अत इञ्

4-1-95 अतः इञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम्

Sampurna sutra

Up

'तस्य अपत्यम्' (इति) अतः इञ् प्रत्ययः

Neelesh Sanskrit Brief

Up

'तस्यापत्यम्' अस्मिन् अर्थे अदन्तेभ्यः प्रातिपदिकेभ्यः इञ्-प्रत्ययः भवति ।

Neelesh English Brief

Up

To indicate the meaning of 'his/her offspring', an अदन्त word in the षष्ठी विभक्ति gets the 'इञ्' प्रत्यय.

Kashika

Up

तस्यापत्यमित्येव। अकारान्तात् प्रातिपदिकादिञ् प्रत्ययो भवति। अणोऽपवादः। दक्षस्यापत्यं दाक्षिः। तपरकरणं किम्? शुभंयाः, कीलालपा इत्यतो मा भूत्। कथं <<प्रदीयतां दाशरथाय मैथिली>> (वा०रा० युद्ध० ९.२२)? शेषविवक्षया भविष्यति॥

Siddhanta Kaumudi

Up

अदन्तं यत्प्रातिपदिकं तत्प्रकृतिकात्षष्ठ्यन्तादिञ्स्यादपत्येऽर्थे । दाक्षिः ॥

Laghu Siddhanta Kaumudi

Up

अपत्येऽर्थे। दाक्षिः॥

Neelesh Sanskrit Detailed

Up

<<प्राग्दीव्यतः अण्>> 4.1.83 इत्यनेन सर्वेषु प्राग्दीव्यतीय-अर्थेषु औत्सर्गिकरूपेण अण्-प्रत्ययः भवति । तस्य अपवादत्वेन <<तस्य अपत्यम्>> 4.1.92 अस्मिन् अर्थे अदन्त-प्रातिपदिकात् इञ्-प्रत्ययः भवति । यथा, दक्षस्य अपत्यम् पुमान् इत्यत्र - दक्षस्य + इञ् → दक्ष + इञ् [<<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति ङस्-प्रत्ययस्य लुक्] → दाक्ष + इ [<<तद्धितेष्वचामादेः>> 7.2.117 इत्यनेन अङ्गस्य आदिस्वरस्य वृद्धिः] → दाक्ष् + इ [<<यस्येति च>> 6.4.148 इति अकारलोपः] → दाक्षि एवमेव - 1. दशरथस्य अपत्यम् = दाशरथिः । 2. गर्गस्य अपत्यम् = गार्गिः । 3. सोमदत्तस्य अपत्यम् = सौमदत्तिः । अत्र एकम् वार्तिकम् ज्ञातव्यम् - <! सम्बन्धिशब्दानाम् च तत्सदृशात् प्रतिषेधः!> । इत्युक्ते, ये अदन्ताः शब्दाः 'सम्बन्धवाचकाः' सन्ति - यथा - मातुल, श्वशुर - आदयः - तेषाम् विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा, 'श्वशुरस्य अपत्यम्' इत्यत्र <<राजश्वशुरात् यत्>> 4.1.137 इत्यनेन 'यत्' प्रत्ययं कृत्वा 'श्वशुर्य' इति रूपं सिद्ध्यति । परन्तु यदि 'श्वशुर' नाम कश्चन युवकः अस्ति, तर्हि तस्य अपत्यार्थम् वर्तमानसूत्रस्य प्रयोगं कृत्वा इञ्-प्रत्ययः एव भवति । यथा - श्वशुरनाम्नः युवकस्य अपत्यं पुमान् = श्वाशुरिः । ज्ञातव्यम् - 1. 'इञ्' अस्मिन् प्रत्यये ञकारस्य प्रयोजनद्वयम् - <<तद्धितेष्वचामादेः>> 7.2.117 इत्यनेन अङ्गस्य आदिस्वरस्य वृद्धिः भवति, तथा <<ञ्नित्यादिर्नित्यम्>> 6.1.197 इत्यनेन समुदायस्य आदिस्वरः उदात्तः भवति । 2. अस्मिन् सूत्रे 'अतः' इति तपरकरणम् कृतमस्ति, अतः ह्रस्व-अकारान्त-शब्दस्य विषये एव अस्य सूत्रस्य प्रसक्तिः अस्ति । 3. रामायणे सुन्दरकाण्डे 'प्रदीयताम् दाशरथाय मैथिली' इति वाक्यं बहुवारं दृश्यते । अत्र 'दाशरथ' इति शब्दः दशरथ-शब्दात् अण्-प्रत्यये कृते सिद्ध्यति । वस्तुतः <<तस्यापत्यम्>> 4.1.92 इत्यस्मिन् अर्थे दशरथ-शब्दात् अपत्यार्थे 'इञ्' प्रत्ययः भवति । तर्हि अत्र अण्-प्रत्ययः कथम् कृतः? अस्य स्पष्टीकरणम् काशिकायां दीयते - 'कथं प्रदीयतां दाशरथाय मैथिली? शेषविवक्षया भविष्यति' । इत्युक्ते, 'दाशरथ' इति शब्दः <<तस्येदम्>> 4.3.120 अस्मिन् अर्थे 'दशरथ' शब्दात् अण्-प्रत्ययं कृत्वा सिद्ध्यति । 4. <<शिवादिभ्यः अण्>> 4.1.112 एतत् सूत्रम् वर्तमानसूत्रस्य अपवादरूपेण विधीयते । अनेन अपवादेन शिवादिगणे उपस्थितानां शब्दानामपत्यार्थे अण्-प्रत्ययः एव विधीयते, न अन्यत् ।

