1-4-15 नः क्ये आ कडारात् एका सञ्ज्ञा पदम्
index: 1.4.15 sutra: नः क्ये
नः क्ये पदम्
index: 1.4.15 sutra: नः क्ये
नकारान्तशब्दस्य 'क्य' प्रत्यये परे पदसंज्ञा भवति ।
index: 1.4.15 sutra: नः क्ये
A नकारान्त word gets the term 'पद' when followed by a प्रत्यय that begins with क्य.
index: 1.4.15 sutra: नः क्ये
क्ये इति क्यच् क्यङ् क्यशां सामान्यग्रहनम्। नान्तं शब्दरूपं क्ये परतः पदसंज्ञं भवति। क्यच् राजीयति। क्यङ् राजायते। क्यश् चर्मायति, चर्मायते। सिद्धे सत्यारम्भो नियमार्थः। नान्तमेव क्ये परतः पदसम्ंज्ञम् भवति, न अन्यत्। वाच्यति। स्रुच्यति।
index: 1.4.15 sutra: नः क्ये
क्यचि क्यङि च नान्तमेव पदं स्यान्नान्यत् । सन्निपातपरिभाषया क्यचो यस्य लोपो न । गव्यांचकार । गव्यिता । नाव्यांचकार । नाव्यिता । नलोपः । राजीयति । प्रत्ययोत्तरपदयोश्च <{SK1373}> । त्वद्यति । मद्यति । एकार्थयोरित्येव । युष्मद्यति । अस्मद्यति । हलि च <{SK354}> । गीर्यति । पूर्यति । धातोरित्येव । नेह । दिवमिच्छति । दिव्यति । इह पुरमिच्छति पुर्यतीति माधवेनोक्तं प्रत्युदाहरणं चिन्त्यम् । पूर्गिरोः साम्यात् । दीव्यतीति दीर्घस्तु प्राचः प्रामादिक एव । अदस्यति । रीङृतः <{SK1234}> । कर्त्रीयति । क्यच्व्योश्च <{SK2119}> । गर्गीयति । वाच्यति । अकृत्सार्व - <{SK2298}> इति दीर्घः । कवीयति । समिध्यति ॥
index: 1.4.15 sutra: नः क्ये
क्यचि क्यङि च नान्तमेव पदं नान्यत् । नलोपः । राजीयति । नान्तमेवेति किम् ? वाच्यति । हलि च । गीर्यति । पूर्यति । धातोरित्येव । नेत - दिवमिच्छति दिव्यति ॥
index: 1.4.15 sutra: नः क्ये
व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'पदम्' इति संज्ञा । सुप्तिङन्तं पदम् 1.4.14 इत्यतः स्वादिष्वसर्वनामस्थाने 1.4.17 इत्येतैः चतुर्भिः सूत्रैः इयं संज्ञा दीयते । अस्य सूत्रसमूहस्य इदं द्वितीयं सूत्रम् । नकारान्तशब्दाः (यथा राजन्, चर्मन् एतादृशाः) 'क्य' इत्यनेन प्रारभ्यमाणे प्रत्यये परे (इत्युक्ते, क्यच् / क्यङ् / क्यष् प्रत्यये परे) पदसंज्ञकाः भवन्ति इति अस्य सूत्रस्य आशयः ।
