नेड् वशि कृति

7-2-8 न इट् वशि कृतिः

Kashika

Up

index: 7.2.8 sutra: नेड् वशि कृति


वशादौ कृति प्रत्यये परतः इडागमो न भवति। वरमनादौ प्रयोजनम्। ईशिता। ईशितुम्। ईश्वरः। दीपिता। दीपितुम्। दीप्रः। भसिता। भसितुम्। भस्म। याचिता। आचितुम्। याच्ञा। वरमनादौ इत्युदाहरणप्रदर्शनार्थम्, न परिगणनम्। तेन ञमन्ताड्डः इत्येवमादावपि हि प्रतिषेधो भवति। अथ तत्र उणादयो बहुलम् 3.3.1 इति समाधीयते? सम्भवोदाहरनप्रदर्शनम् एतत्। कृतीति किम्? रुदिवः। रुदिमः।

Siddhanta Kaumudi

Up

index: 7.2.8 sutra: नेड् वशि कृति


वशादेः कृत इण्न स्यात् । शॄ । सुशर्मा । प्रातरित्वा ॥

Laghu Siddhanta Kaumudi

Up

index: 7.2.8 sutra: नेड् वशि कृति


वशादेः कृत इण् न स्यात्॥ शॄ हिंसायाम्॥ सुशर्मा प्रातरित्वा॥

Balamanorama

Up

index: 7.2.8 sutra: नेड् वशि कृति


नेड् वशि कृति - नेड्वशि कृति । षष्ठर्थे सप्तम्यौ । वशा कृद्विशेष्यते । तदादिविधिः । तदा — वशादेरिति । सुशर्मेति । शृधातोर्मनिन् । प्रातरित्वेति । इण्धातोः क्वनिप् ।

Padamanjari

Up

index: 7.2.8 sutra: नेड् वशि कृति


वशि कृतीति सप्तमीनिर्द्देशस्तदादिविध्यर्थः तस्य च वयं पुरस्तात्करणस्य प्रयोजनं क्रादिसूत्रे वक्ष्यामः। ईशितेत्यदेरुपन्यासः प्रकृत्याश्रयः प्रतिषेधो न सिध्यतीति प्रदर्शनार्थः । ईश्वर इति । स्थेशभास इत्यादिना वरच् । दीप्रमिति । नमिकम्पि इत्यादिना रः । भस्मेति । अन्येभ्योऽपि दृश्यन्ते इति मनिन् । औणदिके त्वव्युत्पत्तिपक्षाश्रयणेनापि सिद्धम् । याच्ञेति । यजयाच इत्यादिना नङ् । सम्भवोदारहणप्रदर्शनमिति । एतावन्त्युदाहरणानि सम्भवन्तीति प्रदर्शनार्थमित्यर्थः । रुदिंव, रुदिम इति । असति कृद्ग्रहणे रुदादिभ्यः सार्वधातुके इत्यस्यापचि इटोऽत्र प्रतिषेधः स्यात्, तस्य त्वाशादिरवकाशः रोदितीति । क्वचिद् रुरुदिव, रुरुदिमेति लिटि पठ।ल्ते, तदयुक्तम्, क्रादिनियमादेवेटः सिद्धत्वात् ॥