एतिस्तुशास्वृदृजुषः क्यप्

3-1-109 एतिस्तुशास्वृदृजुषः क्यप् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कृत्याः क्यप् च

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

सुप्यनुपसर्गे भाव इति निवृत्तम्। सामान्येन विधानमेतत्। एति स्तु शास् वृ दृ जुष् इत्येतेभ्यः क्यप् प्रत्ययो भवति। इत्यः। स्तुत्यः। शिष्यः। वृत्यः। आदृत्यः। जुष्यः। क्यबिति वर्तमाने पुनः क्यब्ग्रहणं बाधकबाधनार्थम्। <<ओरावश्यके>> (३.१.१२५) इति ण्यतं बाधित्वा क्यबेव भवति। अवश्यस्तुत्यः। वृग्रहणे वृञो ग्रहणमिष्यते, न वृङः। वार्या ऋत्विजः॥ शंसिदुहिगुहिभ्यो वेति वक्तव्यम्॥ शस्यम्, शंस्यम्। दुह्यम्, दोह्यम्। गुह्यम्, गोह्यम्॥ आङ्पूर्वादञ्जेः संज्ञायामुपसंख्यानम्॥ आज्यं घृतम्। कथमुपेयम्? एरेतद्रूपम्, नेणः॥

Siddhanta Kaumudi

Up

एभ्यः क्यप्स्यात् ॥

Laghu Siddhanta Kaumudi

Up

एभ्यः क्यप् स्यात्॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<एतिस्तुशस्वृदृजुषः क्यप्>> - एतिस्तु । एति, स्तु, शास्, वृ , दृ, जुष् एषां षण्णां समाहारद्वन्द्वात्प्रञ्चमी । सुप्यनुपसर्गे भाव इति निवृत्त्म् । तदाह — एभ्यः क्यप्स्यादिति ।

Padamanjari

Up

एतिस्तुशास्वृद्दजुषः क्यप्॥ ठेतिऽ इति तिपा निर्द्देशः किमर्थः? धातोग्रंहणं यथा स्यादिवर्णान्तस्य मा भूदिति। अत्र चेण एव ग्रहणम्, नेङ्कोः, तियोरधिपूर्वयोरेव प्रयोगादेतीति निर्देशानुपपतेः। तथा च - रक्षार्थ वेदानामध्येयं व्याकरणम्ऽ इति भाष्ये यदेव प्रयुक्तः। केचितु ठिण्वदिक इति वक्तव्यम्ऽ इति वचनादधीत्या मातेत्यप्युदाहरन्ति। स्तुत्य इति। ह्रस्वस्य तुक्। शिष्य इति।'शास इदङ्हलोः' इतीत्वम्,'शासिवसिघसीनां च' इति षत्वम्, ठाङ्ः शासु इच्छायाम्ऽ इत्यस्यापि ग्रहणमविशेषात्। तेनाशास्यमिति धातुस्वरेण मध्योदातं पदं भवति। ण्यति तु'गतिकारकोपपदात्कृत्' इति अन्तस्वरितत्वं स्यात्। केचितु'शासु अनुशिष्टौ' इत्यस्यैव ग्रहणमिच्छन्ति। ओरावश्यक इत्यादि। इह स्तुग्रहणस्यावकाश आवश्यकाविवक्षायाम् - स्तुत्य इति; ठोरावश्यकेऽ इत्यस्यावकाशः - अवश्यलाव्यमिति; अवश्यस्तुत्य इत्यत्रोभयप्रसङ्गे परत्वाद् ण्यत्स्यात्, पुनः क्यब्ग्रहणात्क्यबेव भवति। वृग्रहणे वृञो ग्रहणमिष्यते न वृङ् इति। ज्ञापकात्, यदयम् ठीडवन्दवृशंसदुहां ण्यतःऽ इति वार्यशब्दस्याद्यौदातत्वं शास्ति, तत्र चेडिवन्दिभ्यां साहचर्यादात्मनेपदिनो वृङ्ए ग्रहणम्। शंसिदुहीत्यादि।'शंसु स्तुतौ' 'दुह प्रपूरणे' गुहू'संवरणे' । शस्यमिति। क्यप्पक्षे उपधालोपः। भाष्ये एतदुपसङ्ख्यानं न द्दष्टम्। आङ्पूर्वादिति। ठञ्जू व्यक्तिम्रक्षणकान्तिगतिषुऽ। आज्यमिति।'कृत्यल्युटो बहुलम्' इति करणे क्यप्, पूर्वदुपधालोपः। अथ कस्माद् ण्यत्येवोपधालोपो नोक्तः? कुत्वप्रसङ्गातित्स्वरप्रसङ्गाच्च। तस्मात्क्यबन्त एषः। यद्येवम्, अवग्रहः प्राप्नोति - आज्यमित्या अज्यमिति? अवगृह्यताम्, को दोषः? न हि लक्षणेन पदकारा अनुवर्त्त्याः, किन्तु पदकारैर्नाम लक्षणमनुवर्त्यम्। पदविच्छेदो हि पौरुषेयः, संहितैव तु नित्या। अर्थ चार्थनिश्चयाभावे नावगृह्णन्ति; यथा - हरिव इति, किं हरिशब्द इकारान्त उत हरिच्छब्दस्तकारान्त इति सन्देहात्। कथमिति। इण एवैतद्रूपमिति मन्यमानस्य प्रश्नः। एरिति। ठि गतौऽ इत्यस्य॥