7-1-101 उपधायाः च ॠतः इत् धातोः
index: 7.1.101 sutra: उपधायाश्च
धातोः उपधायाः ॠतः इत्
index: 7.1.101 sutra: उपधायाश्च
धातौ विद्यमानस्य उपधा-ॠकारस्य इकारादेशः भवति ।
index: 7.1.101 sutra: उपधायाश्च
The उपधा-ॠकार present in a धातु is converted to इकार.
index: 7.1.101 sutra: उपधायाश्च
उपधायाश्च ॠकारस्य इकारादेशो भवति। कीर्तयति, कीर्तयतः, कीर्तयन्ति।
index: 7.1.101 sutra: उपधायाश्च
धातोरुपधाभूतस्य ऋत इत्स्यात् । रपरत्वम् । उपधायां च <{SK2265}> इति दीर्घः । कीर्तयति । उर्ऋत् <{SK2567}> । अचीकृतत् । अचिकार्तत् ।{$ {!1655 वर्ध!} छेदनपूरणयोः$} ।{$ {!1656 कुबि!} आच्छादने$} । कुम्बयति । कुम्बति । कुभि इत्येके ।{$ {!1657 लुबि!} {!1658 तुबि!} अदर्शने$} । अर्दन इत्येके ।{$ {!1659 ह्लप!} व्यक्तायां वाचि$} । क्लप इत्येके ।{$ {!1660 चुटि!} छेदने$} ।{$ {!1661 इल!} प्रेरणे$} । एलयति । ऐलिलत् ।{$ {!1662 म्रक्ष!} म्लेच्छने$} ।{$ {!1663 म्लेच्छ!} अव्यक्तायां वाचि$} ।{$ {!1664 ब्रूस!} {!1665 बर्ह!} हिंसायाम्$} । केचिदिह गर्ज गर्द शब्दे, गर्ध अभिकाङ्क्षायामिति पठन्ति ।{$ {!1666 गुर्द!} पूर्वनिकेतने$} ।{$ {!1667 जसि!} रक्षणे$} । मोक्षण इति केचित् । जंसयति । जंसति ।{$ {!1668 ईड!} स्तुतौ$} ।{$ {!1669 जसु!} हिंसायाम्$} ।{$ {!1670 पिडि!} संघाते$} ।{$ {!1671 रुष!} रोषे$} । रुट इत्येके ।{$ {!1672 डिप!} क्षेपे$} ।{$ {!1673 ष्टुप!} समुच्छ्राये$} ॥ आ कुस्मादात्मनेपदिनः । कुस्मनाम्नो वेति वक्ष्यते तमभिव्याप्येत्यर्थः । अकर्तृगामिफलार्थमिदम् ।{$ {!1674 चित!} संचेतने$} । चेतयते । अचीचितत ।{$ {!1675 दशि!} दंशने$} । दंशयते । अददंशत । इदित्त्वाण्णिजभावे । दंशति । आकुस्मीयमात्मनेपदं णिच्सन्नियोगेनैवेति व्याख्यातारः । नलोपे सञ्जिसाहचर्याद् भ्वादेरेव ग्रहणम् ।{$ {!1676 दसि!} दर्शनदंशनयोः$} । दंसयते । दंसति । दसेत्यप्येके ।{$ {!1677 डप!} {!1678 डिप!} संघाते$} ।{$ {!1679 तत्रि!} कुटुम्बधारणे$} । तन्त्रयते । चान्द्रास्तु धातुद्वयमिति कृत्वा कुटुम्बयते इत्युदाहरन्ति ।{$ {!1680 मत्रि!} गुप्तपरिभाषणे$} ।{$ {!1681 स्पश!} ग्रहणसंश्लेषणयोः$} ।{$ {!1682 तर्ज!} {!1683 भर्त्स!} तर्जने$} ।{$ {!1684 बस्त!} {!1685 गन्ध!} अर्दने$} । बस्तयते । गन्धयते ।{$ {!1686 विष्क!} हिंसायाम्$} । हिष्केत्येके ।{$ {!1687 निष्क!} परिमाणे$} ।{$ {!1688 लल!} ईप्सायाम्$} ।{$ {!1689 कूण!} सङ्कोचे$} ।{$ {!1690 तूण!} पूरणे$} ।{$ {!1691 भ्रूण!