सान्तमहतः संयोगस्य

6-4-10 सान्त महतः संयोगस्य न उपधायाः सर्वनामस्थाने असम्बुद्धौ

Sampurna sutra

Up

सान्तसंयोगस्य अङ्गस्य, महतः अङ्गस्य नः उपधायाः असम्बुद्धौ सर्वनामस्थाने दीर्घः

Neelesh Sanskrit Brief

Up

यस्मिन् शब्दे अन्ते नकार-सकार-संयोगः अस्ति, तस्य शब्दस्य, तथा महत्-शब्दस्य नकारस्य उपधास्वरस्य असम्बुद्धौ सर्वनामस्थानपरे दीर्घः भवति ।

Neelesh English Brief

Up

The स्वर preceding the नकार from (a) महत् and (b) any word that ends in न्स् - becomes दीर्घ in presence of प्रत्यय that is also a सर्वनामस्थान, other than सम्बोधन-एकवचन.

Kashika

Up

सकारान्तस्य संयोगस्य यो नकारः महतश्च तस्योपधाया दीर्घो भवति सर्वनामस्थाने परतोऽसंबुद्धौ। श्रेयान्, श्रेयांसौ, श्रेयांसः। श्रेयांसि। पयांसि। यशांसि। महतः खल्वपि — महान्, महान्तौ, महान्तः। असंबुद्धाविति किम्? हे श्रेयन्। हे महन्॥

Siddhanta Kaumudi

Up

सान्तसंयोगस्य महतश्च यो नकारस्तस्योपधाया दीर्घः स्यादसंबुद्धौ सर्वनामस्थाने परे । अजरांसि । अजराणि । अमि लुकोऽपवादमम्भावं बाधित्वा परत्वाज्जरस् । ततः संनिपातपरिभाषया न लुक् । अजरसम् । अजरम् । अजरसी । अजरे । अजरांसि । अजराणि । शेषं पुंवत् । पद्दन्न <{SK228}> इति हृदयोदकास्यानां हृद् उदन् आसन् । हृन्दि । हृदा । हृद्भ्यामित्यादि । उदानि । उद्गा । उदभ्यामित्यादि । आसानि । आस्ना । आसभ्यामित्यादि । मांसि । मांसा । मान्भ्यामित्यादि । वस्तुतस्तु प्रभृतिग्रहणं प्रकारार्थमित्युक्तम् । अत एव भाष्ये मांस्पचन्या उखाया इत्युदाहृतम् । अयस्मयादित्वेन भत्वात्संयोगान्तलोपो न । पद्दन्न <{SK228}> इत्यत्र हि छन्दसीत्यनुवर्तितं वृत्तौ तथापि अपोभि <{SK442}> इत्यत्र मासश्छन्दसीति वार्तिके छन्दोग्रहणसामर्थ्याल्लोकेऽपि क्वचिदिति कैयटोक्तरीत्या प्रयोगमनुसृत्य पदादयः प्रयोक्तव्या इति बोध्यम् ॥

Laghu Siddhanta Kaumudi

Up

सान्तसंयोगस्य महतश्च यो नकारस्तस्योपधाया दीर्घोऽसम्बुद्धौ सर्वनामस्थाने। महान्। महान्तौ। महान्तः। हे महन्। महद्भ्याम्॥