Balamanorama

Up

<<अत इञ्>> - अत इञ् । प्रातिपदिकादित्यधिकृतमता विशेष्यते, तदन्तविधिः । तदाह — अदन्तं यत्प्रातिपदिकमिति ।तस्यापत्य॑मित्यनुवृत्तंसमर्थानां प्रथमाद्वे॑ति च । ततश्च प्रथमोच्चारिततच्छब्दबोधितात्प्रातिपदिकादिति लब्धं । सुबन्तात्द्धितोत्पत्तिरिति सिद्धान्तात्सुबन्तादिति लभ्यते । सुप्चेहोपस्थितत्वात्षष्ठएव विवक्षिता । तथा च षष्ठन्तात्प्रातिपदिकादिति लभ्यते । यद्यपि प्रातिपदिकं न षष्ठन्तं, प्रत्ययग्रहणपरिभाषया प्रकृतिप्रत्ययसमुदायस्यैव लाभात् । तथापि प्रातिपदिकप्रकृतिषष्ठन्तादित्यर्थो विवक्षितः । तदाह — तत्प्रकृतिकात्षष्ठन्तादिति । दाक्षिरिति । दक्षस्यापत्यमिति विग्रहः । इञ् । आदिवृद्धिः,यस्येति चे॑त्यकारलोपः ।प्रदीयतां दाशरथाय मैथिली॑ति त्वार्षमितितस्यापत्य॑मित्यत्र निरूपितम् । प्रातिपदिकग्रहणाऽननुवृत्तौ त्वदन्तात्षष्ठन्तादिति लभ्येत । तथा च दक्षयोरपत्यं दाक्षिरिति न सिध्येदिति भावः ।

Padamanjari

Up

अकारान्तात्प्रातिपदिकादिति । ठत सातत्यगमनेऽ इत्यस्य वाऽच्छब्दान्तानां वा कुर्वदादीनां ग्रहणं न भवति, यदि स्याच्छिवादिषु येषामस्येञो बाधनार्थः पाठः, शिवप्रोष्ठप्रौष्ठिकप्रभृतीनां तेषां पाठोऽनर्थकः स्यात् । व्यपदेशिवद्भावादिहापि भवति - अस्यापत्यमिरिति, यस्येति लोपे प्रत्ययमात्रस्य श्रवणम् । इह तु - एरपत्यमस्य युव्रेति,'यञिञोश्च' इति फकि यस्येतिलोपं बाधित्वा परत्वादादिवृद्धौ कृतायाम् - आयायन इति भवति ॥