3-1-77 तुदादिभ्यः शः प्रत्ययः परः च आद्युदात्तः च क्यच् धातोः सार्वधातुके कर्तरि
index: 3.1.77 sutra: तुदादिभ्यः शः
कर्त्तरि सार्वधातुके तुदादिभ्यः धातोः परः श-प्रत्ययः
index: 3.1.77 sutra: तुदादिभ्यः शः
सार्वधातुके कर्तरि प्रत्यये परे तुदादिगणस्य धातोः परः श-प्रत्ययः विधीयते ।
index: 3.1.77 sutra: तुदादिभ्यः शः
A verb belonging to the तुदादिगण gets the विकरणप्रत्यय 'श' in presence of a सार्वधातुक प्रत्यय in कर्तरि प्रयोग.
index: 3.1.77 sutra: तुदादिभ्यः शः
तुद व्यथने इत्येवमादिभ्यो धातुभ्यः शप्रत्ययो भवति। शपोऽपवादः। शकारः सार्वधातुकसंज्ञार्थः। तुदति। नुदति।
index: 3.1.77 sutra: तुदादिभ्यः शः
॥ अथ तिङन्ततुदादिप्रकरणम् ॥ ।{$ {!1281 तुद!} व्यथने$} ॥ इतः षट् स्वरितेतः ॥
तुदति । तुदते । तुतोद । तुतोदिथ । तुतुदे । तोत्ता । अतौत्सीत् । अतुत्त ।{$ {!1282 णुद!} प्रेरणे$} । नुदति । नुदते । नुनोद । नुनुदे । नोत्ता ।{$ {!1283 दिश!} अतिसर्जने$} । अतिसर्जनं दानम् । देष्टा । दिक्षीष्ट । अदिक्षत् । अदिक्षत ।{$ {!1284 भ्रस्ज!} पाके$} । ग्रहिज्या - <{SK2412}> इति संप्रसारणम् । सस्य श्चुत्वेन शः । शस्य जश्त्वेन जः । भृज्जति । भृज्जते ॥
index: 3.1.77 sutra: तुदादिभ्यः शः
॥ {$ {! 1 तुद !} व्यथने $} ॥ शपोऽपवादः। तुदति, तुदते। तुतोद। तुतोदिथ। तुतुदे। तोत्ता। अतौत्सीत्, अतुत॥॥ {$ {! 2 णुद !} प्रेरणे $} ॥ नुदति, नुदते। नुनोद। नोत्ता। ॥ {$ {! 3 भ्रस्ज !} पाके $} ॥ ग्रहिज्येति सम्प्रसारणम्। सस्य श्चुत्वेन शः। शस्य जश्त्वेन जः। भृज्जति, भृज्जते॥
index: 3.1.77 sutra: तुदादिभ्यः शः
किम् नाम सार्वधातुकप्रत्ययः? तिङ्शित्सार्वधातुकम् 3.4.113 इत्यनेन तिङ्-प्रत्ययाः तथा शित्-प्रत्ययाः सार्वधातुकसंज्ञां प्राप्नुवन्ति ।
किम् नाम कर्तरिप्रयोगः? लः कर्मणि च भावे च अकर्मकेभ्यः 3.4.69 अनेन सूत्रेण लकारः कर्तारम्, कर्म, तथा भावं निदर्शयितुम् शक्नोति । यत्र लकारः कर्तारम् निदर्शयति, सः कर्तरिप्रयोगः ।
कर्तरि प्रयोगे सार्वधातुके प्रत्यये परे तुदादिगणस्य धातोः परः 'श' इति गणविकरणम् प्रत्ययरूपेण आगच्छति । अस्मिन् विकरणे शकारस्य लशक्वतद्धिते 1.3.8 इत्यनेन इत्संज्ञा भवति, अग्रे तस्य लोपः 1.3.9 इत्यनेन तस्य लोपः भवति । अतः केवलम् 'अ' इति अवशिष्यते । उदाहरणद्वयम् -
