः / थकारः एव विद्यते, परन्तु षकारस्य उपस्थितौ <<ष्टुना ष्टुः>> 8.4.41 इत्यनेन ष्टुत्वे कृते तस्य टकारादेशः / ठकारादेशः कृतः वर्तते । अतः यदा षकारस्य निवृत्तिं कृत्वा तस्य स्थाने सकारः विधीयते तदा <<निमित्तापाये नैमित्तिकस्याप्यपायः>> इत्यनया परिभाषया ष्टुत्वस्य अपि निवृत्तिः भवति, अतश्च टकारस्य ठकारस्य वा स्थाने अन्तरतमः तवर्गीयवर्णः आदेशरूपेण विधीयते । 1. धातुपाठे षकारात् परः अव्यवहितरूपेण डकारः ढकारः वा नैव कुत्रचित् दृश्यते । अतः तेषाम् उदाहरणानि अत्र न दीयन्ते । 2. षकारात् परः अव्यवहितरूपेण णकारः यत्र विद्यते तत्र सः णकारः णत्वकार्येण सिद्धः स्वीक्रियते, न हि ष्टुत्वेन —‌ यतः णत्वं प्रति ष्टुत्वम् असिद्धम् अस्ति । अतः तत्र णत्वनिवृत्तिं कृत्वा एव णकारस्य स्थाने नकारः भवति । वार्त्तिकम् — <!सुब्धातु-ष्ठिवु-ष्वष्कतीनां सत्वप्रतिषेधो वक्तव्यः!> प्रातिपदिकेभ्यः सनादिप्रत्ययानां योजनेन ये धातवः सिद्ध्यन्ति तेषां विषये, ष्ठिवुँ (निरसने, <{1.641}>, <{4.4}>) इत्यस्य धातिः विषये, तथा च ष्वष्क् (गतौ, <{1.105}>) धातोः विषये प्रकृतसूत्रं नैव प्रवर्तते — इति अस्य वार्त्तिकस्य आशयः । यथा — 1. षण्मुखः इव आचरति अस्मिन् अर्थे <<कर्तुः क्यङ् सलोपश्च>> 3.1.11 इत्यनेन षण्मुख-शब्दात् क्यङ्-प्रत्यये कृते षण्मुखाय इति धातुः सिद्ध्यति । अयम् नामधातुः (सुब्धातुः) अस्ति अतः अस्य आदौ विद्यमानस्य षकारस्य सकारादेशः न भवति । अतएव अस्य लट्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् षण्मुखायते इत्येव षकारघटितं सिद्ध्यति । 2. ष्ठिवुँ (निरसने, <{1.641}>, <{4.4}>) अयं धातुः भ्वादिगणे, दिवादिगणे च विद्यते । अस्मिन् धातौ विद्यमानस्य आदिस्थस्य षकारस्य प्रकृतसूत्रेण सकारादेशः न भवति । यथा — ष्ठीवति, ष्ठीवतु, अष्ठीवत् आदयः । अत्र षत्वनिवृत्तिः न भवति अतः अत्र ष्टुत्वनिवृत्तिः अपि नैव जायते । 3. ष्वष्क् (गतौ, <{1.105}>) इत्यस्मिन् धातौ विद्यमानस्य षकारस्य अपि प्रकृतसूत्रेण षत्वं न भवति । अतः अस्य रूपाणि ष्वष्कते / अष्वष्कत / ष्वष्कताम् एतादृशानि भवन्ति । धातोः षोपदेशस्य प्रयोजनम् धातुपाठे विद्यमानाः सर्वे अपि सकारादयः धातवः मूलरूपेण षोपदेशाः न सन्ति । केवलम् केषाञ्चन धातूनां विषये एव औपदेशिकस्वरूपे षःकारः श्रूयते । एतेषु सर्वेषु धातुषु स्थापितस्य षकारस्य प्रयोजनम् षत्वप्रकरणे दृश्यते । तदित्थम् — षोपदेशधातुषु जायमानः सकारः आदेशरूपेण सिद्ध्यति, अतः एतादृशः सकारः यदा इण्-वर्णात् परः विद्यते तदा तस्य <<आदेशप्रत्यययोः>> 8.3.59 इति सूत्रेण षत्वं सम्भवति । एकम् उदाहरणम् एतादृशम् — षिवुँ (तन्तुसन्ताने, दिवादिः, <{4.2}>) → षिव् [<<उपदेशेऽजनुनासिक इत्>> 1.3.2, <<तस्य लोपः>> 1.3.9 ] → सिव् [<<धात्वादेः षः सः>> 6.1.64 इति षत्वम्] → सिव् + लिट् [<<लिट् च>> 3.4.115 इति लिट्] → सिव् + तिप् [<<तिप्तस्झि..>> 3.4.78 इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः] → सिव् + णल् [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> 3.4.82 इति णल्-आदेशः] → सिव् + अ [णकारलकारयोः इत्संज्ञा, लोपः] → सिव् सिव् + अ [<<लिटि धातोरनभ्यासस्य>> 6.1.8 इति द्वित्वम् । <<द्विर्वचनेऽचि>> 1.1.59 इत्यनेन अजादेशात् पूर्वम् द्वित्वं भवति ।] → सिव् सेव् + अ [द्वित्वे कृते <<पुगन्तलघूपधस्य च>> 7.3.86 इति लघूपधगुणः प्रवर्तते ।] → सि सेव् + अ [<<हलादिः शेषः>> 7.4.60 इति अभ्यासस्य हलादिः अंशः अवशिष्यते ।] → सिषेव [<<आदेशप्रत्यययोः>> 8.3.59 इति षत्वम् । अत्र सेव्-इत्यस्य सकारः षकारात् आदेशरूपेण सिद्ध्यति, अतः <<आदेशप्रत्यययोः>> 8.3.59 इत्यनेन तस्य षत्वं सम्भवति ।] ये धातवः षोपदेशाः न सन्ति, तेषां विषये एतादृशं षत्वं न प्रवर्तते । यथा, स्रिवुँ (गतिशोषणयोः, दिवादिः, <{4.3}>) अस्य धातोः लिट्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् सिस्रेव इति भवति । अत्र धातौ विद्यमानः सकारः आदेशनिर्मितः नास्ति, अतः <<आदेशप्रत्यययोः>> 8.3.59 इत्यनेन तस्य षत्वम् अपि न विधीयते ।

