उपसर्गादृति धातौ
6-1-91 उपसर्गात् ऋति धातौ संहितायाम् अचि एकः पूर्वपरयोः आद् वृद्धिः
Sampurna sutra
Up
आत् उपसर्गात् ऋति धातौ पूर्वपरयोः एकः वृद्धिः
Neelesh Sanskrit Brief
Up
अवर्णान्तात् उपसर्गात् ऋकारादौ धातुरूपे परे पूर्वपरयोः एकः वृद्धि-एकादेशः भवति ।
Neelesh English Brief
Up
When an अवर्णान्त उपसर्ग is followed by a ऋकारादि verb form, both of them are replaced by a single वृद्धि letter.
Kashika
Up
आदित्येव। अवर्णान्तादुपसर्गादृकारादौ धातौ परतः पूर्वपरयोः स्थाने वृद्धिरेकादेशो भवति। आद्गुणापवादः। उपार्च्छति। प्रार्च्छति। उपार्ध्नोति। उपसर्गादिति किम् ? खट्वर्च्छति। मालर्च्छति। प्रगता ऋच्छका अस्माद् देशात् प्रर्च्छको देशः। <<यत्क्रियायुक्त ाः प्रादयस्तं प्रति गत्युपसर्गसंज्ञकाः>> (महाभाष्य १.७५) इति। ऋतीति किम् ? उप इत उपेतः। तपरकरणं किम् ? उप ॠकारीयति उपर्कारीयति। <<वा सुप्यापिशलेः>> ६.१.९२ इति विकल्पः स्यात्। उपसर्गग्रहणादेव धातुग्रहणे सिद्धे धातुग्रहणं शाकलनिवृत्त्यर्थम्। <<ऋत्यकः>> ६.१.१२८ इति हि शाकल्यस्य प्रकृतिभावः प्राप्नोति॥
Siddhanta Kaumudi
Up
अवर्णान्तादुपसर्गादृकारादौ धातौ परे वृद्धिरेकादेशः स्यात् । उपार्च्छति । प्रार्च्छति ॥
Laghu Siddhanta Kaumudi
Up
अवर्णान्तादुपसर्गादृकारादौ धातौ परे वृद्धिरेकादेशः स्यात्। प्रार्च्छति॥
Neelesh Sanskrit Detailed
Up
अवर्णान्त-उपसर्गात् ऋकारादौ धातुरूपे परे पूर्वपरयोः <<आद्गुणः>> 6.1.87 इत्यनेन गुणैकादेशे प्राप्ते तं बाधित्वा प्रकृतसूत्रेण 'आर्' इति वृद्ध्येकादेशः विधीयते । उदाहरणानि एतानि —
1. प्र + ऋच्छति → प्रार्च्छति । अत्र ऋच्छति इति ऋच्छँ (<{6.16}>) धातोः लट्लकारस्य एकवचनस्य रूपम् ।
2. परा + ऋणाति → परार्णाति । अत्र ऋणाति इति ॠ (<{9.32}>) धातोः लट्लकारस्य एकवचनस्य रूपम् अस्ति ।
3. अप + ऋध्नोति → अपार्ध्नोति । अत्र ऋध्नोति इति ऋध् (<{5.27}>) धातोः लट्लकारस्य एकवचनस्य रूपम् ।
4. अव + ऋणोति → अवार्णोति । अत्र ॠणोति इति ॠण् (<{8.5}>) धातोः लट्लकारस्य एकवचनस्य रूपम् ।
5. आ + ऋतीयते → आर्तीयते । अत्र ऋतीयते इति ऋति (<{1.1166}>) धातोः लट्लकारस्य एकवचनस्य रूपम् ।
7. उप + ऋच्छति → उपार्च्छति । अत्र ऋच्छति इति ऋ (<{1.1086}>) धातोः लट्लकारस्य एकवचनस्य रूपम् ।
आदेशनिर्णयः
आकार-ऐकार-औकाराणाम् <<वृद्धिरेचि>> इत्यनेन वृद्धिसंज्ञा भवति । अतः एतेषु अन्तरतमः आदेशः एकादेशरूपेण विधीयते । तत्र अवर्णस्य उच्चारणस्थानम् कण्ठः इति, ऋवर्णस्य उच्चारणस्थानम् मूर्धा इति । वॄद्धिसंज्ञकेभ्यः त्रिभ्यः वर्णेभ्यः 'मूर्धा' इति उच्चारणस्थानम् कस्यापि वर्णस्य नास्ति । परन्तु <<उरण् रपरः>>
1.1.51 इत्यनेन सूत्रेण एतत् ज्ञायते यत् ऋकारस्य स्थाने जायमानः आकारः नित्यम् रेफेण सह (इत्युक्ते, 'आर्' इत्यस्मिन् रूपे) विधीयते । अतः अवर्णात् ऋवर्णे परे उभयोः केवलम् 'आ' इति आदेशः कदापि नैव भवति, अपितु 'आर्' इति रेफयुक्तः आदेशः एव सम्भवति । अस्मिन् आदेशे विद्यमानस्य आकारस्य उच्चारणस्थानम् कण्ठः, रेफस्य उच्चारणस्थानम् च मूर्धा; अतः अत्र स्थानसाधर्म्यम् अपि सिद्ध्यति । अतः अवर्णात् ऋवर्णे परे 'आर्' इत्येव वृद्ध्येकादेशरूपेण विधीयते ।
दलकृत्यम्
अस्मिन् सूत्रे विद्यमानानाम् शब्दानाम् प्रयोजनम् इत्थम् —
1.