अ) क्यच्-प्रत्ययः — सुप आत्मनः क्यच् 3.1.8 अनेन सूत्रेण सुबन्तेभ्यः 'आत्मनः इच्छति' अस्मिन् अर्थे क्यच्-प्रत्ययः विधीयते । यथा, 'राजानम् आत्मनः इच्छति' अस्मिन् अर्थे 'राजन्' शब्दात् सुप आत्मनः क्यच् 3.1.8 इत्यनेन क्यच्-प्रत्ययः भवति । अयम् क्यच्-प्रत्ययः 'क्य' इत्यनेन आरभते, अतः अस्मिन् प्रत्यये परे राजन्-शब्दस्य पदसंज्ञा भवति । पदसंज्ञायां सत्याम् नः लोपः प्रातिपदिकान्तस्य 8.2.7 इत्यनेन राजन्-इत्यस्य नकारस्य लोपः भवति । सम्पूर्णा प्रक्रिया इयम् —
राजानम् आत्मनः इच्छति
= राजानम् क्यच् [सुप आत्मनः क्यच् 3.1.8 इति क्यच्-प्रत्ययः]
→ राजन् य [क्यच्-इति सनादिप्रत्ययः अस्ति, अतः अत्र सनाद्यन्ता धातवः 3.1.32 इति धातुसंज्ञा विधीयते । अग्रे सुपो धातुप्रातिपदिकयोः 2.4.71 इत्यनेन धातौ विद्यमानस्य सुप्-प्रत्ययस्य लोपः भवति ।]
→ राज य [नः क्ये 1.4.15 इति राजन्-शब्दस्य पदसंज्ञा भवति । अतः नः लोपः प्रातिपदिकान्तस्य 8.2.7 इत्यनेन राजन्-इत्यस्य नकारस्य लोपः भवति]
→ राजीय क्यचि च [ क्यचि च 7.4.33 इत्यनेन ईत्वम् । सनाद्यन्ता धातवः 3.1.32 इति धातुसंज्ञा ]
अस्य धातोः अग्रे 'राजीयति, राजीयतः, राजीयन्ति' इति रूपाणि भवन्ति ।
आ) क्यङ्-प्रत्ययः — कर्तुः क्यङ् सलोपश्च 3.1.11 अनेन सूत्रेण सुबन्तेभ्यः 'इव आचरति' अस्मिन् अर्थे क्यङ्-प्रत्ययः विधीयते । यथा, 'राजा इव आचरति' अस्मिन् अर्थे 'राजन्' शब्दात्कर्तुः क्यङ् सलोपश्च 3.1.11 इत्यनेन क्यङ्-प्रत्ययः भवति । अयम् क्यङ्-प्रत्ययः 'क्य' इत्यनेन आरभते, अतः अस्मिन् प्रत्यये परे राजन्-शब्दस्य पदसंज्ञा भवति । पदसंज्ञायां सत्याम्, पूर्ववदेव नः लोपः प्रातिपदिकान्तस्य 8.2.7 इत्यनेन राजन्-इत्यस्य नकारस्य लोपः भवति । सम्पूर्णा प्रक्रिया इयम् —
राजा इव आचरति
= राजा क्यङ् [कर्तुः क्यङ् सलोपश्च 3.1.11 इति क्यङ्-प्रत्ययः]
→ राजन् य [क्यङ्-इति सनादिप्रत्ययः अस्ति, अतः अत्र सनाद्यन्ता धातवः 3.1.32 इति धातुसंज्ञा विधीयते । अग्रे सुपो धातुप्रातिपदिकयोः 2.4.71 इत्यनेन धातौ विद्यमानस्य सुप्-प्रत्ययस्य लोपः भवति ।]
→ राज य [नः क्ये 1.4.15 इति राजन्-शब्दस्य पदसंज्ञा भवति । अतः नः लोपः प्रातिपदिकान्तस्य 8.2.7 इत्यनेन राजन्-इत्यस्य नकारस्य लोपः भवति]
→ राजाय क्यचि च [ अकृत्सार्वधातुकयोर्दीर्घः 7.4.25 इति दीर्घः । सनाद्यन्ता धातवः 3.1.32 इति धातुसंज्ञा ]
अस्य धातोः अग्रे 'राजायते, राजायेते, राजायन्ते' इति रूपाणि भवन्ति ।