Neelesh Sanskrit Detailed

Up

असम्बुद्धिवाचके सर्वनामस्थानसंज्ञके प्रत्यये परे - (1) महत्-शब्दे विद्यमानस्य नकारस्य उपधायाः दीर्घः भवति । (2) 'न्स्' अयं संयोगः यस्य अन्ते दृश्यते, तस्य शब्दस्य 'संयोगे विद्यमानस्य नकारस्य' उपधायाः दीर्घः भवति । यथा - (1) महत्-शब्दस्य प्रथमाद्विवचनस्य प्रक्रिया - महत् + औ [प्रथमाद्विवचनस्य प्रत्ययः] → महन् त् + औ [<<उगिदचां सर्वनामस्थानेऽधातोः>> 7.1.70 इति नुमागमः] → महान् त् + औ [<<सान्तमहतः संयोगस्य>> 6.4.10 इत्यनेन नकारस्य उपधावर्णस्य दीर्घादेशः] → महान्तौ (2) पयस्-शब्दस्य प्रथमाबहुवचनस्य प्रक्रिया - पयस् + जस् [प्रथमाबहुवचनस्य प्रत्ययः] → पयस् + शि [<<जश्शसोः शि>> 7.1.20 इति शि-आदेशः । <<शि सर्वनामस्थानम्>> 1.1.42 इति सर्वनामस्थानसंज्ञा ।] → पयन्स् इ [शकारस्य इत्संज्ञा, लोपः । <<नपुंसकस्य झलचः>> 7.1.72 इति अङ्गस्य नुमागमः] → पयान्स् इ [<<सान्तमहतः संयोगस्य>> 6.4.10 इत्यनेन नकारस्य उपधावर्णस्य दीर्घादेशः] → पयांसि [<<नश्चापदान्तस्य झलि>> 8.3.24 इति नकारस्य अनुस्वारः] (3) ईयसुँन्-प्रत्ययान्तः 'गरीयस्' शब्दः - गरीयस् + सुँ → गरीय न् स् + स् [<<उगिदचां सर्वनामस्थानेऽधातोः>> 7.1.70 इति नुमागमः ] → गरीयान्स् + स् [<<सान्तमहतः संयोगस्य>> 6.4.10 इति उपधादीर्घः ।] → गरीयान्स् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> 6.1.68 इति सुँ-प्रत्ययस्य लोपः] → गरीयान् [<<संयोगान्तस्य लोपः>> 8.2.23 इति सकारलोपः] ज्ञातव्यम् - 1. सम्बोधनैकवचनस्य सुँ-प्रत्यये परे अयं दीर्घादेशः न भवति । यथा - हे महन् । 2. अनेन सूत्रेण निर्दिष्टः उपधादीर्घः धातोः विषये न भवति । यथा, 'सुहिन्स्' इदम् प्रातिपदिकम् 'सु + हिन्स् + क्विप्' एवम् सिद्ध्यति । <<क्विबन्ताः विजन्ताश्च प्रातिपदिकत्वं न जहति, धातुत्वमपि न मुञ्चन्ति>> अनेन सिद्धान्तेन 'सुहिंस्' इत्यत्र अन्ते विद्यमानः 'न्स्'अयं धातोः अवयवः अस्ति, अतः अस्य शब्दस्य विषये अयमुपधादीर्घः न विधीयते । यथा - सुहिन्स् + सुँ → सुहिन् । अत्र संयोगान्तलोपं कृत्वा रूपं सिद्ध्यति ।