उपसर्गात् इति किमर्थम् ? यत्र उपसर्गभिन्नः अवर्णान्तः शब्दः ऋकारादेः धातोः पूर्वम् प्रयुज्यते, तत्र प्रकृतसूत्रस्य प्रसक्तिः नास्ति । यथा, 'माला ऋच्छति' इत्यत्र <<आद्गुणः>>
6.1.87 इत्यनेन गुणैकादेशे कृते 'मालर्च्छति' इत्येव सिद्ध्यति ।
2.
'प्रादेः' इति वक्तव्ये 'उपसर्गात्' इति किमर्थम् ? प्रादिगणस्य शब्दाः केवलम् क्रियायोगे एव उपसर्गसंज्ञकाः भवन्ति, अन्यसन्दर्भेषु न । यत्र प्रादिगणस्य शब्दाः उपसर्गसंज्ञकाः न सन्ति, तत्र अस्य सूत्रस्य प्रसक्तिः मा भूत्, इति स्पष्टीकर्तुम् अस्मिन् सूत्रे 'उपसर्गात्' इति पदं निर्दिश्यते । यथा, 'प्रगताः ऋच्छकाः अस्मात् देशात्' अत्र ऋच्छक-शब्दः ऋच्छ्-धातोः निर्मितःअस्ति, परन्तु अस्मिन् समासे 'प्र'शब्दः क्रियायोगे न प्रयुज्यते अतः तस्य उपसर्गसंज्ञा अपि नास्ति । अस्मिन् स्थले प्रकृतसूत्रं न प्रयुज्यते, अतः 'प्र + ऋच्छक' इति स्थिते <<आद्गुणः>>
6.1.87 इत्यनेन गुणैकादेशे कृते 'प्रर्च्छक' इत्येव सिद्ध्यति ।
प्र-उपसर्गपूर्वकात् ऋच्छ्-धातोः ण्वुल्-प्रत्यये कृते तु प्रकृतसूत्रेण 'प्रार्च्छक' इत्येव रूपं भवति ।
3.
ऋति धातौ इति किमर्थम् ? अत्र 'धातौ' इत्यनेन धातुरूपस्य ग्रहणं भवति । यत्र धातुरूपम् ऋकारादिः नास्ति, तत्र यद्यपि मूलधातुः ऋकारादिः अस्ति, तथापि प्रकृतसूत्रम् नैव प्रयोक्तव्यम् । यथा, जुहोत्यादिगणस्य 'ऋ' धातोः लट्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् 'इयर्ति' इति भवति । अत्र धातुरूपम् ऋकारादिः नास्ति, अतः अत्र प्रकृतसूत्रेण वृद्धिः न विधीयते, अपि तु <<आद्गुणः>>
6.1.87 इत्यनेन गुणैकादेशे कृते एव रूपं सिद्ध्यति ।
प्र + इयर्ति → प्रेयर्ति ।
4.
उपसर्गात् इत्युच्यमाने पुनः धातुग्रहणम् किमर्थम्? 'उपसर्गात्' इत्यनेनैव धातोः सन्दर्भे स्पष्टे सति, अस्मिन् सूत्रे पुनः धातुविधानम्
बाधकबाधनार्थम् क्रियते । अग्रे वक्ष्यमाणेन <<ऋत्यकः>>
6.1.128 इति सूत्रेण अकारात् ऋकारे परे विकल्पेन पूर्वपरयोः यः प्रकृतिभावः प्राप्नोति, तं बाधित्वा अत्र नित्यमेव वृद्ध्येकादेशविधानार्थम् अस्मिन् सूत्रे धातुग्रहणं क्रियते । अतः 'प्र + ऋच्छति' इत्यत्र प्रकृतिभावः नैव सम्भवति, अपितु वृद्ध्येकादेशे कृते 'प्रार्च्छति' इति एकमेव रूपम् सिद्ध्यति ।
5.
