ऋत उत्

6-1-111 ऋतः उत् संहितायाम् अचि एकः पूर्वपरयोः अति ङसिङसोः

Sampurna sutra

Up

ऋतः ङसिङसोः अति पूर्वपरयोः एकः उत्

Neelesh Sanskrit Brief

Up

ऋवर्णात् /ऌवर्णात् ङसिँ/ङस्-प्रत्यययोः अकारे परे पूर्वपरयोः एकः उकारादेशः भवति ।

Neelesh English Brief

Up

If a ऋकार or ऌकार is followed by the अकार of ङसिँ or ङस् प्रत्यय, then both of them combined to form an उकार.

Kashika

Up

ङसिङसोरित्येव। ऋकारान्तादुत्तरयोर्ङसिङसोरति परतः पूर्वपरयोरुकार एकादेशो भवति। होतुरागच्छति। होतुः स्वम्। द्वयोः षष्ठीनिर्दिष्टयोः स्थाने यः स लभतेऽन्यतरव्यपदेशमिति <<उरण् रपरः>> १.१.५१ इति रपरत्वमत्र कृत्वा <<रात् सस्य>> ८.२.२४ इति सलोपः कर्तव्यः॥

Siddhanta Kaumudi

Up

ऋदन्तान्ङसिङसोरति परे उकार एकादेशः स्यात् । रपरत्वम् ॥

Laghu Siddhanta Kaumudi

Up

ऋतो ङसिङसोरति उदेकादेशः। रपरः॥

Neelesh Sanskrit Detailed

Up

ह्रस्व-ऋकारात् / ह्रस्व ऌकारात् परः पञ्चमी-एकवचनस्य ङसिँ-प्रत्ययस्य अकारः, षष्ठ्येकवचनस्य ङस्-प्रत्ययस्य अकारः वा विद्यते चेत्, <<इको यणचि>> 6.1.77 इत्यनेन प्राप्तम् रेफादेश/लकारादेशं बाधित्वा प्रकृतसूत्रेण उकारः एकादेशरूपेण विधीयते । अयम् उकारः <<उरण् रपरः>> 1.1.51 इत्यनेन नित्यम् रपरः / लपरः एव भवति । अस्य सूत्रस्य प्रयोगः ऋकारान्त/ऌकारान्तप्रातिपदिकानाम् पञ्चमी/षष्ठी-एकवचनस्य प्रक्रियायाम् एव भवति । उदाहरणे एते - 1. ऋकारान्तशब्दानाम् पञ्चमी/षष्ठी-एकवचनस्य रुपसिद्धिः — पितृ + ङसिँ /ङस् [पञ्चमी/षष्ठी-एकवचनस्य प्रत्ययः] → पितृ + अस् [इत्संज्ञालोपः] → पितुर् स् [<<इको यणचि>> 6.1.77 इत्यनेन यणादेशे प्राप्ते अपवादत्वेन <<ऋत उत्>> 6.1.111 इति उकारः । <<उरण् रपर>> 1.1.51 इत्यनेन सः रपरः] → पितुर् [<<रात्सस्य>> 8.2.24 इति रेफात् परस्य सकारस्य लोपः ] → पितुः [<<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गनिर्माणम्] 2. ऌकारान्तशब्दानाम् पञ्चमी/षष्ठी-एकवचनस्य रुपसिद्धिः — गमॢँ (गतौ, <{1,1137}>) इत्यस्य धातोः अनुकरणरूपेण (imitation / copy) 'गमॢ' इति ऋकारान्तशब्दः सिद्धान्तकौमुद्यां पाठितः अस्ति । 'गमॢँ-धातुः' इति अस्य शब्दस्य अर्थः । अस्य पञ्चमी/षष्ठी-एकवचनस्य रूपसिद्धौ प्रकृतसूत्रं प्रयुक्तं दृश्यते — गमॢ + ङसिँ /ङस् [पञ्चमी/षष्ठी-एकवचनस्य प्रत्ययः] → गमॢ + अस् [इत्संज्ञालोपः,] → गमुल् स् [<<इको यणचि>> 6.1.77 इत्यनेन यणादेशे प्राप्ते अपवादत्वेन <<ऋत उत्>> 6.1.111 इति ऌकारस्य उकारः । <<उरण् रपर>> 1.1.51 इत्यनेन सः लपरः] → गमुल् [<<संयोगान्तस्य लोपः>> 8.2.23 इति सकारलोपः] दलकृत्यम् 1. ऋत् इत्यत्र तपरकरणम् किमर्थम् ? केवलम् 'ऋ' इति निर्दिश्यते चेत् <<अणुदित् सवर्णस्य चाप्रत्ययः>> 1.1.69 इत्यनेन सवर्णग्रहणम् भवेत्, येन दीर्घ-ॠकारस्य विषये अपि अस्य सूत्रस्य अनिष्टा प्रसक्तिः स्यात् । अतः अस्मिन् सूत्रे तपरकरणम् कृत्वा ऋकारेण दीर्घ-ॠकारग्रहणम् निषिध्यते, येन दीर्घ-ॠकारस्य विषये इदं सूत्रं न प्रवर्तते । अतः तॄ (दीर्घ-ॠकारान्तप्रातिपदकम्) + ङसिँ/ङस् इत्यत्र <<इको यणचि>> 6.1.77 इत्यनेन यणादेशे कृते त्रः इत्येव रूपं सिद्ध्यति । 2. उत् इत्यत्र तकारस्य किं प्रयोजनम् ?अस्मिन् सूत्रे 'उत्' इति शब्दः यद्यपि विधीयमानः अस्ति, तथापि विधीयमानेन उकारेण सवर्णग्रहणम् सम्भवति इति <<भाव्यमानः अपि उकारः सवर्णान् गृह्णाति>> (नागेशपरिभाषा 20) इत्यनया परिभाषया ज्ञाप्यते । एतादृशेन सवर्णग्रहणेन अत्र ह्रस्व-उकारेण दीर्घभेदस्य अपि ग्रहणं भवेत्; तत् निवारयितुम् अस्मिन् सूत्रे उकारस्य अपि तपरकरणम् क्रियते ।