तुद् + लट् [वर्तमाने लट् 3.2.123 इति लट्-लकारः]
→ तुद् + तिप् [तिप्तस्झि... 3.4.78 इत्यनेन प्रथमपुरुषैकवचनस्य विवक्षायाम् 'तिप्' प्रत्ययः]
→ तुद् + श + ति [सार्वधातुके प्रत्यये परे तुदादिभ्यः शः 3.1.77 इति विकरणप्रत्ययः 'श' ]
→ तुद् अ ति [इत्संज्ञालोपः]
→ तुदति
अत्र प्रक्रियायाम् 'तुद् + तिप्' इत्यत्र वस्तुतः परत्वात् पुगन्तलघूपधस्य च 7.3.86 इत्यनेन उकारस्य गुणादेशः भवितुमर्हति, परन्तु तं बाधित्वा नित्यत्वात् तुदादिभ्यः शः 3.1.77 इत्यनेन विकरणप्रत्ययः 'श' एव विधीयते इति स्मर्तव्यम् । अतएव पदमञ्जर्यामुच्यते - 'तुदतीति स्थिते परत्वात् प्राप्तमपि गुणम् गुणं नित्यः शः बाधते' ।
लिख् + शतृ [लटः शतृशानचौ अप्रथमासमानाधिकरणे 3.2.124 इत्यनेन शतृ-प्रत्ययः]
→ लिख् + श + शतृ [सार्वधातुके प्रत्यये परे तुदादिभ्यः शः 3.1.77 इति विकरणप्रत्ययः 'श' ]
→ लिख् + अ + अत् [इत्संज्ञालोपः]
→ लिखत् [अतो गुणे 6.1.97 इति गुण-एकादेशः अकारः]
ज्ञातव्यम् - कर्तरि शप् 3.1.68 इत्यनेन सार्वधातुके कर्तरि प्रत्यये परे धातोः परः औत्सर्गिकरूपेण शप्-प्रत्ययः विधीयते । तुदादिगणस्य धातुभ्यः तस्य अपवादरूपेण श-प्रत्ययः भवति ।
विशेषः -
भ्वादिगणस्य विकरणप्रत्ययस्य दृश्यस्वरूपमपि 'अ' एव । तर्हि तुदादिगणस्य भ्वादिगणस्य च विकरणप्रत्ययोर्मध्ये को भेदः? भ्वादिगणस्य विकरणप्रत्ययः 'शप्' इति पित् अस्ति , तथा तुदादिगणस्य विकरणप्रत्ययः 'श' इति अपित् अस्ति । अपित्-त्वात् सार्वधातुकमपित् 1.2.4 इत्यनेन अयं प्रत्ययः ङित्वत् भवति । ङित्वत्-भावस्य प्रामुख्येन त्रीणि कार्याणि सन्ति यानि तुदादिगणस्य धातुषु दृश्यन्ते । तानि एतादृशानि -
गुणवृद्धीनिषेधः - ङित्-प्रत्यये परे क्ङिति च 1.1.5 इत्यनेन अङ्गस्य गुणः वृद्धिः वा निषिध्यते । अतः 'लिख् + श + ति' इत्यत्र पुगन्तलघूपधस्य च इत्यनेन गुणः भवितुम् न अर्हति ।
सम्प्रसारणम् - ङित् प्रत्यये परे तुदादिगणस्य केषुचन धातुषु सम्प्रसारणम् भवति । यथा - 'प्रच्छ् + श + ति' इत्यत्र पकारात् परस्य रेफस्य सम्प्रसारणे ऋकारादेशः भवति, अतः 'पृच्छति' इति रूपं सिद्ध्यति ।