} आशाविशङ्कयोः$} ।{$ {!1692 शठ!} श्लाघायाम्$} ।{$ {!1693 यक्ष!} पूजायाम्$} ।{$ {!1694 स्यम!} वितर्के$} ।{$ {!1695 गूर!} उद्यमने$} ।{$ {!1696 शम!} {!1697 लक्ष!} आलोचने$} । नान्ये मित इति मित्त्वनिषेधः । शामयते ।{$ {!1698 कुत्स!} अवक्षेपणे$} ।{$ {!1699 त्रुट!} छेदने$} । कुट इत्येके ।{$ {!1700 गल!} स्नवणे$} ।{$ {!1701 भल!} आभण्डने$} ।{$ {!1702 कूट!} आप्रदाने$} । अवसादने इत्येके ।{$ {!1703 कुट्ट!} प्रतापे$} ।{$ {!1704 वञ्चु!} प्रलम्भने$} ।{$ {!1705 वृष!} शक्तिबन्धने$} । शक्तिबन्धनं प्रजननसामर्थ्यं शक्तिबन्धश्च । वर्षयते ।{$ {!1706 मद!} तृप्तियोगे$} । मादयते ।{$ {!1707 दिवु!} परिकूजने$} ।{$ {!1708 गृ!} विज्ञाने$} । गारयते ।{$ {!1709 विद!} चेतनाख्याननिवासेषु $}। वेदयते । विन्दति प्राप्तौ श्यन्लुक्श्नम्शेष्विदं क्रमात् ।{$ {!1710 मान!} स्तम्भे$} । मानयते ।{$ {!1711 यु!} जुगुप्सायाम्$} । यावयते । (गणसूत्रम् -){$ {!1712 कुस्म!} नाम्नोवा$} । कुस्मेति धातुः कुत्सितस्मयने वर्तते । कुस्मयते । अचुकुस्मत । अथवा कुस्मेति प्रातिपदिकं ततो धात्वर्थो णिच् । इत्याकुस्मीयाः ॥ {$ {!1713 चर्च!} अध्ययने$} ।{$ {!1714 बुक्क!} भषणे$} ।{$ {!1715 शब्द!} उपसर्गादाविष्कारे च$} । चाद्भषणे । प्रतिशब्दयति । प्रतिश्रुतमाविष्करोतीत्यर्थः । अनुपसर्गाच्च । आविष्कारे इत्येव । शब्दयति ।{$ {!1716 कण!} निमीलने$} । काणयति । णौ चङ्युपाधाया ह्रस्वः <{SK1324}> ॥<!काण्यादीनां वेति विकल्प्यते !> (वार्तिकम्) ॥ अचीकणत् । अचकाणत् ।{$ {!1717 जभि!} नाशने$} । जम्भयति । जम्भति ।{$ {!1718 षूद!} क्षरणे$} । सूदयति । असूषुदत् ।{$ {!1719 जसु!} ताडने$} । जासयति । जसति ।{$ {!1720 पश!} बन्धने$} । पासयति ।{$ {!1721 अम!} रोगे$} । आमयति । नान्ये मित इति निषेधः । अम गत्यादौ शपि गतः । तस्माद्धेतुमण्णौ न कम्यमिचमामिति निषेधः । आमयति ।{$ {!1722 चट!} {!1723 स्फुट!} भेदने$} । विकासे शशपोः स्फुटति स्फोटते इत्युक्तम् ।{$ {!1724 घट!} सङ्घाते$} । घाटयति हन्त्यर्थाश्च (गणसूत्रम् -) नवगण्यामुक्ता अपि हन्त्यर्थाः स्वार्थे णिचं लभन्ते इत्यर्थः ।{$ {!1725 दिवु!} मर्दने$} । उदित्त्वादेवतीत्यपि ।{$ {!1726 अर्ज!} प्रतियत्ने$} । अयमर्थान्तरेऽपि । द्रव्यमर्जयति ।{$ {!1727 घुषिर्!} विशब्दने$} । घोषयति । घुषिरवि शब्दने <{SK3063}> इति सूत्रेऽविशब्देन इति निषेधाल्लिङ्गादनित्योऽस्य णिच् । घोषति । इरित्वादङ्वा । अघुषत् । अघोषीत् । ण्यन्तस्य तु अजूघुषत् ।