नडादिभ्यः फक्

4-1-99 नडादिभ्यः फक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् गोत्रे

Sampurna sutra

Up

'तस्य गोत्रे अपत्यम्' (इति) नडादिभ्यः फक्

Neelesh Sanskrit Brief

Up

गोत्रापत्यस्य निर्देशार्थम् नडादिगणस्य शब्देभ्यः फक्-प्रत्ययः भवति ।

Kashika

Up

नड इत्येवमादिभ्यः प्रातिपदिकेभ्यो गोत्रापत्ये फक् प्रत्ययो भवति। नाडायनः। चारायणः। गोत्र इत्येव — नाडिः। शलङ्कु शलङ्कं च (ग०सू० ६३) इत्यत्र पठ्यते। शालङ्कायनः। पैलादिषु २.४.५९ च शालङ्किशब्दः पठ्यते। शालङ्किः पिता। शालङ्किः पुत्रः। तत् कथम्? गोत्रविशेषे कौशिके फकं स्मरन्ति। इञेवान्यत्र शालङ्किरिति। अथवा पैलादिपाठ एव ज्ञापक इञो भावस्य॥ नड। चर। बक। मुञ्ज। इतिक। इतिश। उपक। लमक। शलङ्कु शलङ्कं च (ग०सू० ६३)। सप्तल। वाजप्य। तिक। अग्निशर्मन् वृषगणे (ग०सू०६४)। प्राण। नर। सायक। दास। मित्र। द्वीप। पिङ्गर। पिङ्गल। किङ्कर। किङ्कल। कातर। कातल। काश्य। काश्यप। काव्य। अज। अमुष्य। कृष्णरणौ ब्राह्मणवासिष्ठयोः (ग०सू० ६५)। अमित्र । लिगु । चित्र। कुमार। क्रोष्टु क्रोष्टञ्च (ग० सू० ६६)। लोह। दुर्ग। स्तम्भ। शिंशपा। अग्र। तृण। शकट। सुमनस्। सुमत। मिमत। ऋक्। जत्। युगन्धर। हंसक। दण्डिन्। हस्तिन्। पञ्चाल। चमसिन्। सुकृत्य। स्थिरक। ब्राह्मण। चटक। बदर। अश्वक। खरप। कामुक। ब्रह्मदत्त। उदुम्बर। शोण। अलोह। दण्ड॥

Siddhanta Kaumudi

Up

गोत्रे इत्येव । नाडायनः । चारायणः । अनन्तरो नाडिः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<नडादिभ्यः फक्>> - नडादिभ्यः फक् । इञोऽपवादः । अनन्तरो नाडिरिति । अनन्तरापत्यस्य गोत्रत्वाऽभावात्फगभावे इञेवेत्यर्थः ।

Padamanjari

Up

शलङ्कु शलङ्कं चेति । द्वे अपि प्रथमान्ते । शब्दरूपापेक्षया नपुंसकनिर्देशः ।'शलङ्कु' इत्येतच्छब्दरूपं शलङ्कं भवति, तद्रूपेण परिणमते इत्यर्थः । इञेवान्यत्रेति । बाह्वादेराकृतिगणत्वादिति भावः । अम्युपेत्यापि गोत्रमात्रे फको विधानम्, परिहारमाह - अथ वेति । इञो भावस्येति । शलङ्कभावापतेरप्युपलक्षणमेतत्, पूर्वत्र परिहारे तस्याः स एव पाठो ज्ञापको वेदितव्यः । अग्निशर्मन्वृषगण इति । अग्निशर्मन्शब्दः फकमुत्पादयति वृषगणे गोत्रे, आग्निशर्मायणो भवति वार्षगण्यश्चेद्, आग्निशर्मोऽन्यः । अमुष्येति पठ।ल्ते, तत्रादः शब्दे प्रातिपदिकमात्रे पठितव्ये विभक्त्यन्तस्य पाठादुत्पन्नेऽपि फकि लुग्न भवति । आमुष्यायणा, आमुष्यपुत्रिकेत्यलुग्विधावस्य ग्रहणं न कर्तव्यं भवति । कृष्णरणौ ब्राह्मणवासिष्ठयोरिति । कार्ष्णायनो भवति ब्राह्मणश्चेत्, कार्ष्णिरन्यः । राणायनो भवति वासिष्ठश्चेद्, राणिरन्यः । क्रोष्टुअ क्रोष्ट्ंअ चेति । क्रौष्टायनः ॥