2-1-24 द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः
सुप् सुपेति वर्तते, तस्य विशेषणमेतद् द्वितीया श्रितादयश्च। द्वितीयान्तं सुबन्तं श्रितादिभिः सह समस्यते, तत्पुरुषश्च समासो भवति। कष्टं श्रितः, कष्टश्रितः। नरकश्रितः। अतीत — कान्तारमतीतः, कान्तारातीतः। पतित — नरकं पतितः, नरकपतितः। गत — ग्रामं गतः, ग्रामगतः। अत्यस्त — तरङ्गानत्यस्त, तरङ्गात्यस्तः। तुहिनात्यस्तः। प्राप्त — सुखं प्राप्तः, सुखप्राप्तः। आपन्न — सुखमापन्नः, सुखापन्नः। दुःखापन्नः॥ श्रितादिषु गमिगाम्यादीनामुपसंख्यानम्॥ ग्रामं गमी, ग्रामगमी। ग्रामं गामी, ग्रामगामी। ओदनं बुभुक्षुः, ओदनबुभुक्षुः॥
द्वितीयान्तं श्रितादिप्रकृतिकैः सुबन्तैः सह वा समस्यते स तत्पुरुषः । कृष्णं श्रितः कृष्णश्रितः । दुःखमतीतो दुःखातीत ।<!गम्यादीनामुपसंख्यानम् !> (वार्तिकम्) ॥ ग्रामं गमी ग्रामगमी । अन्नं बुभुक्षुः अन्नबुभुक्षुः ॥
द्वितीयान्तं श्रितादिप्रकृतिकैः सुबन्तैः सह वा समस्यते स च तत्पुरुषः। कृष्णं श्रितः कृष्णश्रित इत्यादि॥
<<द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः>> - द्वितीया श्रिता । द्वितीयान्तमिति । प्रत्ययग्रहणपरिभाषालभ्यस्तदन्तविधिः । ननु सुपेत्यनुवृत्तं बहुवचनान्ततया विपरिणतं प्रत्ययग्रहणपरिभाषया सुबन्तपरम् । प्रत्ययग्रहणपरिभाषालभ्यस्तदन्तविधिः । ननु सुपेत्यनुवृत्तं बहुवचनान्ततया विपरिणतं प्रत्ययग्रहणपरिभाषया सुबन्तपरम् । प्रत्ययग्रहणपरिभाषया च प्रत्ययग्रहणे प्रकृतिप्रत्ययसमुदायग्रहणं लभ्यते । तथा चसुबन्तै॑रित्यस्य सुप्-तत्प्रकृतिसमुदायैरित्यर्थः पर्यवस्यति । श्रितादिशब्दास्तु क्तप्रत्ययान्ता एव न तु सुबन्ताः, तेषां सुब्घटितसमुदायात्मकत्वाऽभावादित्यत आह-श्रितादिप्रकृतिकैः सुबन्तैरिति । श्रितादिशब्दाः श्रितादिप्रकृतिकेषु लाक्षणिका इति भावः ।गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्सुबुत्पत्ते॑रित्यस्य तु नायं विषयः, 'कर्तृकरणे कृता'साधनं कृते॑तिवत्कारकविशेषानुपादानादिति प्रौढमनोरमायां स्थितम् । न च श्रितादीनां समर्थविशेषणत्वात्तदन्तविधौ श्रितान्तादिशब्दप्रकृतिकैरित्यर्थलाभा॒त्कृष्णं परमश्रित॑ इत्यत्रापि समासः स्यादिति वाच्यं, समासप्रत्ययविधौ तदन्तविधिप्रतिषेधात् । कृष्णं श्रित इति । श्रयतेर्गतिविशेषार्थकत्वाद्गत्यर्थाकर्मकेति कर्तरि क्तः ।