उदात्तादनुदात्तस्य स्वरितः

8-4-66 उदात्तात् अनुदात्तस्य स्वरितः पूर्वत्र असिद्धम् संहितायाम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

उदात्तादुत्तरस्यानुदात्तस्य स्वरितादेशो भवति। गार्ग्यः॑। वात्स्यः॑। पच॑ति पठ॑ति। अस्य स्वरितस्यासिद्धत्वाद् <<अनुदात्तं पदमेकवर्जम्>> ६.१.१५८ इत्येतद् न प्रवर्तते। तेनोदात्तस्वरितावुभावपि श्रूयेते॥

Siddhanta Kaumudi

Up

उदात्तात्परस्यानुदात्तस्य स्वरितः स्यात् । अग्निमीळे (अ॒ग्निमी॑ळे) । अस्याप्यसिद्धत्वाच्छेषनिघातो न । तमीशानासः (तमी॑शा॒नासः॑) ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

गार्ग्यः, वात्स्य इति ।'गर्गादिभ्यो यञ्' , ञित्वादाद्यौदातत्वम्, शेषनिघातः, तस्य स्वरितः । पचति, पठतीति । शप्तिपावनुदातौ, धातुस्वरः, शबकारस्य स्वरितत्वम् ।'तित्स्वरितम्' इत्यस्यानन्तरमिदं वक्तव्यम्, एवं हि स्वरितग्रहणं न कर्तव्यं भवति ? अत आह - अस्येति । यदि तत्र क्रियेत, ठनुदातं पदमेकवर्जम्ऽ इत्येतत्प्रवर्तेत । इह तु करणे न प्रवर्ततेः स्वरितस्यासिद्धत्वात् । तेन द्वयोरप्युदातस्वरितयोः श्रवणं भवति ॥