{$ {!1728 आङः!} क्रन्द सातत्ये$} । भौवादिकः क्रन्दधातुराह्वानाद्यर्थे उक्तः स एवाङ्पूर्वो णिचं लभते । सातत्ये । आक्रन्दयति । अन्ये तु आङ्पूर्वो घुषिः क्रन्दसातत्ये इत्याहुः । आघोषयति ।{$ {!1729 लस!} शिल्पयोगे$} ।{$ {!1730 तसि!} {!1731 भूष!} अलंकरणे$} । अवतंसयति । अवतंसति । भूषयति ।{$ {!1732 अर्ह!} पूजायाम्$} ।{$ {!1733 ज्ञा!} नियोगे$} । आज्ञापयति ।{$ {!1734 भज!} विश्राणने$} ।{$ {!1735 शृधु!} प्रहसने$} । अशशर्धत् । अशीशृधत् ।{$ {!1736 यत!} निकारोपस्कारयोः$} ।{$ {!1737 रक!} {!1738 लग!} आस्वादने$} । रघ इत्येके । रग इत्यन्ये ।{$ {!1739 अञ्चु!} निशेषणे$} । अञ्चयति । उदित्त्वमिड्विकल्पार्थम् । अत एव विभाषितो णिच् । अञ्चति । एवं शृधुजसुप्रभृतीनामपि बोध्यम् ।{$ {!1740 लिगि!} चित्रीकरणे$} । लिङ्गयति । लिङ्गति ।{$ {!1741 मुद!} संसर्गे$} । मोदयति सक्तून् घृतेन ।{$ {!1742 त्रस!} धारणे$} । ग्रहण इत्येके । वारण इत्यन्ये ।{$ {!1743 उध्रस!} उञ्छे$} । उकारो धात्ववयव इत्येके । नेत्यन्ये । ध्रासयति । ध्रसति । उध्रासयति ।{$ {!1744 मुच!} प्रमोचने मोदने च$} ।{$ {!1745 वस!} स्नेहच्छेदापहरणेषु $}।{$ {!1746 चर!} संशये$} ।{$ {!1747 च्यु!} सहने$} । हसने चेत्येके । च्यावयति । च्युसेत्येके । च्योसयति ।{$ {!1748 भुवो!} ऽवकल्कने$} । अवकल्कनं मिश्रीकरणमित्येके । चिन्तनमित्यन्ये । भावयति ।{$ {!1749 कृपेश्च!} (अवकल्कने) $}। कल्पयति ॥ (गणसूत्रम् -) आ स्वदः सकर्मकात् ॥ स्वदिमभिव्याप्य संभवत्कर्मभ्य एव णिच् ।{$ {!1750 ग्रस!} ग्रहणे$} । ग्रासयति फलम् ।{$ {!1751 पुष!} धारणे$} । पोषयत्याभरणम् ।{$ {!1752 दल!} विदारणे$} । दालयति ।{$ {!1753 पट!} {!1754 पुट!} {!1755 लुट!} {!1756 तुजि!} {!1757 मिजि!} {!1758 पिजि!} {!1759 लुजि!} {!1760 भजि!} {!1761 लघि!} {!1762 त्रसि!} {!1763 पिसि!} {!1764 कुसि!} {!1765 दशि!} {!1766 कुशि!} {!1767 घट!} {!1768 घटि!} {!1769 बृहि!} {!1770 बर्ह!} {!1771 वल्ह!} {!1772 गुप!} {!1773 धूप!} {!1774 विच्छ!} {!1775 चीव!} {!1776 पुथ!} {!1777 लोकृ!} {!1778 लोचृ!} {!1779 णद!} {!1780 कुप!} {!1781 तर्क!} {!1782 वृतु!} {!1783 वृधु!} भाषार्थाः$} । पाटयति । पोटयति । लोटयति । तुञ्जयति । पिञ्जति । एवं परेषाम् । घटयति । घण्टयति ।
index: 7.1.101 sutra: उपधायाश्च