इ) क्यष्-प्रत्ययः — लोहितादिडाज्भ्यः क्यष् 3.1.13 अनेन सूत्रेण लोहितादिगणस्य शब्देभ्यः 'भवति' अस्मिन् अर्थे क्यष्-प्रत्ययः विधीयते । यथा, 'चर्म भवति' अस्मिन् अर्थे अस्मात् शब्दात् लोहितादिडाज्भ्यः क्यष् 3.1.13 इत्यनेन क्यष्-प्रत्ययः भवति । अस्मिन् प्रत्यये परे चर्मन्-शब्दस्य पदसंज्ञा भवति । पदसंज्ञायां सत्याम्, पूर्ववदेव नः लोपः प्रातिपदिकान्तस्य 8.2.7 इत्यनेन चर्मन्-शब्दस्य नकारस्य लोपः भवति । सम्पूर्णा प्रक्रिया इयम् —
चर्म भवति
= चर्म क्यष् [लोहितादिगणस्य आकृतिगणत्वात् 'चर्मन्' शब्दस्य तत्र समावेशं कृत्वा लोहितादिडाज्भ्यः क्यष् 3.1.13 इति क्यष्-प्रत्ययः ।]
→ चर्मन् य [क्यष्-इति सनादिप्रत्ययः अस्ति, अतः अत्र सनाद्यन्ता धातवः 3.1.32 इति धातुसंज्ञा विधीयते । अग्रे सुपो धातुप्रातिपदिकयोः 2.4.71 इत्यनेन धातौ विद्यमानस्य सुप्-प्रत्ययस्य लोपः भवति ।]
→ चर्म य [नः क्ये 1.4.15 इति चर्मन्-शब्दस्य पदसंज्ञा भवति । अतः नः लोपः प्रातिपदिकान्तस्य 8.2.7 इत्यनेन चर्मन्-इत्यस्य नकारस्य लोपः भवति ।]
→ चर्माय क्यचि च [ अकृत्सार्वधातुकयोर्दीर्घः 7.4.25 इति दीर्घः । सनाद्यन्ता धातवः 3.1.32 इति धातुसंज्ञा ]
अस्य धातोः अग्रे 'चर्मायति, चर्मायतः, चर्मायन्ति' इति रूपाणि भवन्ति ।
क्यच्, क्यङ्, क्यष् एते त्रयः प्रत्ययाः भिन्नैः सूत्रैः सुबन्तेभ्यः एव प्रोक्ताः सन्ति । सुबन्तानां तु सुप्तिङन्तं पदम् 1.4.14 इत्यनेन मूलरूपेणैव पदसंज्ञा वर्तते । अतः प्रकृतसूत्रेण (पुनः) उक्ता पदसंज्ञा व्यर्था वा, इति प्रश्ने कृते <!सिद्धे सति आरम्भः नियमार्थः!> इति वचनेन अनेन सूत्रेण केवलम् नकारान्तशब्दानाम् एव क्य-परे पदसंज्ञा भवेत्, अन्येषाम् शब्दानाम् न भवेत् - इति नियमः उच्यते । यथा - 'वाचम् आत्मनः इच्छति' अस्मिन् अर्थे 'वाचम्' शब्दस्य क्यच्-प्रत्यये परे सुप्तिङन्तं पदम् 1.4.14 इत्यनेन प्राप्ता पदसंज्ञा प्रकृतसूत्रेण निषिध्यते । अतएव 'वाच् + क्यच्' इत्यत्र चोः कुः 8.2.30 इत्यनेन कुत्वं न विधीयते, अतः 'वाच्य' एषः एव धातुः सिद्ध्यति । समग्रा प्रक्रिया इयम् -
वाचम् आत्मनः इच्छति
= वाचम् क्यच् [सुप आत्मनः क्यच् 3.1.8 इति क्यच्-प्रत्ययः]
→ वाच् य [क्यच्-इति सनादिप्रत्ययः अस्ति, अतः अत्र सनाद्यन्ता धातवः 3.1.32 इति धातुसंज्ञा विधीयते । अग्रे सुपो धातुप्रातिपदिकयोः 2.4.71 इत्यनेन धातौ विद्यमानस्य सुप्-प्रत्ययस्य लोपः भवति ।]
→ वाच् य [क्य-प्रत्यये परे नः क्ये 1.4.15 इति केवलं नकारान्तस्यैव पदसंज्ञा भवति । अतः अत्र 'वाचम्' शब्दस्य सुप्तिङन्तं पदम् 1.4.14 इत्यनेन पदसंज्ञायां प्राप्तायाम् सा निषिध्यते । पदसंज्ञायाः अभावे चोः कुः 8.2.30 इत्यनेन कुत्वमपि नैव प्रवर्तते ।]
