अचश्च

1-2-28 अचः च अच् ह्रस्वदीर्घप्लुतः

Sampurna sutra

Up

ह्रस्वदीर्घप्लुतः अच् अचः

Neelesh Sanskrit Brief

Up

ह्रस्व-दीर्घ-प्लुत-शब्देन विधीयमानम् कार्यम् अच्-वर्णस्य स्थाने एव भवति ।

Neelesh English Brief

Up

Action denoted by the words ह्रस्व / दीर्घ / प्लुत happens in place of an अच् letter.

Kashika

Up

परिभाषेयं स्थानिनियमार्था। ह्रस्वदीर्घप्लुताः स्वसंज्ञया शिष्यमाणा अच एव स्थाने वेदितव्याः। वक्ष्यति — <<ह्रस्वो नपुंसके प्रातिपदिकस्य>> (१.२.४७) — रै — अतिरि। नौ — अतिनु। गो — उपगु। अच इति किम्? सुवाग् ब्राह्मणकुलम्। <<अकृत्सार्वधातुकयोर्दीर्घः>> (७.४.२५) — चीयते। श्रूयते। अच इति किम्? भिद्यते। छिद्यते। <<वाक्यस्य टेः प्लुत उदात्तः>> (८.२.८२) — देवदत्त ३। यज्ञदत्त३। अच इति किम्? अग्निचि३त्। सोमसु३त्। तकारस्य मा भूत्। स्वसंज्ञया विधाने नियमः। अज् इति वर्तते। इह मा भूत् — द्यौः। पन्थाः। सः। द्युभ्याम्। द्युभिः। अत्र नियमो नास्ति॥

Siddhanta Kaumudi

Up

ह्रस्वदीर्घप्लुतशब्दैर्यत्राज्विधीयते तत्राच इति षष्ठ्यन्तं पदमुपतिष्ठते ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