येषां धातूनामुपधावर्णः दीर्घ-ॠकारः अस्ति, तस्य अनेन सूत्रेण 'इ'-आदेशः भवति । अत्र किमपि निमित्तम् नापेक्ष्यते । अनेन सूत्रेण निर्दिष्टः इ-आदेशः उरण् रपरः 1.1.51 इत्यनेन रपरः वर्तते । इत्युक्ते, अस्मात् इकारात् परः रेफः आगच्छति । यथा , कॄत् (संशब्दने) इति चुरादिगणस्य धातुः । अस्य लट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -
कॄत् + लट् [वर्तमाने लट् 3.2.123 इति लट्]
→ कॄत् + णिच् + लट् [सत्यापपाश... 3.1.25 इति णिच्]
→ कॄत् + इ + तिप् [तिप्तस्.. 3.4.78 इति लट्-लकारस्य प्रथमपुरुषैकवचनस्य विवक्षायाम् तिप्-प्रत्ययः]
→ कॄत् + इ + शप् + तिप् [कर्तरि शप् 3.1.68 इति औत्सर्गिकं गणविकरणम् शप्]
→ क् इर् त् + इ + अ + ति [उपधायाश्च 7.1.101 इति उपधा-ॠकारस्य इकारः । उरण् रपरः 1.1.51 इति सः रपरः]
→ किर्ति अ ति [वर्णमेलनम्]
→ किर्ते अ ति [सार्वधातुकार्धधातुकयोः 7.3.84 इति गुणः]
→ किर्तयति [एचोऽयवायावः 6.1.78 इति अय्-आदेशः]
→ कीर्तयति [उपधायां च 8.2.78 इति उपधादीर्घः]
index: 7.1.101 sutra: उपधायाश्च
उपधायाश्च - उपधायाश्च ।ऋत इद्धातो॑रित्यनुवर्तते । तदाह — धातोरित्यादिना । चङिउरृ॑दित्युपधाया ऋत्त्वपक्षे आह — अचीकृतदिति । उपधाया ऋत्त्वे कृदित्यस्य द्वित्वे उरदत्त्वे लघुपरतया सन्वत्त्वादित्त्वेदीर्घो लघो॑रिति दीर्घं इति भावः । ऋत्त्वाऽभावपक्षे आह — अचिकीर्तदिति । ॠत इत्त्वे रपरत्वे 'उपधायां च' इति दीर्घे कीर्दित्यस्य द्वित्वे हलादिशेषे अभ्यासह्रस्वे चुत्वमिति भावः । लघुपरकत्वाऽभावेन सन्वद्भावविषयत्वाऽभावान्नाऽभ्यासदीर्घः ।आकुस्मा॑दित्यत्र आङभिविधाविति मत्वाह — तमभिव्याप्येति । ननुणिचश्चे॑ति सिद्धे आत्मनेपदविधानं व्यर्थमित्यत आह - अकर्तृगामीति । ननु 'दशि दंशने' णिजभावेदंशती॑ति कथम् । आकुस्मीयत्वेन णिजभावेऽपि तङो दुर्वारत्वादित्यत आह — आकुस्मीयमिति ।दंशसञ्जस्वञ्जां शपी॑ति नलोपमाशङ्क्य आह — नलोपे सञ्जीति । स्पश ग्रहणेति । अपस्पशत ।अत्स्मृदृत्वरे॑ति अभ्यासस्य अत्त्वम् — इत्त्वापवादः । गूर उद्यमने । अयं दीर्घोपधः । गूरयते । तदादौ तु 'गुरी उद्यमने' इति ह्रस्वोपधः । दिवदौ तुधूरी, गूरी हिंसागत्यो॑रिति दीर्घोपध एवेति केचित् । ह्रस्वोपध इत्यन्ये । विदधातोरर्थभेदे विकरणभेदं सङ्गृह्णाति — सत्ताया#ं विद्यतेइत्यादिश्लोकेन । कुस्म नाम्नो वा । गणसूत्रम् ।कुस्मे॑ति पृथक्पदमविभक्तिकम् ।तदाह — कुस्म इति धातुरिति ।कुत्सितस्मयने वर्तते॑ इति शेषपूरणं, व्याख्यानादिति भावः । णादिति भावः । अचुकुस्मतेति । उकारस्य गुरुतया अभ्यासस्य लघुपरकत्वाऽभावान्न सन्वत्त्वमिति भावः ।