Balamanorama

Up

<<धात्वादेः षः सः>> - दात्वादेः । 'ष' इति षष्ठन्तं । तदाह — धातोरादेः षस्य सः स्यादिति । षकारस्य सः स्यादित्यर्थ- । धातुग्रहणं किम् । षट् । अत्र धात्वादित्वाऽभावान्न सकारः । आदिग्रहणं किम् । लषति । न चैवमपि षकारीत्यतीत्यादौ सुब्धात्वादेरपि षस्य सकारः स्यादिति वाच्यम्,आदेच उपदेशेऽशिती॑त्यत उपदेश इत्यनुवृत्तेः । एवं च षडित्यादावप्युदेशग्रहणानुवृत्त्यैव व्यावृत्तिसिद्धेर्धातुग्रहणं भाष्ये प्रत्याख्यातम् । ननु धातुपाठे स्वद स्वर्देत्येवं सकार एव उपदिश्यताम् । एवं च 'धात्वादेः षः सः' इत्यपि मास्त्विति चेन्मैवं, ण्यन्ताल्लुङि असिष्वददित्यत्र षकारश्रवणार्थकत्वात् । धातुपाठे सकारस्यैवोपदेशे तु असिष्वददित्यत्र सकारस्य आदेशसकारत्वाऽभावेन षत्वाऽसंभवात् । नन्वेवं सति अनुस्वदत इत्यत्रादेशसकारत्वात्त्वापत्तिरित्यत आह — सात्पदाद्योरिति । सस्वद इति । लिटि द्वित्वे संयुक्तहल्मध्यस्थत्वादेत्वाभ्यासलोपौ नेति भावः । उर्देति । चकारादास्वादनेऽपीति केचित् ।