न लोके॑ति कृद्योगषष्ठीनिषेधात्कर्मणि द्वितीया । समासविधौ द्वितीयेति प्रथमानिर्दिष्टत्वात्कृष्णशब्दस्य पूर्वनिपातः दुःखातीत इति ।दुःखमतीत इति विग्रहः ।इण् गतौ॑ । अतिपूर्वात् कर्तरि क्तः । इत्यादीति । गर्तं पतितो गर्तपतितः ।पल्लृ गतौ॑ । कर्तरि क्तः । तनिपतिदरिद्रातिभ्यः सनो वेट्कत्वेनयस्य विभाषे॑तीण्निषेधप्राप्तावप्यत एव निपातनादिट् । ग्रामं गतो ग्रामगतः । ग्राममत्यस्तः-अतिक्रान्तो-ग्रामात्यस्तः । ग्रामं प्राप्तः ग्रामप्राप्ताः । संशयमापन्नः संशयापन्नः । गम्यादीनामिति । गम्यादिप्रकृतिकैः सुबन्तैरपि द्वितीयान्तं समस्यते स तत्पुरुष इति यावत् । ग्रामं गमीति । 'गमेरिनिः' रित्यौणादिक इनिप्रत्ययः, स च 'भविष्यति गम्यादयः' इति वचनाद्भविष्यति काले भवति ।अकेनो॑रिति कृद्योगषष्ठीनिषेधात्कर्मणि द्वितीया । ग्रामं गमिष्यन्नित्यर्थः । अन्नं बुभुक्षुरिति । भुजेः सन् ।सनाशंसभिक्ष उः॑ ।न लोके॑ति कृद्योगषष्ठीनिषेधात्कर्मणि द्वितीया । बुभुक्षुशब्दो गम्यादपठित इति भावः । स्वयं क्तेन । क्तप्रत्ययान्तप्रकृतिकसुबन्तेन स्वयमित्यव्ययं समस्यते स तत्पुरुष इत्यर्थः । अयोग्यत्वादिति ।स्वय॑मित्यव्ययस्य आत्मनेत्यर्थकस्य कर्तृशक्तिप्रधानतया तृतीयाया एवोचितत्वादिति भावः ।स्वय॑मित्यव्ययस्य समासेऽसमासेऽपि को भेदः । असमासेऽपि 'अव्ययादाप्सुपः' इति लुकः प्रवृत्तेरित्यत आह — स्वयंकृतस्यापत्यमिति । स्वयंकृतस्यापत्यमित्यर्थे 'अत इ' ञिति स्वयंकृतशब्दात्षष्ठन्तत्वात्तत इञि ऋकारस्यादिवृद्धौ रपरत्वे स्वयंकार्तिरित्येव स्यादिति भावः । वस्तुतस्तु असामर्थ्यादिह न तद्धितः । स्वयंकृतशब्दस्य समासस्वरः प्रयोजनम् ।
श्रितादिषु गत्यर्थत्वात्कर्तरि क्तः। पतिरपि सकर्मकः, नेज्जिह्मायन्तो नरकं पतामेति यथा। अत्यासः उ व्यतिक्रमः, गतिविशेष एव। प्राप्तिरप्यत्र गतिरेव, न फलम्। एवमापतिरपि। इह श्रितपतितगतैरयं सासो न विधेयः, कथम्? यः कष्ट्ंअ श्रितः कष्ट्ंअ तेन श्रितं भवति तत्र बहुव्रीहिणा सिध्दम्; नार्थभेदः, न रूपभेदः, न स्वरभेदः। तत्पुरुषेऽपि ठहीनेद्वितीयाऽ इति श्रितपतितागेभ्यः पुर्वपदप्रकृतिस्वर एव भवति। अतीतादिभिस्तु स्वरसिध्दये विधेयः, तथा हि- तैस्तत्पुरुषे थाथादिस्वरेण भाव्यम्, नाहीनस्वरेण; ठतीतात्यस्तयोरहीनेऽ इति निषेधात्, प्राप्तापन्नयोस्त्वहीने द्वितीयानुपसर्ग इति वचनात्। बहुव्रीहौ तु पूर्वपदप्रकृतितस्वरेण भाव्यम्, तस्माच्छ्रितादिभिरयं समासो न विधेयः। तत्रायमब्यर्थः, ठहीने