नाम्नो गृह्रते, प्रत्यासत्त्या । तथा चकुस्मेति धातोः, कुस्मेतिप्रातिपदिकाद्वा णिजिति फलितम् । तत्रधातोर्णिचः स्वार्थिकत्वमभिप्रेत्य प्रातिपदिकाण्णिचि विशेषमाह — ततिति । तस्मात् = प्रातिपदिकादित्यर्थः । धात्वर्थे इति । करोतीत्यर्थे, आचष्टे इत्यर्थे वेत्यर्थः । नच 'तत्करोति तदाचष्टे' इत्येव प्रातिपदिकाण्णिच् सिद्ध इति वाच्यम्,आकुस्मादात्मनेपदिनः॑ इत्यात्मनेपदनियमार्थत्वात् । इत्याकुस्मीयाः । शब्द उपसर्गादिति । उपसर्गात्परः शब्दधातुराविष्कारे वर्तते इत्यर्थः । अनुपसर्गाच्चेति । अनुपसर्गात्परोऽपि शब्दधातुर्णिचं लभते इत्यर्थः ।आविष्कारे॑इत्यस्यैवानुवृत्त्यर्थं पृथगुक्तिः ।शब्द आविष्कारे चे॑त्येतावत्येवोक्ते अनुपसर्गाद्भाषणेऽपि स्यात् । तदाह — आविष्कारे इत्येवेति । काण्यादीनामिति । इदं वार्तिकं भ्राजभासभाषे॑ति सूत्रे भाष्ये पठितम् ।काणिराणिश्रणिभणिहेठिलोपयः षट्काण्यादयः॑ इत भाष्यम् । अचीकणदिति । ह्रस्वत्वपक्षे लघुपरकत्वादभ्यासस्य सन्वत्त्वमिति भावः । शशपोरिति । शविकरणे, शब्विकरणे चेत्यर्थः । हन्त्यर्थाश्चेति । गणसूत्रमिदम् । हन हिंसागत्योरिति हनधातोर्हिंसा गमनं चार्थः । एतदर्थका ये धातवो भ्वादिषु नवसु गणेषु पठितास्ते सर्वेऽपि चुरादौ पठिताः प्रत्येतव्या इत्यर्थः । ततश्च तेभ्यः स्वार्थे णिजपि पक्षे भवतीति फलितम् । तदाह — नवगण्यामित्यादि । दिवु मर्दने । उदित्तवादिति । उदित्करणम् ।उदितो वे॑ति क्त्वायामिड्विकल्पार्थम् । द्यूत्वा देवित्वा । इडभावे ऊठ् । इटि तु — न क्त्वा से॑डिति कित्तवनिषेधाद्गुण इति स्थितिः । अस्य नित्यण्यन्तत्वे सति णिचा व्यवहितत्वेन क्त्वयामिड्विकल्पस्य अप्रसक्तेरुदित्करमं व्यर्थं सज्ज्ञापयति अस्य दिवुधातोर्णिज्विकल्प इतीति भावः । घुषिर्विशब्दने । विशब्दनं = शब्देन स्वाभिप्रायाविष्करणं, प्रतिज्ञानं च । भ्वादौ त्वयं धातुरविशब्दनार्थकः पठितः । घोषयतीति । शब्देन स्वाभिप्रायमाविष्करोतीत्यर्थः, प्रतिजानीते इति वा । लिङ्गादिति । इण्निषेधप्रकरणे 'घुषिर् अविशब्दने' इति सूत्रम् । अविशब्दनार्थकाद्धुषधातोर्निष्ठआमिण्न स्यादित्यर्थः । यथा — ॒घुष्टा रज्जुः॑ । प्रसारितेत्यर्थः । अविशब्दने इति किम् । अवघुषितं वाक्यम् । प्रतिज्ञातमित्यर्थः । अत्र विशब्दनार्थकत्वान्नेण्निषेध इति स्थितिः । तत्र विशब्दनार्थकस्य घुषदातोश्चौरादिकत्वेन ण्यन्तत्वनियमाण्णिचा व्यवधानात्ततः परा निष्ठा नास्त्येवेतीण्निषेधे विशब्दनपर्युदासो व्यर्थः सन् चौरादिकस्याऽस्य विशब्दनार्थकस्य घुषेर्णिचो विकल्पं गमयति । एवं चअवघुषितं वाक्य॑मित्यत्र चौरदिकघुषेर्विशब्दनार्थकस्य निष्ठायामिण्निषेधो नेति भाष्ये स्पष्टम् । इरित्त्वादङ् वेति ।