Padamanjari

Up

सिञ्चतीति।'से मुचादीनाम्' इति नुम्। षोडन्निति। षड् दन्ता यस्येति बहुव्रीहौ'वयसि दन्तस्य दतृ' 'ष, उत्वं दतृदशधासु' इति षष उत्वमुतरपदादेष्टुअत्वं च, ठुगिदचाम्ऽ इति नुम्, हल्ङ्यादिसयोगाचन्तलोगौ। क्वचितु षोड इति पठ।ल्ते, ततु ,षोडन्तमाचष्ट इति णिचि कृते टिलोपे पचाद्यचि रूपम्। षटशब्दोऽवल्युत्पन्नं प्रातिपदिकम्। अनुकम्पितः षडङ्गुलिः षडिकः,'बह्वचो मनुष्यनाम्नष्ठज्वा' ,'ठाजादावूर्ध्वम्' इत्यङ्गलिशब्दस्य लोपः। लषतीति। षकारोपदेशस्तु प्रनिलषतीत्यादौ'शेषे विभाषा' खकादावषान्त उपदेशेऽ इति नेर्णत्वप्रतिषेधार्थं स्यात्, लेषतुः लेषुरित्यत्र ठादेशप्रत्यययोःऽ इति षत्वार्थम्। क्वचितु कषतीत्यपि पठ।ल्ते; तदयुक्तम्; षकारोपदेशसामर्थ्यादेवात्र न भविष्यति; प्रनिकषतीत्यत्रापि कखादावित्येव णत्वप्रतिषेधः सिद्धः; आदेशादित्वाभ}यासलोपौ च न स्तः - चकषतुः, चकषुः। किमर्थं पुनः षादयो धातव उपदिष्टा;, न सादय एवोपदिश्येरन्, एवं ह्यएतत्सूत्रं न कर्तव्यं भवति? तत्राह -आदोशप्रत्यययोरित्यादि। व्यवस्थानियमः - आदेशप्रत्यययोरिति सहादीनामेव षत्वं यथा स्यात्, सृपिसृजीप्रभृतीनां मा भूदित्येवमर्थं षादयः केचिदुपदिष्टाः; अन्यथा सहादीनां षत्वार्थं यत्नान्तरमास्थेयम्, तच्च गुरु भवतीति भावः। के पुनस्त इति। पाठे भ्रंशसम्भवात्प्रशनः। ये तथा पठ।ल्न्त इति। अप्रमादेन पठितव्यमित्यर्थः। अथ वा लक्षणं क्रियत इति। मन्दधियोऽनुग्रहीतुमिति भावः। अज्दन्त्यपराः सादय इति। अज्दन्त्यौ परौ येषां तेऽज्दन्त्यपराः, परशब्दोऽवयववाची। तच्चाज्दन्त्ययोः परत्वमवयवान्तरापेक्षं विज्ञायमानं सन्निधानात्सकारापेक्षं विज्ञायते। स्मिङ्स्विदिति।'ष्मिङीषद्धसने' ,'ञिष्विदा गात्रप्रक्षरणे' 'ष्वन्ज सङ्गे' ,'विष्वप् शये' -एते स्वरूपेणैव पठ।ल्न्ते। वकारमकारयोरनज्दन्त्यत्वाद्वकारोऽपि केवलदन्तस्थानो न भवति।'स्वद आस्वादने' इति। स्वदिमपि केचित्पठन्ति। सृपिसृजीत्यादि।'सृप्रृ गतौ' ,'सृज विसर्गे' 'स्तृञ् आच्छादने' ,'सत्यै ष्ट।ल्è शब्दसङ्घातयोः' ,'सेकतिर्गत्यर्थः' ,'सृ गतौ' - एतान्वर्जयित्वा येऽन्येऽज्दन्त्यपरास्ते षोपदेशाः। सुब्दात्वित्यादि। सुब्धातुः क्यजाद्यन्तः,'ष्टिवु निरसने' ,'ष्वष्कतिर्गत्यर्थः' अनुदातेत् -एषां सत्वस्य प्रतिषेधो वक्तव्यः। तत्र सुब्दातूनां तावन्न वक्तव्यः, उपदेश इति वर्तते, न च सुब्धातवः क्वचिदुपदिश्यन्ते, एवं च कृत्वा धातुग्रहणं शक्यमकर्तुम्। उपदेशाभावादेव षोडादेर्न भविष्यति, तत् क्रियते धातोरित्यस्य निवृत्तिं सूचयितुम्। तेन'लोपो व्योर्वलि' इति अविशेषेण भवति, ष्ठीवतिष्वष्कती द्विषकारकौ, तत्र पूर्वस्यास्तु सत्वम्, परेण सन्निपातेन षत्वं भविष्यतीति। यद्येवम्, लिट् ष्वष्कते, षत्वस्यासिद्धत्वाद्'डः सि धुट्' इति धुट् प्रसज्येत ? एवं तर्हि यकारादी ष्ठिवुष्वष्कती, यकारस्तु'लोपो व्योर्वलि' इति लुप्यते। ष्ठीवतीति।'ष्ठिवुक्लमुचमां शिति' इति दीर्घत्वम्। अथास्य द्वितीयो वर्णो यदि ठकारः, तेष्ठीयत इति न सिध्यति; अथ थाकरः, टेष्ठीयत इति न सिद्ध्यति; उभयं चेष्यते, तत्राह -ष्ठीवत इत्यस्येत्यादि। उभयथा ह्याचार्येण शिष्याः पाठिता इति भावः ॥