अनिदित्-धातुषु उपधा-नकारलोपः - ङित्-प्रत्यये परे अनिदित्-धातुषु अनिदितां हलः उपधायाः क्ङिति 6.4.24 इत्यनेन उपधानकारस्य लोपः भवति । यथा - 'तृन्फँ तृप्तौ' अयं धातुः अनिदित् अस्ति (अस्मिन् धातौ नकारः औपदेशिक-अवस्थायाम् एव अस्ति) । अतः श-प्रत्यये परे अस्य धातोः नकारलोपः भवति । सम्पूर्णा प्रक्रिया इयम् -
तृन्फ् + लट् [वर्तमाने लट् 3.2.123 इति लट्-लकारः]
→ तृन्फ् + तिप् [तिप्तस्झि... 3.4.78 इत्यनेन प्रथमपुरुषैकवचनस्य विवक्षायाम् 'तिप्' प्रत्ययः]
→ तृन्फ् + श + ति [सार्वधातुके प्रत्यये परे तुदादिभ्यः शः 3.1.77 इति विकरणप्रत्ययः 'श' ]
→ तृफ् + अ + ति [अनिदितां हलः उपधायाः क्ङिति 6.4.24 इत्यनेन उपधानकारस्य लोपः]
→ तृन् फ् + अ + ति [शे मुचादीनाम् 7.1.59 इत्यनेन नुमागमः ]
→ तृंफति [नश्चापदान्तस्य झलि 8.3.24 इति अनुस्वारः]
→ तृम्फति [अनुस्वारस्य ययि परसवर्णः 8.4.58 इति परसवर्णः मकारः]
भ्वादिगण-तुदादिगणयोः विकरणयोर्मध्ये अन्यः अपि एकः विशेषः अस्ति । भ्वादिगणस्य विकरणप्रत्ययः 'शप्' इत्यस्य अकारः अनुदात्तौ सुप्पितौ 3.1.4 इत्यनेन अनुदात्तसंज्ञकः अस्ति, तथा तुदादिगणस्य विकरणप्रत्ययः 'श' इत्यस्य अकारः आद्युदात्तश्च 3.1.3 इत्यनेन उदात्तसंज्ञकः अस्ति ।
index: 3.1.77 sutra: तुदादिभ्यः शः
तुदादिभ्यः शः - तुदादिभ्यः शः । कत्र्रर्थे सार्वधातुके परे तुदादिभ्यः शः स्यात्स्वार्थे इत्यर्थः । शबपवादः । तुदतीति । लघूपधगुणं बाधित्वा नित्यत्वात् शे कृते तस्य अपित्त्वात् 'सार्वधातुकमपि' दिति ङित्त्वान् गुण इति भावः । अजन्ताऽकारवत्त्वाऽभावात्क्रादिनियमाल्लिटिथल्यपि नित्यमिट् ।तदाह — तुतोदिथेति । तोत्तेति । अनिडिति भावः । अतौत्सीदिति । हलन्तलक्षणा वृद्धिः । णुदधातुर्णोपदेशः । अनिट् ।दिशधातुरप्यनिट् । देष्टेति । व्रश्चेति षत्वे ष्टुत्वम् । स्ये तुषढो॑रिति षस्य कत्वं च — देक्ष्यति । दिक्षीष्टेति । 'लिङ्सिचौ' इति कित्त्वान्न गुणः । 'शल इगुपधा' दिति क्सं मत्वाह — अदिक्षत् । अदिक्षतेति । भ्रस्ज पाके । अनिट् । भ्रस्ज अ तीति स्थिते आह — ग्रहिज्येति । ङित्त्वाद्रेफस्य संप्रसारममृकारः, पूर्वरूपं चेति भावः । भृस्ज् अ तीति स्थिते आह — सस्येत्यादि । णलि भ्रस्ज् अ इति स्थिते —
index: 3.1.77 sutra: तुदादिभ्यः शः
तुदादिभ्यः शः॥ तुदतीति। तुदतीति स्थिते परत्वात्प्राप्तमपि गुणं नित्यः शो बाधते॥