णिजभावपक्षे॑इति शेषः । ननु इरित्त्वादेव णिजविकल्पे सिद्धे 'घुषिरविशब्दने' इति इण्निषेधसूत्रे 'अविशब्दने' इति पर्युदासास्य णिज्विकल्पज्ञापकत्वाश्रयणक्लेशो भाष्ये व्यर्थ इति चेन्न, अत एव भाष्यादिरित्त्वाऽभावविज्ञानात् । एवं च 'घुषिर्विशब्दने' इत्यत्रघुषी॑रित्यस्य इका निर्देशमाश्रित्य प्रथमान्तत्वमेवाश्रयणीयम् ।इरित्त्वादङ्वे॑ति मूलं तु भाष्यविरोधादुपेक्ष्यमेवेत्यास्तां तावत् । आङः क्रन्द सातत्ये इति । आङः परः क्रन्ददातुराह्वानसातत्येऽर्थे णिचं लभते इत्यर्थः । यद्वाआह॑इत्यनन्तरं 'घुषि' रित्यनुवर्तते । 'क्रन्दसातत्ये' इत्यर्थन#इर्देशः । तदाह — अन्ये त्विति । लस शिल्पयोगे इति । कौशले इत्यर्थः । तसि भूषेति । अत्र तसिः प्रायेण अवपूर्वः । तदाह — अवतंसयतीति । ज्ञा नियोगे इति । आङ्पूर्वः । तदाह — आज्ञापयतीति । आदन्तत्वात्पुक् । अजिज्ञपत् । यत निकारेति । तालव्याऽन्तः स्थादिः । यत्नो वा प्रैषो वा - निकारः । यातयति । अयीयतत् । अञ्च विशेषण इति । व्यावर्तने इत्यर्थः । उदित्त्वमिति ।उदितो वेटत्यण्यन्तात् क्त्वायामिड्विकल्पार्थमित्यर्थः । ण्यन्तात्तु णिचा व्यवधानादिड्विकल्पस्य न प्रसक्तिरिति भावः । नन्वस्यनित्यण्यन्तत्वादण्यन्तत्वमसिद्धमित्यत आह — अत एवेति । च्यु सहने इति । च्यावयति । अचुच्यवत् । भुवोऽवकल्कने इति । अवकल्कनवृत्तेर्भूधातोर्णिच् स्यादित्यर्थः । कृपेश्चेति । अवकल्कनवृत्तेः कृपेर्णिच् स्यादित्यर्थः । कल्पयतीति । 'कृपो रो लः' इति लत्वम् । आ स्वदः सकर्मकादिति । आङभिविधौ । तदाह — स्वदिमभिव्याप्येति । तत्र 'ष्वद आस्वादने' इत्यस्य अकर्मकत्वादाह — संभवत्कर्मभ्य इति । इत आरभ्य आस्वदीयाः सकर्मकाः । स्वदिस्त्वकर्मकः । पट पुटेति । एकतिंरशद्धातवः । आद्यास्त्रयष्टान्ताः । आद्यद्वितीयौ पवर्गं प्रथमादी । चतुर्थाद्या एकादशैदितः । त्रिसिपिसी इदुपधौ इत्येके । अदुपधावित्यन्ये । षोडशसप्तदशाविदितौ । अलुलोकत् अलुलोचदित्यत्र उपधाह्रस्वे प्राप्ते —
index: 7.1.101 sutra: उपधायाश्च
पूर्वेण आञ्कारान्तस्य धातोरित्वमुक्तम्, उपधायामपि यथा स्यादित्ययमारम्भः । ननु पूर्वयोगे धातुना आञ्कारं विशेषयिष्यामः - धातोर्य ऋकारो यत्र स्थित इति, इहापि तर्हि प्राप्नोति - आञ्कारमिच्छति आञ्कारीयतीति एवमपि कृतस्य इतीयता सिद्धम्, आञ्तः इत्यनुवृतेरन्त्यस्य न भविष्यति तथा तु न कृतमित्येव । एकीर्तयतीति । कत संशब्दने चुरादिः ॥