अच उपसर्गात्तः

7-4-47 अचः उपसर्गात् तः किति धोः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अजन्तादुपसर्गादुत्तरस्य दा इत्येतस्य घुसंज्ञकस्य त इत्ययमादेशो भवति तकारादौ किति। प्रत्तम्। अवत्तम्। नीत्तम्। परीत्तम्। अचः इति किम्? निर्दत्तम्। दुर्दत्तम्। उपसर्गातिति किम्? दधि दत्तम्। मधु दत्तम्। घोः इत्येव, अवदातम् मुखम्। उपसर्गातिति पञ्चमीनिर्देशादादेरलः प्राप्नोति? तत्र समाधिमाहुः। अचः इत्येतद् द्विरावर्तयितव्यम्, तत्र एकं पञ्चम्यन्तं उपसर्गविशेषणार्थम्, अपरमपि षष्ठ्यन्तं स्थानिनिर्देशर्थम् इत्याकारस्य स्थाने तकारो भवति। द्वितकारो वा संयोगोऽयमादिश्यते, सोऽनेकाल्त्वात् सर्वस्य भविष्यति। <<अपो भि>> 7.4.48 इत्यत्र पञ्चम्यन्तमचः इत्यनुवर्तते। तेन पकारमात्रस्य भविष्यति। द्यतेरित्त्वादचस्त इत्येतद् भवति विप्रतिषेधेन। अवत्तम्। प्रत्तं जुहोति।

Siddhanta Kaumudi

Up

अजन्तादुपसर्गात्परस्य दा इत्यस्य घोरचस्तः स्यात्तादौ किति । चर्त्वम् । प्रत्तः । अवत्तः । अवदत्तं विदत्तं च प्रदत्तं चादिकर्मणि । सुदत्तमवुदत्तं च निदत्तमिति चेष्यते ॥ चशब्दाद्यथाप्राप्तम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<अच उपसर्गात्तः>> - अच उपसर्गात्तः । त इत्यत्राऽकार उच्चारणार्थः । 'अच' इत्यावर्तते, एकमुपसर्गविशेषणं, द्वितीयं तु स्थानिसमर्पकं । तदाह — अजन्तादिति । घोरिति । घोरवयवस्येत्यर्थः । तः स्यादिति । तकारः स्यादित्यर्थः । ददादेशापवादः । चत्त्र्वमिति । प्र दा त इति स्थिते दकारादाकारस्य तकारादेशे दकारस्य चर्त्वेन तकार इत्यर्थः । अवदत्तं विदत्तं चेति । भाष्यस्थश्लोकोऽयम् । अत्र आदिकर्मणीत्येतत् प्रदत्तमित्यत्रैव संबध्यते । नाऽयम् 'अच उपसर्गात्तः' इत्यस्याऽपवाद इति भ्रमितव्यमित्याह — चशब्दाद्यथाप्राप्तमिति । तथा चाऽवदत्तादिशब्देषु ददादेशोऽपि कदाचिल्लभ्यते इत्यर्थः । अत एव प्रकृतसूत्रभाष्ये 'अच उपसर्गात्तःर' इत्यस्यावकासः — प्रत्तमवत्तमिति सङ्गच्छते इति भावः ।

Padamanjari

Up

त इत्ययमिति । तकारेऽकार उच्चारणार्थः । प्रतमिति । तत्राकारस्य तकारे दकारस्य चर्त्वम् । नीतमिति ।'दस्ति' इति दीर्घत्वम् । आदेरलः प्राप्नोतीति । ठादेः परस्यऽ इति वचनात् । अच इत्येतदावर्तत इति । यद्वा - अस्येति वर्तते, क्व प्रकृतम् ? ठस्यच्वौऽ इति,'दोदद्घोः' इत्ययमपि दद्भावोऽवर्णस्य प्राप्नोति, ततश्च दतमिति संयोगादि श्रूयते, एवं तर्ह्येवं वक्ष्यामि -'दो' द्घोःऽ इति, दो य आकारस्तस्याद्भवतीति । द्वितकारकोवेति । ठलोऽन्त्यस्यऽ इत्येतस्य द्वावपवादौ - ठादेः परस्यऽ, ठनेकाल्शित्सर्वस्यऽ इति, तयोर्विप्रतिषेधे परः प्रवर्तते । ठपो भिऽ इत्यत्रापि तर्हि सर्वादेशप्रसङ्गः ? अत आह - अपो भीत्यत्रेति । अत्र द्वयोस्तकारयोरन्त्यस्य संयोगान्तलोपः, पूर्वस्य जश्त्वम् । अत्र केचिदाहुः - अवश्यमत्राच इत्यनुवर्त्यम्, अन्यथा लूञ् ठृदोरप्ऽ, लवाभ्यामित्यत्रापि स्यादिति, तन्न; लुप्ते पकारे नाप्शब्द इति नात्र भविष्यति ॥ भूतपूर्वगतिर्युक्ता न साम्प्रतिकसम्भवः । न प्रत्ययाप्रत्यययोरित्यस्याप्यत्र सम्भवः ॥