अतो दीर्घो यञि

7-3-101 अतः दीर्घः यञि सार्वधातुके

Sampurna sutra

Up

अतः अङ्गस्य सार्वधातुके यञि दीर्घः

Neelesh Sanskrit Brief

Up

यञादि-सार्वधातुके प्रत्यये परे अदन्तस्य अङ्गस्य अन्तिमवर्णस्य दीर्घादेशः भवति ।

Neelesh English Brief

Up

The last letter of an अदन्त अङ्ग becomes दीर्घ when followed by a यञादि सार्वधातुक प्रत्यय.

Kashika

Up

अकारान्तस्याङ्गस्य दीर्घो भवति यञादौ सार्वधातुके परतः। पचामि, पचावः, पचामः। पक्ष्यामि, पक्ष्यावः, पक्ष्यामः। अत इति किम् ? चिनुवः। चिनुमः। यञीति किम्? पचतः। पचथः। सार्वधातुक इत्येव — अङ्गना। केशवः। केचिदत्र तिङीत्यनुवर्तयन्ति, तेषां भववानिति क्वसौ सार्वधतातुके दीर्घो न भवति॥

Siddhanta Kaumudi

Up

अतोऽङ्गस्य दीर्घः स्याद् यञादौ सार्वधातुके परे । भवामि । भवावः । भवामः । स भवति । तौ भवतः । ते भवन्ति । त्वं भवसि । युवां भवथः । यूयं भवथ । अहं भवामि । आवां भवावः । वयं भवामः । एहि मन्ये ओदनं भोक्ष्यसे इति भुक्तः सोऽतिथिभिः । एतमेत वा मन्ये ओदनं भोक्ष्येथे । भोक्ष्यध्वे । भोक्ष्ये । भोक्ष्यावहे । भोक्ष्यामहे । मन्यसे । मन्येथे । मन्यध्वे । इत्यादिरर्थः । युष्मद्युपपदे <{SK2162}> इत्याद्यनुवर्तते । तेनेह न । एतु भवान्मन्यते ओदनं भोक्ष्ये इति भुक्तः सोऽतिथिभिः । प्रहासे किम् । यथार्थकथने माभूत् । एहि मन्यसे ओदनं भोक्ष्ये इति भुक्तः सोऽतिथिभिरित्यादि ॥

Laghu Siddhanta Kaumudi

Up

अतोऽङ्गस्य दीर्घो यञादौ सार्वधातुके। भवामि। भवावः। भवामः। स भवति। तौ भवतः। ते भवन्ति। त्वं भवसि। युवां भवथः। यूयं भवथ। अहं भवामि। आवां भवावः। वयं भवामः॥

Neelesh Sanskrit Detailed

Up

<<तिङ्शित् सार्वधातुकम्>> 3.4.113 इत्यनेन तिङ्-प्रत्ययाः तथा शित्-प्रत्ययाः सार्वधातुकसंज्ञां प्राप्नुवन्ति । एतादृशस्य सार्वधातुकप्रत्ययस्य प्रथमवर्णः यदि य् / व् / र् / ल् / ञ् / म् / ङ् / ण् / न् / झ् / भ् अस्ति, तर्हि अदन्तस्य अङ्गस्य अन्तिमवर्णस्य दीर्घादेशः भवति । यथा - पठ् धातोः लट्-लकारस्य उत्तमपुरुषैकवचनस्य रूपसिद्धौ 'पठ् + शप् + मिप्' इत्यत्र 'मिप्' अयम् मकारादि सार्वधातुकप्रत्ययः अस्ति । अतः अस्य उपस्थितौ अस्य प्रत्ययस्य यद् अङगम् - 'पठ् + शप्' ( = पठ् + अ) तस्य अन्तिमवर्णस्य दीर्घादेशः भवति । अतः 'पठामि' इति अन्तिमरूपम् जायते । तथैव पठावः, पठामः, अपठाव, अपठाम, पठिष्यामि आदिषु रूपेषु अपि दीर्घः अनेन सूत्रेण विधीयते ।