इदम् अष्टाध्याय्याः विद्यमानम् एकम् परिभाषासूत्रम् । भिन्नेषु सूत्रेषु यत्र ह्रस्वः भवति, दीर्घः भवति, प्लुतः भवति — इति प्रकारेण आदेशविधानं क्रियते, परन्तु एते आदेशाः कस्य वर्णस्य विषये भवन्ति इति स्पष्टरूपेण नैव उच्यते, तत्र, एते आदेशाः अच्-वर्णस्य स्थाने भवन्ति इति प्रकृतपरिभाषया स्पष्टी क्रियते । यथासङ्ख्यम् उदाहरणानि एतानि — 1) ह्रस्वविधिः अचः स्थाने भवति — यदि नपुंसकवाचिनः प्रातिपदिकस्य अन्तिमवर्णः दीर्घः अस्ति, तर्हि <<ह्रस्वो नपुंसके प्रातिपदिकस्य>> 1.2.47 इति सूत्रेण 'तस्य ह्रस्वादेशः भवति' इति उच्यते । यथा - 'श्रीपा' अयं आकारान्त-नपुंसकलिङ्गी शब्दः अस्ति । अस्य शब्दस्य सुबन्तरूपसिद्धौ प्रारम्भे <<ह्रस्वो नपुंसके प्रातिपदिकस्य>> 1.2.47 इत्यनेन अस्य प्रातिपदिकस्य ह्रस्वादेशः भवति । अस्य आदेशस्य कः स्थानी — इति प्रश्ने जाते, प्रकृतसूत्रस्य आधारेण 'अच्-वर्णस्य ह्रस्वादेशः भवति' इति निर्णयः क्रियते । तत्रापि <<अलोऽन्तस्य>> 1.1.52 इत्यनेन अन्तिम-अच्-वर्णस्य स्थाने एव अयं ह्रस्वादेशः भवति (न अन्येषाम्) इति स्पष्टी भवति । प्रक्रिया इयम् — श्रियं पाति तत् (कुलम्) [कृद्वृत्तिः] → श्रियम् + पा + विच् [<<आतो मनिन्क्वनिब्वनिपश्च>> 3.2.74, अथ वा <<अन्येभ्योऽपि दृश्यन्ते>> 3.2.75 इति विच्-प्रत्ययः] → श्रियम् + पा + ० [चकारस्य इत्संज्ञा, लोपः ।इकारः उच्चारणार्थः, सोऽपि लुप्यते । अपृक्तवकारस्य <<वेरपृक्तस्य>> 6.1.67 इति लोपः] → श्री + पा [<<उपपदमतिङ्>> 2.2.19 इति उपपदसमासः ।<<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति उपपदस्य विभक्तिलोपः] → श्रीपा + सुँ [प्रथमैकवचनस्य विवक्षायाम् सुँ-प्रत्ययः] → श्रीप + सुँ [<<ह्रस्वो नपुंसके प्रातिपदिकस्य>> 1.2.47 इत्यनेन प्रातिपदिकस्य ह्रस्वादेशः । तत्र <<अचश्च>> 1.2.28 इति परिभाषया 'अच्-वर्णस्य ह्रस्वादेशः भवति' — इति स्पष्टी भवति । <<अलोऽन्त्यस्य>> 1.1.52 इत्यनेन 'अन्तिम-वर्णस्य कार्यम् भवति' — इति स्पष्टी क्रियते । अतः अत्र 'श्रीपा'शब्दस्य अन्तिम-आकारस्य ह्रस्वादेशः (अकारः) विधीयते ।] → श्रीप + अम् [<<अतोऽम्>> 7.1.24 इति सुँ-प्रत्ययस्य अम्-आदेशः] →‌ श्रीपम् [<<अमि पूर्वः>> 6.1.107 इति पूर्वरूपैकादेशः] ए, ऐ, ओ, औ एतेषाम् ह्रस्वादेशः कथं भवति तत् <<ह्रस्वो नपुंसके प्रातिपदिकस्य>> 1.2.47 इति सूत्रे स्पष्टीकृतम् अस्ति, तत् तत्रैव द्रष्टव्यम् । 2) दीर्घविधिः अचः स्थाने भवति — यञादि सार्वधातुके प्रत्यये परे अदन्तस्य अङ्गस्य <<अतो दीर्घो यञि>> 7.3.101 अनेन सूत्रेण दीर्घादेशः विधीयते । अत्र अङ्गस्य दीर्घः इत्युक्ते कस्य दीर्घः? — अस्य प्रश्नस्य उत्तरम् प्रकृतपरिभाषया दीयते — 'अङ्गस्य अच्-वर्णस्य दीर्घः' इति । अतः पठ्-धातोः उत्तमपुरुषैकवचनस्य प्रक्रियायाम् 'पठ् + अ + मि' इत्यत्र अङ्गस्य यः (अन्तिमः) अकारः तस्य दीर्घं कृत्वा 'पठामि' इति रूपं सिद्ध्यति ।सम्पूर्णा प्रक्रिया इयम् — पठँ (व्यक्तायां वाचि, <{1.0371}>) → पठ् + लट् [<<वर्तमाने लट्>> 3.2.123 → पठ् + मिप् [<<तिपस्झि...>> 3.4.78 इति उत्तमपुरुषैकवचनस्य प्रक्रियायाम् 'मिप्' प्रत्ययः] → पठ् + शप् + मि [<<कर्तरि शप्>> 3.1.68 इति शप्-विकरणप्रत्ययः] → पठ् + अ + मि [इत्संज्ञालोपः] → पठ् + आ + मि [<<अतो दीर्घो यञि>> 7.3.101 इति अङ्गस्य दीर्घः । अत्र <<अचश्च>> 1.2.28 इति परिभाषया अङ्गस्य स्वरस्यैव दीर्घः भवति इति ज्ञाप्यते । अग्रे <<अलोऽन्त्यस्य>> 1.1.52 इत्यनेन 'अन्तिम-स्वरस्य' दीर्घः भवति इत्यपि स्पष्टी भवति । → पठामि 3) प्लुतविधिः अचः स्थाने भवति — <<दूराद्धूते च>> 8.2.84 इति सूत्रेण दूरात् सम्बोधनार्थम् प्रयुज्यमानस्य वाक्यस्य टिसंज्ञकस्य प्लुतादेशः विधीयते । अत्रापि 'टिसंज्ञके विद्यमानस्य कस्य वर्णस्य प्लुतः भवति' — इति प्रश्ने जाते, प्रकृतपरिभाषया 'स्वरस्य प्लुतादेशः भवति' इति स्पष्टी क्रियते ।अतएव, 'सक्तून् पिब अश्वत्थामन् !' अस्य वाक्यस्य विषये <<दूराद्धूते च>> 8.2.84 इति सूत्रस्य यदा प्रयोगः क्रियते, तदा अस्य वाक्यस्य टिसंज्ञकस्य ('अन्' इत्यस्य) स्वरः (अकारः) अनेन सूत्रेण प्लुतः भवति । अतएव 'सक्तून् पिब अश्वत्थाम3न्' इति प्रयोगः सिद्ध्यति । अस्मिन् ह्रस्व/दीर्घ/प्लुतशब्दानाम् अनुवृत्तेः प्रयोजनम् यत्र विधिसूत्रे 'ह्रस्वः भवति /दीर्घः भवति /प्लुतः भवति' इति निर्देशः क्रियते, तत्रैव प्रकृतपरिभाषायाः प्रयोगः करणीयः — इति ज्ञापयितुम् अस्मिन् सूत्रे ह्रस्वादिशब्दानाम् अनुवृत्तिः कृता अस्ति । इत्युक्ते, यत्र विधिसूत्रे ह्रस्वादिशब्दान् विना केवलम् 'अजादेशः भवति' इति साक्षात् निर्देशः क्रियते, तत्र प्रकृतसूत्रस्य नैव प्रयोगः करणीयः अतः तत्र तादृशः आदेशः हल्-वर्णस्य स्थाने अपि सम्भवति — इत्यर्थः । यथा, <<दिव उत्>> 6.1.131 अनेन सूत्रेण 'दिव्' इत्यस्य स्थाने विधीयमानः उकारः <<अलोऽन्त्यस्य>> 1.1.52 इत्यनेन दिव्-शब्दस्य अन्तिमवर्णस्य (वकारस्य) स्थाने एव भवति, न हि दिव्-शब्दस्य स्वरस्य स्थाने । <<दिव उत्>> 6.1.131 इति सूत्रे ह्रस्व/दीर्घ/प्लुतशब्दः नैव प्रयुक्तः अस्ति, अतः तत्र <<अचश्च>> 1.2.28 इति परिभाषा अपि न प्रयुज्यते, इति अत्र आशयः । प्रक्रिया इयम् — दिव् + भ्याम् [वकारान्तात् दिव्-प्रातिपदिकात् तृतीयेकवचनस्य विवक्षायाम् <<स्वौजस्..>> 4.1.2 इति भ्याम्-प्रत्ययः] → दिउ + भ्याम् [<<दिव उत्>> 6.1.131 इति उकारादेशः । अस्मिन् सूत्रे ह्रस्व/दीर्घ/प्लुतशब्दः नैव प्रयुक्तः, अतः अत्र <<अचश्च>> 1.2.28 इति परिभाषा अपि नैव प्रयोक्तव्या । ] → द्युभ्याम् [<<इको यणचि>> 6.1.77 इति यणादेशः]

