तरप्तमपौ घः

1-1-22 तरप्तमपौ घः

Sampurna sutra

Up

index: 1.1.22 sutra: तरप्तमपौ घः


तरप्-तमपौ घः

Neelesh Sanskrit Brief

Up

index: 1.1.22 sutra: तरप्तमपौ घः


'तरप्' तथा 'तमप्' एतौ प्रत्ययौ घसंज्ञकौ भवतः ।

Neelesh English Brief

Up

index: 1.1.22 sutra: तरप्तमपौ घः


The तरप् प्रत्यय and the तमप् प्रत्यय are known as 'घ'

Kashika

Up

index: 1.1.22 sutra: तरप्तमपौ घः


तरप् तमप् - इत्येतौ प्रत्ययौ घसंज्ञौ भवतः । कुमारितरा, कुमारितमा ; ब्राह्मणितरा, ब्राह्मणितमा । घप्रदेशाः घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः 6.3.43 इत्येवमादयः ॥

Siddhanta Kaumudi

Up

index: 1.1.22 sutra: तरप्तमपौ घः


एतौ घसंज्ञौ स्तः ॥

Laghu Siddhanta Kaumudi

Up

index: 1.1.22 sutra: तरप्तमपौ घः


एतौ घसंज्ञौ स्तः॥

Neelesh Sanskrit Detailed

Up

index: 1.1.22 sutra: तरप्तमपौ घः


व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'घ' इति संज्ञा । 'तरप्' तथा 'तमप्' एतयोः प्रत्यययोः 'घ' इति संज्ञा अनेन सूत्रेण दीयते ।

तरप् तथा तमप् एतौ द्वौ तद्धितप्रत्ययौ । द्विवचनविभज्योपपदे तरबीयसुनौ 5.3.57 अनेन तरप्-प्रत्ययः, तथा अतिशायने तमबिष्ठनौ 5.3.55 इत्यनेन तमप्-प्रत्ययः विधीयते । एतौ द्वावपि प्रत्ययौ प्रातिपदिकेभ्यः विधीयेते । 'पटुतर', 'विशालतर', 'पचतितराम्', 'किन्तराम्' एतानि तरप्-प्रत्ययस्य उदाहरणानि । 'पटुतम', 'विशालतम', 'पचतितमाम्', 'किन्तमाम्' एतानि तमप्-प्रत्ययस्य उदाहरणानि ।

प्रयोजनम्

घसंज्ञायाः प्रयोगं कृत्वा अष्टाध्याय्यां कानिचन कार्याणि उक्तानि सन्ति । यथा, उगितश्च 6.3.45 इत्यनेन उगित्-शब्दात् विहितस्य 'ङीप्' इति स्त्रीप्रत्ययस्य घ-प्रत्यये परे विकल्पेन ह्रस्वः भवति -

श्रेयस् + ङीप् + तरप् + टाप् [उगितश्च 4.1.6 इति ङीप् । द्विवचनविभज्योपपदे तरबीयसुनौ 5.3.57 इति तरप् । अजाद्यतष्टाप् 4.1.4 इति टाप् ।]

--> श्रेयस् + ई + तर् + आ [इत्संज्ञालोपः]

--> श्रेयस् + इ + तर् + आ [उगितश्च 6.3.45 इति घसंज्ञके प्रत्यये परे ह्रस्वः]

