1-2-28 अचः च अच् ह्रस्वदीर्घप्लुतः
index: 1.2.28 sutra: अचश्च
ह्रस्वदीर्घप्लुतः अच् अचः
index: 1.2.28 sutra: अचश्च
ह्रस्व-दीर्घ-प्लुत-शब्देन विधीयमानम् कार्यम् अच्-वर्णस्य स्थाने एव भवति ।
index: 1.2.28 sutra: अचश्च
Action denoted by the words ह्रस्व / दीर्घ / प्लुत happens in place of an अच् letter.
index: 1.2.28 sutra: अचश्च
परिभाषा इयं स्थानिनियमार्था ह्रस्वदीर्घप्लुतः स्वसंज्ञया शिष्यमाणा अच एव स्थाने वेदितव्याः। वक्ष्यति ह्रस्वो नपुंसके प्रातिपदिकस्य 1.2.47, रैअतिरि। नौअतिनु। गोउपगु। अचः इति किम्? सुवाग् ब्रह्मणकुलम्। अकृत्सार्वधातुकयोर्दीर्घः 7.4.25 चीयते। श्रूयते। अचः इति किम्? भिद्यते। धिद्य्ते। वाक्यस्य टेः प्लुत उदात्तः 7.2.82 देवदत्त3। यज्ञदत्त3। अचः इति किम्? अग्निचि3त्। सोमसु3त्। तकारस्य मा भूत्। स्वसंज्ञया वधाने नियमः। अचिति वर्तते। इह मा भूत्। द्यौः पन्थाः। सः द्यौभ्याम्। द्युभिः। अत्र नियमो न अस्ति।
index: 1.2.28 sutra: अचश्च
ह्रस्वदीर्घप्लुतशब्दैर्यत्राज्विधीयते तत्राचेति षठ्यन्तं पदमुपतिष्ठते ॥
index: 1.2.28 sutra: अचश्च
इदम् अष्टाध्याय्याः विद्यमानम् एकम् परिभाषासूत्रम् । भिन्नेषु सूत्रेषु यत्र ह्रस्वः भवति, दीर्घः भवति, प्लुतः भवति — इति प्रकारेण आदेशविधानं क्रियते, परन्तु एते आदेशाः कस्य वर्णस्य विषये भवन्ति इति स्पष्टरूपेण नैव उच्यते, तत्र, एते आदेशाः अच्-वर्णस्य स्थाने भवन्ति इति प्रकृतपरिभाषया स्पष्टी क्रियते ।
यथासङ्ख्यम् उदाहरणानि एतानि —
1) ह्रस्वविधिः अचः स्थाने भवति — यदि नपुंकसवाचिनः प्रातिपदिकस्य अन्तिमवर्णः दीर्घः अस्ति, तर्हि ह्रस्वो नपुंसके प्रातिपदिकस्य 1.2.47 इति सूत्रेण 'तस्य ह्रस्वादेशः भवति' इति उच्यते । यथा - 'श्रीपा' अयं आकारान्त-नपुंसकलिङ्गी शब्दः अस्ति । अस्य शब्दस्य सुबन्तरूपसिद्धौ प्रारम्भे ह्रस्वो नपुंसके प्रातिपदिकस्य 1.2.47 इत्यनेन अस्य प्रातिपदिकस्य ह्रस्वादेशः भवति । अस्य आदेशस्य कः स्थानी — इति प्रश्ने जाते, प्रकृतसूत्रस्य आधारेण 'अच्-वर्णस्य ह्रस्वादेशः भवति' इति निर्णयः क्रियते । तत्रापि अलोऽन्तस्य 1.1.52 इत्यनेन अन्तिम-अच्-वर्णस्य स्थाने एव अयं ह्रस्वादेशः भवति (न अन्येषाम्) इति स्पष्टी भवति । प्रक्रिया इयम् —
श्रियं पाति तत् (कुलम्) [कृद्वृत्तिः]
→ श्रियम् + पा + विच् [आतो मनिन्क्वनिब्वनिपश्च 3.2.74, अथ वा अन्येभ्योऽपि दृश्यन्ते 3.2.75 इति विच्-प्रत्ययः]