ऋति इत्यत्र तपरकरणम् किमर्थम् ? दीर्घ-ॠकारादीनि धातुरूपाणि धातुपाठे नैव विद्यन्ते । परन्तु दीर्घ-ॠकारादि-सुब्धातूनां विषये इदं सूत्रं नैव प्रयोक्तव्यम्, इति ज्ञापयितुम् अस्मिन् सूत्रे 'ऋति' इति शब्दः स्वीक्रियते । अतएव 'ॠकारम् आत्मनः इच्छति' इत्यत्र 'ॠकारीय' इति दीर्घ-ॠकारादि-धातोः ॠकारस्य अकारान्त-उपसर्गेण सह वृद्ध्येकादेशः न सम्भवति, अपितु <<आद्गुणः>>
6.1.87 इत्यनेन गुणैकादेशे कृते एव रूपं सिद्ध्यति ।
प्र + ॠकारीयति → प्रर्कारीयति ।
1. क्र्यादिगणस्य ॠ-धातुः यद्यपि दीर्घ-ॠकारादिः अस्ति, तथापि तस्य सर्वाणि ऋवर्णादीनि रूपाणि ह्रस्व-ऋकारादीनि एव सन्ति, यतः प्रक्रियायाम् <<प्वादीनां ह्रस्वः>> 7.3.80 इत्यनेन तस्य ह्रस्वादेशः विधीयते । अतः अस्य धातोः विषये प्रकृतसूत्रम् अवश्यम् प्रवर्तते । यथा, परा + ऋणाति → परार्णाति ।
2. ह्रस्व-ॠकारादि-सुब्धातूनां विषये प्रकृतसूत्रेण नित्यम् वृद्ध्यादेशे प्राप्ते <<वा सुप्यापिशलेः>> 6.1.92 इति अग्रिमसूत्रेण सः विकल्प्यते ।
Balamanorama
Up
<<उपसर्गादृति धातौ>> - उपसर्गादृति । आद्गुण इत्यत आदिति पञ्चम्यन्तमनुवर्तते । तच्च उपसर्गाविशेषणम्, अतस्तदन्तविधिः । अकारान्तादिति लभ्यते । ऋतीति धातोर्विशेषणम् । यस्मिन्विधिरिति तदादिविधिः । ऋकारादाविति लभ्यते । वृद्धिरेचीत्यतो वृद्धिरिति चानुवर्तते ।एकः पूर्वपरयो॑रित्यधिकृतम् । तदाह — अवर्णान्तादित्यादिना । एकादेश इति ।पूर्वपरयोरचो॑रिति शेषः । अन्यथा उपसर्गस्य धातोश्च सर्वादेशः स्यात् । उपाच्र्छति प्राच्र्छतीति । उप ऋच्छतिं प्रऋच्छतीति स्थिते गुणे प्राप्तेऽनेन वृद्धी-रपरत्वम् ।
Padamanjari
Up
उपार्च्छतीति। ठृच्छ गन्तीन्द्रियप्रलयमूर्तिभावेषुऽ। प्रर्च्छको देश इति। अत्र यत्क्रियायुक्ताः प्रादयः इति गमिं प्रति प्रशब्दस्योपसर्गत्वं नर्च्छतिं प्रतीति भवति प्रत्युदाहरणम्। वा सुप्यापिशलेरिति हि विकल्पः स्यादिति। तेनोतरार्थन्तपरकरणमिति भावः। धातुग्रहणमनर्थकम्, यत्र चोपसर्गत्वं न सम्भवति, तत्रोपसर्गग्रहणेन प्रादयोऽपिलक्ष्यन्ते, यथा-नासिकाया नस्बावविधौ; इह तु मुख्यमेवोपसर्गत्वं सम्भवति तत्किं धातुग्रहणेन ? इत्यत आह-उपसर्गग्रहणादेवेति। शाकल्यस्येदं शाकलम्, तस्य निवृत्यर्थं पुनर्द्धातुग्रहणम्। सति तु दातुग्रहणे योगविभागेन पुनर्वृद्धिर्विधीयत इति शाकलं बाध्यते। असति तु तस्मिन् शाकल्यमतेन परत्वात् प्रकृतिभावः स्यादेव ॥