Balamanorama

Up

<<अतो दीर्घो यञि>> - उत्तमपुरुषैकवचनेऽपि शपि गुणे अवादेशे भव-मि इति स्थिते -अतो दीर्घो यञि ।अङ्गस्ये॑त्यधिकृतमता विशेष्यते । तदन्तविधिः । 'तुरुस्तुशम्यम' इत्यतः सार्वधातुक इत्यनुवृत्तं यञा विशेष्यते । तदादिविधिः । तदाह — अदन्तस्येत्यादिना । भवामीति । न च भूधातोर्विहितलादेशं प्रति भूधातुरेवाऽङ्गं , न तु भवेति विकरणान्तमिति वाच्यं,यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्ग॑मित्यत्र तदादिग्रहणेन विकरणविशिष्टस्यापि अङ्गत्वात् । भवावः भवाम इति । लस्य वसि मसि च शपि गुणेऽवादेशे अतोदीर्घे रुत्वे विसर्गे च रूपे । 'न विभक्ता' विति सस्य नेत्त्वम् । अथ प्रथममध्यमोत्तमपुरुषव्यवस्थामुक्तां स्मारयितुमाह — स भवतीत्यादि ।अथ प्रहासे चे॑ति सूत्रस्योदाहरति — एहीति । सर्वेषु भुक्तवत्सु भोक्तुमागतं जामातरं प्रति परिहासाय प्रवृत्तमिदं वाक्यम् । भो जामातः ! एहि = आगच्छ, 'ओदनं भोक्ष्ये' इति त्वं मन्यसे, नैतद्युक्तमित्यर्थः । कुतैत्यत आह — भुक्तः सोऽतिथिभिरिति । स ओदनोऽतिथिभिर्भिक्षित इत्यर्थः । अत्र भुजेरुत्तमपुरुषे प्राप्ते मध्यमः पुरुषः । मन्येतस्तु मध्यमपुरुषे प्राप्ते उत्तमः पुरुषः । #एतम् एत चेति । हे जामातरौ ! आगच्छतम्, 'ओदनं भोक्ष्यावह#ए' इति मन्येथे इति, भो जामातरः ! 'ओदनं भोक्ष्यामहे' इति मन्यध्वे इति चार्थः । अत्रोभयत्रापि भुजेरुत्तमे प्राप्ते मध्यमः । मन्यतेस्तु मध्यमे प्राप्ते उत्तमः, द्वित्वबहुत्वयोरेकवचनं व्याचष्टे — मन्यस इत्यादिना । अनुवर्तत इति ।प्रहासे चेति सूत्रे॑ इति शेषः । एतु भवानिति । युष्मद्भवतोः पर्यायत्वाऽभावस्यानुपदमेवोक्तत्वादिति भावः । इति लट्प्रक्रिया ।

Padamanjari

Up

केचिदत्र तिङ्त्यिनुवर्तयन्तीति ।'भूसुवोस्तिङ्' इत्यितः । भववानिति । भवतेः क्वसुः, तस्य'च्छन्दस्युभयथा' इति सार्वधातुकत्वाच्छप्,'लिटि धातो' इत्यत्र धातुग्रहणाच्छबन्तस्य द्विर्वचनाभावः । ये तु'सार्वधातुके' इत्येवानुवर्तयन्ति, तेषां छान्दसत्वाद्दीर्घाभावः । अथ प्रकृतोऽडागम एव कस्मान्न विधीयते - ठतो यञिऽ इति, अकारान्तादङ्गादुतरस्य यञादेस्तिङेऽडागमो भवति, पच अवस्, सवर्णदीर्गत्वे पचाव इति सिद्धण्, विधानसामर्थ्याच्च ठतो गुणेऽ इति पररूपत्वं न भविष्यति ? नैवं शक्यम्; इह ह्यधुक्षावहि, अधुक्षामहीति'क्सस्याचि' इति लोपः प्रसज्येत । इह चातिजराभ्यामिति जरस्भावः । एवमपि दीर्घग्रहणमनर्थकम्, आदित्याकार एव विधेयः ? इह तर्हि प्रयोजनम् - अपाक्षी रोदनं देव दतः । ननु पचामि भोरित्यत्रापि ठनन्त्यस्यापि प्रश्नाख्यानयोःऽ इति प्लुतः प्राप्नोति ? स मा भूद्दीर्घ एव यथा स्यादिति दीर्घग्रहणम् । अत इति तपरकरणमुतरार्थम्,'बहुवचने झल्येत्' इत्येत्वं खट्वाभिरित्यत्र मा भूत् ॥