Balamanorama

Up

<<सान्तमहतः संयोगस्य>> - सान्त महतः ।सर्वनामस्थाने चासंबुद्धौ इति, 'नोपधाया' इति चानुवर्तते ।ने॑ति लुप्तषष्ठीकं पदम् ।ढ्रलोपे पूर्वस्ये॑त्यतो 'दीर्घ' इत्यनुवर्तते । नकारस्य उपधाया दीर्घ इति लभ्यते ।संयोगस्ये॑त्यवयवषष्ठन्तं नकारेऽन्वेति ।सान्ते॑ति षष्ठन्तं पृथक्पदम् । आर्ष षष्ठआ लुक् । सान्तस्येति लभ्यते । तच्च संयोगेऽभेदेनान्वेति-सान्तो यः संयोग इति । अत एवाऽसामर्थ्यान्महच्छब्देन तस्य न समासः । 'महत' इत्यप्यवयवषष्ठन्तम् । तच्च नकारेऽन्वेति । तदाह-सान्त-संयोगस्येत्यादिना । अजरांसीति । दीर्घे सतिनश्चपदान्तस्ये॑त्यनुस्वारः । अत्र उपधाया इति पूर्वत्वमात्रोपलक्षणं, पारिभाषिकोपधात्वस्याऽसंभवात् । अथ द्वितीयैकवचने रूपं दर्शयितुमाह — अमि लुक इति । अजर अमिति स्थितेस्वमोर्नपुंसका॑दिति सुक् प्राप्तः, तं बाधित्वा तदपवादोऽतोमित्यम्भावः प्राप्तः, तं बाधित्वाविप्रतिषेधे पर॑मिति परत्वाज्जरस् । अजरसमिति । वस्तुस्थितिकथनमेतत् । ननु लुगपवादस्याऽम्भावस्य जरसादेशेन बाधितत्वात्अपवादे निषिध्दे पुनरुत्सर्गस्य स्थिति॑रिति न्यायेनाऽमो लुक्कुतो न स्यादित्यत आह — तत इति ।ततो न लु॑गित्यन्वयः । जरसादेशानन्तरममो लुङ्न भवतीत्यर्थः । कुत इत्यत आह — संनिपातेति । अम्संनिपातमाश्रित्य प्रवृत्तस्य जरसस्तल्लुकि निमित्तत्वाऽभावादिति भावः । शेषं पुंवत् । अजरसा-अजरेण । अजरसे-अजराय । अजरसः-अजरात् । अजरसः-अजरस्य । अजरसोःअजरयोः । अजरसि-अजरे । ह्मदयोदकास्यशब्दाः सुटि ज्ञानवत् । शसादौ विशेषमाह — पद्दन्निति । ह्मन्दीति । ह्मदयशब्दाच्छसः शिभावे ह्मदादेशे 'नपुंसकस्य झलचः' इति ऋकारात् परतो नुमिनश्चपदान्तस्ये॑त्यनुस्वारे तस्य परसवर्णे नकारे रूपम् । इत्यादीति । ह्मदे । ह्मदः । ह्मदः । ह्मदोः । ह्मदाम् । ह्मदि । ह्मदोः । ह्मत्सु । ह्मदभावपक्षे ज्ञानवत् । उदकशब्दः सुटि ज्ञानवत् । शसादौ विशेषमाह — उदानीति । शसः शिभावे उदन्नादेशेसर्वनामस्थाने चे॑ति दीर्घः । 'अल्लोपोऽन' इति तु न, शेः सर्वनामस्थानत्वात् । उद्नेति । उदक-आ इति स्थिते उदन्नादेशे अल्लोपः । उदभ्यामिति । उदन्नादेशेन लोपः प्रातिपदिकान्तस्ये॑ति नलोपः,स्वादिष्वसर्वनामस्थाने॑ इति पदत्वात् । इत्यादीति । उद्गे । उद्गः । उद्गः । उद्गोः । उदनि — उद्गि । उद्गोः । उदन्नभावपक्षे ज्ञानवत् । आस्यशब्दः सुटि ज्ञानवत् । शसादौ विशेषमाह — आसानीत्यादि । उदन्नादेशवद्रूपाणि । इत्यादीति । आस्ने । आस्नः । आस्नः । आस्नोः । आस्नि-आसनि । आस्नोः । आससु । आसन्न-भावपक्षे ज्ञानवत् । मांसशब्दोऽपि सुटि ज्ञानवत् ।मांसपृतनासानूना॑मिति शसादौ 'मांस' आदेशः । अत्र नकारस्यनश्चापदान्तस्ये॑ति कृतानुस्वारस्य निर्देशः । अत एवाह — मान्भ्यामिति । मांस्ादेशे सकारस्य संयोगान्तलोपे सति निमित्ताऽपायादनुस्वारनिवृत्तौ रूपम् । संयोगान्तलोपस्याऽसिद्धत्वान्न लोपो न । अथ सुठपि ह्मदाद्यादेशं साधयितुमाह — वस्तुतस्त्विति । इत्युक्तमिति । 'ककुद्दोषणी' इति भाष्यप्रयोगात्प्रभृतिग्रहणस्य प्रकारार्थत्वमजन्तपुंलिङ्गाधिकारे स्वयमुक्तमित्यर्थः । ननु प्रभृतिग्रहणस्य प्रकारार्थत्वेऽपि प्रत्ययत्वेन सादृश्यविवक्षायां प्रथमैकवचने ह्मदिति प्रयोगोऽनुपपन्नः, सोर्लुका लुप्तत्वेन प्रत्ययलक्षणस्याप्यभावात्, तदनित्यत्वाश्रयणे च मानाऽभावादित्यत आह-एत एवेति । मांस्पचन्या इति । पच्यते अस्यामुखायामिति पचनी । अधिकरणे ल्युट्, अनादेशः । टित्त्वात् ङीप् । मांसस्य पचनीति षष्ठीसमासः । अत्र ङसो लुका लुप्तत्वात्प्रत्ययलक्षणाऽभावे प्रत्ययपरत्वाऽभावात् मांसादेशो न स्यात् । अतो ह्मदाद्यादेशविधौन लुमते॑ति निषेधस्याऽनित्यत्वमाश्रीयत इत्यर्थः । ननु 'मांस्पचन्या' इत्यत्र अन्तर्वर्तिनं ङसं लुप्तमाश्रित्य मांसित्यस्यास्ति पदत्वम्,सुप्तिङ्न्त॑मिति पदसंज्ञायाः प्रकृतिप्रत्ययधर्मत्वेन केवलाङ्गधर्मत्वाऽभावेनाऽत्रन लुमते॑ति निषेधस्याऽप्रवृत्तेः । अन्यथा 'राजपुरुष' इत्यत्र कथं नलोपः । ततश्चात्र संयोगान्तलोपो दुर्वार इत्यत्र आह — भत्वात्संयोगान्तलोपो नेति । ननु यजादिस्वादिप्रत्यये परे विधीयमानाया भसंज्ञायाः केवलाङ्गधर्मत्वात्तत्र लुका लुप्ते प्रत्ययलक्षणनिषेधात्कथमिह भसंज्ञेत्यत आह — अयस्मयादित्वेनेति । मांसादेशस्याऽयस्मयादिगणपठितत्वात्अयस्मयादीनि छन्दसी॑नि भत्वमित्यर्थः । ततश्च वैदिकप्रक्रियायामेव तदुपन्यासो युज्यत इत्याक्षेपः । परिहरति — तथापीति । 'पद्दन्नो' इति सूत्रे छन्दोग्रहणानुवृत्तावपि लोकेऽपि क्वचिदित्यन्वयः । कुतो लोकेऽपि प्रयोग इत्यत आह — अपो भीत्यादीति ।अपो भी॑ति सूत्रम् । अपस्तकारः स्याद्भादौ प्रत्ययपरे इत्यर्थः । तत्रास्ति वार्तिकं — ॒मासश्छन्दसी॑ति । मासित्यस्य तकारः स्याद्भादिप्रत्यये परे छन्दसीति तदर्थः । ऋग्वेदे 'माद्भिः शरद्भिः' इत्यादिमन्त्रमुदाहरणम् । यदिपद्दन्नि॑ति छन्दोमात्रविषयं स्यात्तदा मासित्यादेशस्य छन्दोमात्रविषयत्वादलौकिकत्वान्मासश्छन्दसीति सस्य तकारविधौ छन्दौग्रहणं व्यर्थं स्यात् । अतो लोकेऽपि क्वचिदिति कैयटोक्तरीत्यापद्दन्नि॑त्यस्य लोकेऽपि प्रवृत्तिमनुमत्य पदाद्यादेशाः प्रयोक्तुं योग्या इत्यर्थः । इत्यदन्ताः ।

