3-3-56 एः अच् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम्
भावे, अकर्तरि च कारक इति प्रकृतमनुवर्तते यावत् <<कृत्यल्युटो बहुलम्>> ३.३.११३ इति। इवर्णान्ताद् धातोर्भावे, अकर्तरि च कारके संज्ञायामच् प्रत्ययो भवति। घञोऽपवादः। चकारो विशेषणार्थः। <<अन्तः>> ६.२.१४३ <<थाथघञ्क्ताजबित्रकाणाम्>> ६.२.१४४ इति। चयः। अयः। जयः। क्षयः॥ अज्विधौ भयादीनामुपसंख्यानम्॥ नपुंसके क्तादिनिवृत्त्यर्थम्। भयम्। वर्षम्॥ जवसवौ छन्दसि वक्तव्यौ॥ ऊर्वोरस्तु मे जवः (पै०सं० २०.३६.७)। पञ्चौदनस् सवः (पै०सं० ८.१९.३)॥
चयः । जयः ॥<!भयादीनामुपसङ्ख्यानम्, नपुंसके क्तादिनिवृत्त्यर्थम् !> (वार्तिकम्) ॥ भयम् । वर्षम् ॥
इवर्णान्तादच् । चयः । जयः ॥
चकारो विशेषणार्थ इति । विना हि तेन थाथादिसूत्रेऽप्रत्ययादित्यस्यापि ग्रहणं स्यात् । वर्षमिति । वृषभो वर्षणादिति भाष्यकारप्रयोगादूर्षणमित्यपि भवति । जवसवाविति । अपि प्राप्तेऽज् विधीयते । स्वरे विशेषः । एरजण्यन्तानामिति तु नास्ति वचनम्,'कल्प्यादिभ्यः प्रतिषेधवचनम्' इत्येतदेवास्ति । कल्प्यते इति कल्पः, अर्थ्यते इत्यर्थः, मन्त्र्यते इति मन्त्रः । अचि प्रतिषिद्धे घञेव भवति ॥