द्वितीयाऽ इत्येतदपि न वक्तव्यं भवति। जातिस्वरप्रसङ्गस्तु, यदा जातिकालसुखादिभ्यः परे श्रितादयो भवन्ति तदा पूर्वपदप्रकृतिस्वरं बाधित्वा'जातिकालसुखादिभ्यो' नाच्छादनात्ऽ इत्यन्तोदातत्वप्रसङ्गः। ननु च तत्पुरुषारम्भोऽपि बहुव्रीह्यर्थविवक्षायां न दण्डवारितो बहुव्रीहिरिति जातिस्वरः स्यादेव? एवमप्यस्ति भेदः, तत्पुरुषे ठहीने द्वितीयअऽ इति पूर्वपदप्रकृतिस्वरः, बहुव्रीहो'जातिकाल' इत्यन्तोदातत्वमिति द्वौस्वरौ भवतः; अनारम्भे तु जातिस्वर एव स्यादिति। एवं तर्हि यदेतद्वा जात इति तद्वा जातश्रितपतितगतेष्विति वक्तव्यम्? एवमपि ठहीने द्वितीयाऽ इत्येतदपि न वक्तव्यमित्यस्त्येव लाघवम्। एतावाÄस्तु विशेषः - तत्पुरुषारम्भे तत्र पूर्वपदप्रकृतिस्वरत्वम्, बहुव्रीहौ तु जातिस्वर इति द्वयोः समासयोद्व्êअस्वर्यम्; अनारम्भे तु बहुव्रीहावेव द्वैस्वर्यमिति? अत्रोच्यते - जातिकालसुखादिव्यतिरिक्तैः सह बहुव्रीहौ श्रितादीनां निष्ठेति पूर्वनिपादप्रसङ्गाद्रूपभेतः, तथा सर्वत्र कबपि प्राप्नोति। नन्वसौ'शेषाद्विभाषा' इति विकल्पितः, स च तत्पुरुषारम्भेऽपि भवत्येव, बहुव्रीहेरप्यभ्युपगमात्? एवमपि बहुव्रीहावपि द्वैस्वर्याभ्युपगमात्पुर्वपदप्रकृतिस्वरपक्षेऽपि बहुव्रीहित्वानपायात्पक्षे कपः प्रसङ्गः; तत्पुरुषारम्भे तु तत्रैव ठहीने द्वनितायाऽ इति पूर्वपदप्रकृतिस्वरः, बहुव्रीहौ तु जातिस्वर एव नित्यमित्यन्तोदातादेव कब्न पूर्वपदप्रकृतिस्वरादित्यस्त्येव विशेषः। तथाऽर्थभेजोऽपि'गत्यर्थाकर्मक' इति कर्तरि क्तो धात्वर्थस्य सर्वात्मनाऽनिष्ठितत्वेऽपि भवति - आरुढो वृक्षं देवदत इति वृक्षस्य एवोच्यते। कर्मणि तु भवन्सर्वात्मना निष्ठतत्वे भवति - आरूढो वृक्षो देवदतेनेति, तथेहापि कष्ट्ंअ श्रित इति कष्टमनुभवन्नेवमुच्यते, कष्ट्ंअ श्रितमनेनेत्यनुभूतकष्टः श्रितशबदविवक्षितस्यार्थस्य साक्षादवगतिर्भवति तत्पुरुषे। बहुव्रीहौ त्वर्थात्, तद्यथा - राज्ञः सखेत्युक्ते नूनं हाजाप्यस्य सखेति स एष सूक्ष्मदृशामेव विषयः। गमिगाम्यादीनामिति। उणादीनामन्येषां च संग्रहार्थमुभयोरुपादानम्। ग्रामं गमीति।'गमेरिनिः' इत्यौणादिक इनिप्रत्ययः'भविष्यति गम्यादयः' इति भविष्यति काले। ग्रामं गामीति। आवश्यके णिनि।'गत्यार्थकर्मणि' इत्यत्र द्वितीयाग्रहणमपवादविषयेऽपि विधानार्थमिति कृत्प्रयोगे द्वितीयैव भवति। ओगनं बुभुक्षुरिति। भुजेः सन्,'सनाशंसभिक्ष उः' ।'न लोकाव्यय' इति षष्ठीनिषेधः॥