--> श्रेयसितरा ।

प्रयोगः

'घ'संज्ञायाः प्रयोगः अष्टाध्याय्याम् त्रिषु सूत्रेषु कृतः दृश्यते -

  1. किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे 5.4.11

  2. घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः 6.3.43

  3. नाद्घस्य 8.2.17

अन्यत्रापि अनुवृत्तिरूपेण अस्याः संज्ञायाः प्रयोगः भवितुम् अर्हति ।

Balamanorama

Up

index: 1.1.22 sutra: तरप्तमपौ घः


तरप्तमपौ घः - तरप्तमपौ घः । प्रथमस्य प्रथमपादे सूत्रमिदम् । आतिशायनिकप्रत्ययप्रकरणान्ते, 'पितौ घः' तादी घः इति वा वक्तव्ये प्रकरणान्तरे पृथग्गुरुसूत्रकरणमत्यन्तस्वार्थिकमपि तरपं ज्ञापयति । तस्य आतिशायनिकप्रकरणबहुर्भूतस्य सत्त्वे तत्संग्रहणार्थं प्रकरणान्तरे सूत्रकरणस्यावश्यकत्वादित्याहुः । तेन 'अल्पाच्तरं' 'लोपस्च बलवत्तरः' इत्यादि सिद्धम् । किमेत्तिङव्यय । 'आमु' इति छेदः । उकार उच्चारणार्थः । किम्, एते, तिङ्, अव्यय — एषां चतुर्णां द्वन्द्वः ।किमेत्तिङव्ययप्रकृतिको घः॑ इति मध्यमपदलोपी समासः । फलितमाह — किम एदन्तादित्यादिना । एभ्य इत्यर्थः । किन्तमामिति अत्यन्तस्वार्थिकोऽयं तमप्, नत्वतिशायने । एषामतिशयेनाढ इतिवदेषामतिशयेन क इति विग्रहस्याऽसंभवात् । जातिगुणक्रियासंज्ञाभि समुदायादेकदेशस्य पृथक्करणं हि निर्धारणम् । प्राह्णे तमामिति । प्राह्ण=पूर्वाह्णः ।प्राह्णाऽपराह्णमध्याह्नाः त्रिसन्ध्य॑मित्यमरः । अतिशयिते पूर्वाह्णे इत्यर्थः । पूर्वावयवगतप्रकर्षादह्नः प्रकर्षो बोध्यः । अत्र अहर्न द्रव्यम्, सूर्योदयादारभ्य सूत्रास्तमयावधिकस्यैव कालस्य अहन्शब्दार्थत्वात् । तस्य च उदयादिक्रियाघटितत्वान्न द्रव्यत्वमिति भावः । पचतितमामिति । अतिशयिनता पाकक्रियेत्यर्थः, तिङन्तेषु क्रियाविशेष्यकबोधस्यैवप्रशंसायां रूप॑विति सूत्रभाष्ये प्रपञ्चितत्वात् । अतोऽत्र क्रियाया एवन प्रकर्षो नतु द्रव्यस्येति भावः । उच्चैस्तमामिति ।आशंसती॑त्यध्याहार्यम् । अतिशयेन उच्चैराशंशनादिक्रियेत्यर्थः । अत्रापि क्रियाया एव प्रकर्षो न तु द्रव्यस्य । उच्चैस्तमस्तरुरिति । अतिशेन उच्चैस्तरुरित्यर्थः । अत्र उच्चैस्त्वप्रकर्षस्य तरौ द्रव्ये भानादाभ्यनेत्यर्थः ।किंतमा॑मित्यादौयस्येति चे॑ति लोपं परत्वाद्बाधित्वा ह्रस्वान्तलक्षणनुटो निवृत्त्यर्थमामु इत्युकारोच्चारणम् । सति तु तस्मिन्निरनुबन्धकग्रहणे न सानुबन्धकस्ये॑ति परिभाषया नुड्विधावस्य न ग्रहणमित्यादि 'आमि सर्वनाम्नः' इति सूत्रभाष्ये प्रपञ्चितम् ।

Padamanjari

Up

index: 1.1.22 sutra: तरप्तमपौ घः


तरतेः 'ऋदोप्' इत्यपि गुणे भूतपूर्वेण पकारेण यद्यपि तरबिति रूपं भवति, तथापि तमपा साहचर्यात् प्रत्ययस्यैव ग्रहणमित्याह - तरपतपौ प्रत्ययाविति । तेन नद्यास्तरो नदीतर इति ह्रस्वो न भवति । अथ वा तरबिति रूपाश्रय संज्ञा, रूपनिर्ग्रहश्च प्रयोगे उपदेशे वा । तत्र न क्वचित्प्रयोगे तरबिति रूपमस्तीत्युपदेशगतं गृह्यते । न चात्रौपदेशिकं तरब्रूपमस्ति, सत्यामपि वा घसंज्ञायां न दोषः, ह्रस्वत्वं हि समानाधिकरणे स्त्रीलिङ्गे विधीयते । आतिशायनिकप्रकरण एव तादी घः, पितौ घ इति वा कर्तव्ये प्रकरणोत्कर्षेण संज्ञाकरणमन्योऽपि तरबस्तीति सूचनार्थम्, तेन 'अल्पाच्तरम्' 'लोपश्च बलवतरः' इत्यादौ स्वार्थे तरप् सिद्धो भवति ॥