→ श्रियम् + पा + ० [चकारस्य इत्संज्ञा, लोपः ।इकारः उच्चारणार्थः, सोऽपि लुप्यते । अपृक्तवकारस्य वेरपृक्तस्य 6.1.67 इति लोपः]
→ श्री + पा [उपपदमतिङ् 2.2.19 इति उपपदसमासः ।सुपो धातुप्रातिपदिकयोः 2.4.71 इति उपपदस्य विभक्तिलोपः]
→ श्रीपा + सुँ [प्रथमैकवचनस्य विवक्षायाम् सुँ-प्रत्ययः]
→ श्रीप + सुँ [ह्रस्वो नपुंसके प्रातिपदिकस्य 1.2.47 इत्यनेन प्रातिपदिकस्य ह्रस्वादेशः । तत्र अचश्च 1.2.28 इति परिभाषया 'अच्-वर्णस्य ह्रस्वादेशः भवति' — इति स्पष्टी भवति । अलोऽन्त्यस्य 1.1.52 इत्यनेन 'अन्तिम-वर्णस्य कार्यम् भवति' — इति स्पष्टी क्रियते । अतः अत्र 'श्रीपा'शब्दस्य अन्तिम-आकारस्य ह्रस्वादेशः (अकारः) विधीयते ।]
→ श्रीप + अम् [अतोऽम् 7.1.24 इति सुँ-प्रत्ययस्य अम्-आदेशः]
→ श्रीपम् [अमि पूर्वः 6.1.107 इति पूर्वरूपैकादेशः]
2) दीर्घविधिः अचः स्थाने भवति — यञादि सार्वधातुके प्रत्यये परे अदन्तस्य अङ्गस्य अतो दीर्घो यञि 7.3.101 अनेन सूत्रेण दीर्घादेशः विधीयते । अत्र अङ्गस्य दीर्घः इत्युक्ते कस्य दीर्घः? — अस्य प्रश्नस्य उत्तरम् प्रकृतपरिभाषया दीयते — 'अङ्गस्य अच्-वर्णस्य दीर्घः' इति । अतः पठ्-धातोः उत्तमपुरुषैकवचनस्य प्रक्रियायाम् 'पठ् + अ + मि' इत्यत्र अङ्गस्य यः (अन्तिमः) अकारः तस्य दीर्घं कृत्वा 'पठामि' इति रूपं सिद्ध्यति ।सम्पूर्णा प्रक्रिया इयम् —
पठँ (व्यक्तायां वाचि, <{1.0371}>)
→ पठ् + लट् [वर्तमाने लट् 3.2.123
→ पठ् + मिप् [तिपस्झि... 3.4.78 इति उत्तमपुरुषैकवचनस्य प्रक्रियायाम् 'मिप्' प्रत्ययः]
→ पठ् + शप् + मि [कर्तरि शप् 3.1.68 इति शप्-विकरणप्रत्ययः]
→ पठ् + अ + मि [इत्संज्ञालोपः]
→ पठ् + आ + मि [अतो दीर्घो यञि 7.3.101 इति अङ्गस्य दीर्घः । अत्र अचश्च 1.2.28 इति परिभाषया अङ्गस्य स्वरस्यैव दीर्घः भवति इति ज्ञाप्यते । अग्रे अलोऽन्त्यस्य 1.1.52 इत्यनेन 'अन्तिम-स्वरस्य' दीर्घः भवति इत्यपि स्पष्टी भवति ।
→ पठामि
3) प्लुतविधिः अचः स्थाने भवति — दूराद्धूते च 8.2.84 इति सूत्रेण दूरात् सम्बोधनार्थम् प्रयुज्यमानस्य वाक्यस्य टिसंज्ञकस्य प्लुतादेशः विधीयते । अत्रापि 'टिसंज्ञके विद्यमानस्य कस्य वर्णस्य प्लुतः भवति' — इति प्रश्ने जाते, प्रकृतपरिभाषया 'स्वरस्य प्लुतादेशः भवति' इति स्पष्टी क्रियते ।अतएव, 'सक्तून् पिब अश्वत्थामन् !' अस्य वाक्यस्य विषये दूराद्धूते च 8.2.84 इति सूत्रस्य यदा प्रयोगः क्रियते, तदा अस्य वाक्यस्य टिसंज्ञकस्य ('अन्' इत्यस्य) स्वरः (अकारः) अनेन सूत्रेण प्लुतः भवति । अतएव 'सक्तून् पिब अश्वत्थाम3न्' इति प्रयोगः सिद्ध्यति ।
