3-2-168 सनाशंसभिक्ष उः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु
सन् इति सन् प्रत्ययो गृह्यते, न सनिर्धातुः, अनभिधानाद् व्याप्तिन्यायाद् वा। सन्नन्तेभ्यो धातुभ्य आशंसेर्भिक्षेश्च तच्छीलादिषु कर्तृषु उः प्रत्ययो भवति। चिकीर्षुः। जिहीर्षुः। आशंसुः। भिक्षुः। <<आङः शसि इच्छायाम्>> इत्यस्य ग्रहणम्, न शंसेःस्तुत्यर्थस्य॥
चिकीर्षुः । आशंसुः । भिक्षुः ॥
चिकीर्षुः । आशंसुः । भिक्षुः ॥
<<सनाशंसभिक्ष उः>> - सनाशंस । सन्, आशंस, भिक्ष एषां त्रयाणां द्वन्द्वात्पञ्चम्येकवचनम् ।स॑निति सन्प्रत्ययान्तं गृह्रते ।षणु दाने॑, 'षण संभक्तौ' इत्यनयोस्तु न ग्रहणं , गर्गादिषु विजिगीषुशब्दापाठाल्लिङ्गात् । एभ्य उप्रत्ययः स्यात्तच्छीलादिष्वित्यर्थः । आशंसुरिति ।आङः शसि इच्छाया॑मित्यस्मादुः ।
सनाशंसभिक्ष उः॥ न सनिर्धातुरिति।'षणु दाने' 'वन षण संभक्तौ' इति च धातुर्न गृह्यते, कुतः? गर्गादिषु विजिगीषुशब्दस्य पाठात्। न शंसेः स्तुत्यर्थस्येति। एतदाङ सह निर्द्दशाद्विजायते - इच्छार्थो हि स तेन सह पठ।ल्ते, न स्तुत्यर्थः॥