Padamanjari

Up

सकारेऽकार उच्चारणार्थः, सोऽन्तो यस्य स सान्तः । सान्तेति पृथक्पदं लुप्तषष्ठीकं संयोगस्य विशेषणम्, तद्विशिष्टसंयोगो नकारस्य विशेषणम्, महच्छब्दोऽपि तस्यैव विषेषण्, सर्वनामस्थाने इत्यनेनानुवृतेन सान्तः संयोगो महच्छब्दश्च विशेष्यते, तेन हंसः, हंसावित्यत्र दीर्घाभावः । महतश्चेति । यो नकार इत्यपेक्ष्यते । तस्येति नकारस्य, कः पुनर्नकारस्योपधायाश्च सम्बन्धः, यावता यस्मिन्समुदाये योऽन्त्यादलः पूर्वः स तं प्रत्युपधा सत्यम् इह तु गत्यभावात् सामीप्यलक्षणः सम्बन्धः, एनकारसमीपवर्तिन्यास्तमेव नकारान्तं समुदायं प्रत्युपधाया इत्यर्थः । कल्पसूत्रेषु च प्रौढोऽयं व्यवहारः तद्यथा - विसर्जनीयोऽनत्यक्षरोपधो रिषित इति । श्रेयानिति । प्रशस्यस्य श्रः , उगिदचाम् इति नुम् । श्रेयांसीति । जश्शसोः शिः, नपुंकस्य झलचः इति नुम् । महानिति । बृहन्महच्छतृवच्चेति वचनाद् उगिदचाम् इति नुम् ॥