यत्र विधिसूत्रे 'ह्रस्वः भवति /दीर्घः भवति /प्लुतः भवति' इति निर्देशः क्रियते, तत्रैव प्रकृतपरिभाषायाः प्रयोगः करणीयः — इति ज्ञापयितुम् अस्मिन् सूत्रे ह्रस्वादिशब्दानाम् अनुवृत्तिः कृता अस्ति । इत्युक्ते, यत्र विधिसूत्रे ह्रस्वादिशब्दान् विना केवलम् 'अजादेशः भवति' इति साक्षात् निर्देशः क्रियते, तत्र प्रकृतसूत्रस्य नैव प्रयोगः करणीयः अतः तत्र तादृशः आदेशः हल्-वर्णस्य स्थाने अपि सम्भवति — इत्यर्थः । यथा, दिव उत् 6.1.131 अनेन सूत्रेण 'दिव्' इत्यस्य स्थाने विधीयमानः उकारः अलोऽन्त्यस्य 1.1.52 इत्यनेन दिव्-शब्दस्य अन्तिमवर्णस्य (वकारस्य) स्थाने एव भवति, न हि दिव्-शब्दस्य स्वरस्य स्थाने । दिव उत् 6.1.131 इति सूत्रे ह्रस्व/दीर्घ/प्लुतशब्दः नैव प्रयुक्तः अस्ति, अतः तत्र अचश्च 1.2.28 इति परिभाषा अपि न प्रयुज्यते, इति अत्र आशयः । प्रक्रिया इयम् —
दिव् + भ्याम् [वकारान्तात् दिव्-प्रातिपदिकात् तृतीयेकवचनस्य विवक्षायाम् स्वौजस्.. 4.1.2 इति भ्याम्-प्रत्ययः]
→ दिउ + भ्याम् [दिव उत् 6.1.131 इति उकारादेशः । अस्मिन् सूत्रे ह्रस्व/दीर्घ/प्लुतशब्दः नैव प्रयुक्तः, अतः अत्र अचश्च 1.2.28 इति परिभाषा अपि नैव प्रयोक्तव्या । ]
→ द्युभ्याम् [इको यणचि 6.1.77 इति यणादेशः]
index: 1.2.28 sutra: अचश्च
अचश्च - अचश्च । अच इत्यपि षष्ठन्तशब्दः स्वरूपपरः, पूर्वसूत्रे इक इतिवत् । ऊकालोऽजित्यतः 'अच्' 'ह्रस्वदीर्घप्लुत' इत्यनुवर्तते । 'इति यत्र विधीयते' इत्यध्याहार्यम् । फलितमाह — ह्रस्वेत्यादिना । 'दिव उत्' इत्यादौ तु नेदं प्रवर्तते, ह्रस्वादिशब्दानामश्रवणात् ।ह्रस्वो नपुंसके प्रातिपादिकस्ये॑त्याद्युदाहरणम् । श्रीपम् । नेह — सुपात् ब्राआहृणकुलम् ।
index: 1.2.28 sutra: अचश्च
ऽइको गुणवृद्धीऽ इत्यनेन समानमिदम् । स्वसंज्ञया विधाने नियमार्थमित्यत्र युक्तिमाह-अजिति वर्तत इति । ततश्च ह्रस्वादिशब्दा इहानुवृता नाचमुपस्थापर्यान्त, तस्य स्वयमुपस्थानादिति स्वरूपपदार्थका आश्रीयन्ते । तेन ह्रस्व इत्येवं योऽज्विधीयते सोऽचः स्थाने भवतीत्ययमर्थः सम्पद्यते । एवं दीर्घप्लुतयोः । द्यौरित्यादि । ऽदिव औत्ऽ ऽपथिमथ्यृभुक्षामात्ऽ,ऽत्यदादीनामःऽ,ऽदिव उत्ऽ इति औकारादयो न संज्ञया विधीयन्ते इति हल एव स्थाने भवन्ति ॥