Balamanorama

Up

<<ऋत उत्>> - ङसिङसोस्तृज्वत्त्वे क्रोष्टृ अस् इति स्थिते — ऋत उत् । 'एङः पदान्तादति'ङसि ङसोश्चे॑त्यतः-॒अती॑तिङसिङसो॑रिति चानुवर्तते ।ङसिङसो॑रित्यवयवषष्ठी,-॒अती॑त्यत्रान्वेति ।अङ्गस्ये॑त्यधिकृतम् 'ऋत' #इत्यनेन विशेष्यते, ततस्तदन्तविधिसत्दाह — ऋदन्तादित्यादिना । रपरत्वमिति । ऋकारस्य अकारस्य च स्थाने प्राप्नुवत उकारस्य ऋकारस्थानिकत्वानपायादिति भावः । उदिति तपरकरणं द्विमात्रनिवृत्त्यर्थम् । न चभाव्यमानोऽसवर्णान्न गृह्णाती॑त्येव तन्निवृत्तिः सिध्यतीति वाच्यं, तस्याऽनित्यत्वादिह द्विमात्रप्राप्तौ तन्निवृत्त्यर्थत्वात् । तदनित्यत्वं त्वनेनैव तपरकरणेन ज्ञाप्यते । ततश्चयवलपरे यवला वेति मकारस्याऽनुनासिका एव भवन्ती॑तिच्छ्वो॑रिति सूत्रे कैयटः । यत्तुतपरत्वं ढ्रलोपे इति दीर्घनिवृत्त्यर्थ॑मिति, तन्न । 'उरण्रपरः' इति सूत्रे 'ऊ,-रपरः' इति भाष्यप्रयोग विराधाता । सुपत्रवाहिता बाणा ज्वलिता इव पन्नगाः । नैरृतोरस्यभाव्यन्त सवितू रश्मयो यथा॑ इति रामायणप्रयोगविरोधाच्चेत्यलम् ।

Padamanjari

Up

द्वयोः षष्टीनिर्द्दिष्टयोरित्यादि। न्यायप्राप्तिप्रदर्शनमेतत्, न पुनापरत्वेऽक्रियमाणे किञ्चिदनिष्टम् ठृतःऽ इति तपरकरणं दीर्घनिवृत्यर्थम्, ठुन्न्योर्ग्रहःऽ'प्रेस्त्रो' यज्ञेऽ इत्यादौ न भवति। ठुच्ऽ इत्यपि तपरकरणं दीर्घनिवृत्यर्थमेव, आन्तर्यतो हि द्विमात्रस्य द्विमात्र एव प्राप्नोति। ननु'भाव्यमानो' ण्सवर्णान्न गृह्णातिऽ इति ? एवं तर्ह्येज्ज्ञापयति-ठ्भाव्यमानोऽप्युकारः सवर्णान् गृह्णातिऽ इति, तेनामूभ्यामित्यत्र ठदसोसेर्दादु दो मःऽ इति दीर्घस्य दीर्घ ऊकारो भवति। इह गम्लृप्रभृतिभ्यो ङसिङ्सोः कृतयोः ऋकरलुकारयोः सवर्णसंज्ञाविदानादस्मिन्नुत्वे लपरत्वे च कृते संयोगान्तलोपे गमुलिति रूपं भवति ॥