4-1-97 सुधातुः अकङ् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् इञ्
index: 4.1.97 sutra: सुधातुरकङ् च
'तस्य अपत्यम्' (इति) सुधातुः अकङ् (आदेशः), इञ् प्रत्ययः च ।
index: 4.1.97 sutra: सुधातुरकङ् च
'तस्य अपत्यम्ः अस्मिन् अर्थे सुधातृ-शब्दात् इञ्-प्रत्ययः भवति, तथा सुधातृ-शब्दस्य अकङ्-आदेशः अपि भवति ।
index: 4.1.97 sutra: सुधातुरकङ् च
To indicate the meaning of 'his/her offspring', the word सुधातृ gets the इञ् प्रत्यय and also the word gets the अकङ् आदेश.
index: 4.1.97 sutra: सुधातुरकङ् च
सुधातृशब्दादपत्ये इञ् प्रत्ययो भवति, तत्संनियोगेन च तस्य अकङदेशो भवति। सुधातुरपत्यम् सौधातकिः। व्यासवरुडनिषादचण्डालबिम्बानाम् इति वक्तव्यम्। वैयासकिः। बारुडकिः। नैषादकिः। चाण्डालकिः। बैम्बकिः।
index: 4.1.97 sutra: सुधातुरकङ् च
चादिञ् । सुधातुरपत्यं सौधातकिः ।<!व्यासवरुडनिषादचण्डालबिम्बानां चेति वक्तव्यम् !> (वार्तिकम्) ॥
index: 4.1.97 sutra: सुधातुरकङ् च
प्राग्दीव्यतः अण् 4.1.83 इत्यनेन सर्वेषु प्राग्दीव्यतीय-अर्थेषु औत्सर्गिकरूपेण अण्-प्रत्ययः भवति । तस्य अपवादत्वेन तस्य अपत्यम् 4.1.92 अस्मिन् अर्थे षष्ठीसमर्थ-'सुधातृ'-शब्दात् इञ्-प्रत्ययः भवति, तथा च सुधातृ-शब्दस्य अकङ्-आदेशः अपि भवति । यथा -
सुधातुः + इञ्
→ सुधातृ + इञ् [सुपो धातुप्रातिपदिकयोः 2.4.71 इति लुक्]
→ सुधात् अक् + इञ् [सुधातुरकङ् च 4.1.97 इति सुधातृ-शब्दस्य अकङ्-आदेशः । ङित्वात् ङिच्च 1.1.53 इति अन्त्यादेशः]
→ सौधातक् + इ [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]
→ सौधातकि
अत्र एकम् वार्त्तिकम् ज्ञातव्यम् - <!व्यास-वरुड-निषाद-चण्डाल-बिम्बानां चेति वक्तव्यम्!> । इत्युक्ते, व्यास, वरुड, निषाद, चण्डाल, तथा बिम्ब - एतेषाम् शब्दानामपि अपत्यार्थे इञ्-प्रत्ययः तथा अकङ्-आदेशः भवति । यथा -
1) व्यास + इञ्
→ व्यास् + अकङ् + इञ् [ व्यास-शब्दस्य अकङ्-आदेशः । ङित्वात् ङिच्च 1.1.53 इति अन्त्यादेशः]
→ वै यास् + अकङ् + इ [न य्वाभ्यां पदान्ताभ्याम् पूर्वौ तु ताभ्यामैच् 7.3.3 इति यकारात् पूर्वम् ऐकारस्य आगमः]
→ वैयासकि
2) वरुड + इञ् → वारुडकि
3) निषाद + इञ् → नैषादकि
4) चण्डाल + इञ् → चाण्डालकि
5) बिम्ब + इञ् → बैम्बकि
index: 4.1.97 sutra: सुधातुरकङ् च
व्यासरुडेत्यादि । वेदं व्यस्यतीति देवव्यासः,'करण्यण्' , तस्यैकदेशप्रयोगः - व्यास इति, भीमसेनो भीम इतिवत् । वरुडादयो जातिविशेषाः । ततर्हि वक्तव्यम् ? न वक्तव्यम् ; प्रकृत्यन्तराण्येवैतानि स्वार्थिककन्प्रत्ययन्तानि, अव्यविकन्यायेन च कन्, न हि तैर्वाक्यमेव भवति । व्यासशब्दादृषिवाचिनोऽपि बाह्वादेराकृतिगणत्वादिञ् भवति ॥