6-3-43 घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्यः अनेकाचः ह्रस्वः उत्तरपदे पुंवत् न
घ रूप कल्प चेलट् ब्रुव गोत्र मत हत इत्येतेषु परतो भाषितपुंस्कात् परो यो ङीप्रत्ययस्तदन्तस्यानेकाचो ह्रस्वो भवति। घ — ब्राह्मणितरा। ब्राह्मणितमा। रूप — ब्राह्मणिरूपा। कल्प — ब्राह्मणिकल्पा। चेलट् — ब्राह्मणिचेली। ब्रुव — ब्राह्मणिब्रुवा। गोत्र — ब्राह्मणिगोत्रा। मत — ब्राह्मणिमता। हत — ब्राह्मणिहता। घरूपकल्पाः प्रत्ययाश्चेलडादीन्युत्तरपदानि। ब्रुव इति ब्रुवीतीति ब्रुवः पचाद्यचि वच्यादेशो गुणश्च निपातनाद् न भवति। ङ्य इति किम्? दत्तातरा। गुप्तातरा। अनेकाच इति किम्? <<नद्याः शेषस्यान्यतरस्याम्>> ६.३.४४ इति वक्ष्यति। भाषितपुंस्कादित्येव — आमलकीतरा। कुवलीतरा॥
भाषितपुंस्काद्यो ङी तदन्तस्यानेकाचो ह्रस्वः स्यात् घरूपकल्पप्रत्ययेषु परेषु चेलडादिषु चोत्तरपदेषु । ब्राह्मणितरा । ब्राह्मणितमा । ब्राह्मणिरूपा । ब्राह्मणिकल्पा । ब्राह्मणिचेली । ब्रह्मणिब्रुवा । ब्रह्मणिगोत्रेत्यादि । ब्रूञः पचाद्यचि वच्यादेशगुणयोरभावो निपात्यते । चेलडादीनि वृत्तिविषये कुत्सनवाचीनि । तैः कुत्सितानि कुत्सनैः <{SK732}> इति समासः । ङ्यः किम् । दत्तातरा । भाषितपुंस्कात्किम् । आमलकीतरा । कुवलीतरा ॥
<<घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः>> - अथ समासाश्रयविधिर्निरूप्यते — घरूप । 'उत्तरपदे' इत्यधिकृतं चेलडादिष्वन्वेति, नतु घरूपकल्पेषु , घशब्दवाच्यतरप्तमपोः रूपप्कल्पपोश्च प्रत्ययत्वात् । नच तदन्तग्रहणे सति तेषूत्तरपदत्वं संभवतीति वाच्यं,ह्मदयस्य हल्लेखे॑त्यत्र उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तग्रहणाऽभाव इति भाष्ये उक्तत्वात् ।स्त्रियाः पुंव॑दित्यतो भाषित पुंस्कादित्यनुत्तम् । ङ्य इतितदन्तग्रहणं, केवस्यानेकाच्त्वाऽभावात् । तदाह -भाषितपुंस्काद्यो ङीति । एतदर्तमेवस्त्रियाः पुंव॑दित्यत्र बाशितपुंस्कादिति पञ्चम्यन्तमुपात्तं ष तत्रभाषितपुंस्काद्यो ङीति । एतदर्थमेवस्त्रियाः पुंव॑दित्यत्र भाषितपुंस्कादिति पञ्चम्यन्तमुपात्तं । तत्रभाषितपुंस्काद्यो ङीति । एतदर्थमेवस्त्रियाः पुंव॑दित्यत्र भाषितपुंस्कादिति पञ्चम्यन्तमुपात्तं । तत्र 'भाषितपुंस्काया' इति षष्ठन्तोपादाने तु इह तदनुवत्तिर्न स्यात्, असंभवात् । नहि ङीप्प्रत्ययस्य तदन्तस्य भाषितपुंस्कत्वमस्ति । नच तत्रापि नार्थवत्स्यात्, अनूङिति पर्युदासात्स्त्रीप्रत्ययलाभेन तदन्तस्य भाषितपुंस्कत्वाऽभावादिति वाच्यम्, तत्र स्त्रिया॑इत्यस्वरितत्वात्स्त्रीप्रत्ययग्रहणं नेत्य#उक्तत्वात् । ब्राआहृणितरा ब्राआहृणितमेति । अतिशायने तरप्तमपौ । नचतसिलादिष्वि॑ति पुंवत्त्वेन ङीफो निवृत्तिः सङ्ख्याः,जातेश्चे॑ति निषेधात् । ब्राआहृणिरूपेतिप्रशंसायां रूपप् । ब्राआहृणिकल्पेति ।ईषदसमाप्तौ॑इति कल्पप् । ब्राआहृणिचेलीति । 'चिल वसने' तस्मादचि चेलडिति पचादौ पठितम् । टित्त्वान्ङीप् । इत्यादीति । ब्राआहृणिमता । ब्राआहृणिहता । ब्राऊञ इति । ब्राऊञ्धातोरचि कृतेब्राउवो वचि॑रिति वच्यादेशस्य लघूपधगुणस्य च अभावो निपात्यत इत्यर्थः । चेलडादीनीति । समासवृत्तिविषये चेलङ् ब्राउवगोत्रहता इत्युत्तरपदानि कुत्सनवाचीनीति कृत्वाकुत्सितानि कुत्सनै॑रिति कर्मधारय इत्यर्थः । आमलकोतरेति । आमलकीशब्दस्य वृक्षवाचित्वे नित्यस्त्रीलिङ्गत्वाद्भाशितपुंस्कत्वाऽभावेन न ह्रस्व इति भावः । ननुन पदान्ते॑ति सूत्रे भाष्ये बिम्बबदर्यामलकशब्दानां भाषितपुंस्कत्वावगमात्कथमामलकीशब्दस्य वृक्षविशेषे नित्यस्त्रीलिङ्गत्वमित्यरुचेराह — कुवलीतरेति । बृक्षनिषेशे नित्यस्त्रीलिङ्गोऽयमिति भावः । अमरस्तुकर्कन्धूर्बदरी कोली घोण्टा 'कुबलफनिले' इति नपुंसकत्वमाह ।