Balamanorama

Up

<<अचश्च>> - अचश्च । अच इत्यपि षष्ठन्तशब्दः स्वरूपपरः, पूर्वसूत्रे इक इतिवत् । ऊकालोऽजित्यतः 'अच्' 'ह्रस्वदीर्घप्लुत' इत्यनुवर्तते । 'इति यत्र विधीयते' इत्यध्याहार्यम् । फलितमाह — ह्रस्वेत्यादिना । 'दिव उत्' इत्यादौ तु नेदं प्रवर्तते, ह्रस्वादिशब्दानामश्रवणात् ।ह्रस्वो नपुंसके प्रातिपादिकस्ये॑त्याद्युदाहरणम् । श्रीपम् । नेह — सुपात् ब्राआहृणकुलम् ।

Padamanjari

Up

ऽइको गुणवृद्धीऽ इत्यनेन समानमिदम् । स्वसंज्ञया विधाने नियमार्थमित्यत्र युक्तिमाह-अजिति वर्तत इति । ततश्च ह्रस्वादिशब्दा इहानुवृता नाचमुपस्थापर्यान्त, तस्य स्वयमुपस्थानादिति स्वरूपपदार्थका आश्रीयन्ते । तेन ह्रस्व इत्येवं योऽज्विधीयते सोऽचः स्थाने भवतीत्ययमर्थः सम्पद्यते । एवं दीर्घप्लुतयोः । द्यौरित्यादि । ऽदिव औत्ऽ ऽपथिमथ्यृभुक्षामात्ऽ,ऽत्यदादीनामःऽ,ऽदिव उत्ऽ इति औकारादयो न संज्ञया विधीयन्ते इति हल एव स्थाने भवन्ति ॥