→ वाच्य सनाद्यन्ता धातवः 3.1.32 इति धातुसंज्ञा ]
अस्य धातोः अग्रे 'वाच्यति, वाच्यतः, वाच्यन्ति' इति रूपाणि भवन्ति ।
index: 1.4.15 sutra: नः क्ये
नः क्ये - नः क्ये । नकारादकार उच्चारणार्थः ।सुप्तिङन्त॑मित्यतः सुबन्तं पदमित्यनुवर्तते । सुबन्तं नकारेण विशेष्यते । तदन्तविधिः । नकारान्तं सुबन्तं पदसंज्ञं स्यादिति लभ्यते । सुबन्तत्वादेव पदत्वे सिद्धे नियमार्थमिदम् । क्यग्रहणेन क्यच्क्यङोग्र्रहणं न तु क्यषः,लोहितडाज्भ्यः क्यष्वचन॑मिति वक्ष्यमाणतया हलन्तात्क्यषोऽभावात् । तदाह क्यचि क्यङि चेत्यादिना । ननु गव्यांचकारेत्यत्र आम आर्धधातुकावादेशसंपन्नवकारस्य यकारलोपं प्रति निमित्तत्वाऽसंभवादिति भावः । गव्यितेति । इटि अतो लोपः । राजीयतीत्यत्र आह — नलोप इति । राजानमिच्छतीत्यर्थे क्यचि राजन् य तीतिस्थिते 'नः क्ये' इति पदत्वान्नकारस्य लोप इत्यर्थः । कृते नलोपेक्यचि चे॑त्यकारस्य ईत्त्वमिति मत्वाह — राजीयतीति । न च ईत्त्वे कर्तव्ये नलोपस्याऽसिद्धत्वं शङ्क्यं,नलोपः सुप्स्वरे॑ति नियमादित्यलम् । ननु त्वामात्मन इच्छति, मामात्मन इच्छतीत्यत्र युष्मदस्मद्भ्यां क्यचि धात्ववयवत्वात्सुपो लुकि प्रत्ययलक्षणाऽभावात् 'त्वमावेकवचने' इति कथं त्वमौ स्यातां, विभक्तौ परत एव तद्विधानादित्यत आह — प्रत्ययोत्तरपदयोश्चेति । सुपो लुका लुप्तत्वेऽपि क्यचमादाय मपर्यन्तस्य त्वमाविति भावः । ननु युष्मानात्मन इच्छति, अस्मानात्मन इच्छति- युष्मद्यति अस्मद्यतीत्यत्रापि क्यचमादाय त्वमौ स्यातामित्यत आह — एकार्थयोरित्येवेति । प्रत्ययोत्तरपदयोश्चे॑त्यत्र 'त्वमावेकवचने' इति सूत्रमनुवृत्तम् । एकवचनशब्दश्च न रूढः, किंतु एकत्वविशिष्टार्थवृत्तित्वमेकवचनशब्देन विवक्षितमिति युष्मदस्मत्प्रक्रियायां प्रपञ्चितं प्राक् । तथा च युष्मदस्मदोरेकत्वविशिष्टार्थवृत्तित्वाऽभावान्न त्वमाविति भावः । गिरमात्मन इच्छति, पुरमात्मन इच्छतीत्यत्र गिर्शब्दात्पुर्शब्दाच्च क्यचि विशेषमाह — हलि चेति । 'उपधादीर्घ' इति शेषः । ननु दिवमिच्छति दिव्यतीत्यत्रापिहलि चे॑ति दीर्घः स्यादित्यत आह — धातोरित्येवेति ।हलि चे॑ति सूत्रेसिपि धातो॑रित्यस्तदनुवृत्तेरिति भावः । दिव्यतीति । दिव्शब्दोऽव्युत्पन्नं प्रातिपदिकमिति भावः । इहेति ।हलि चे॑ति सूत्रे धातोरित्यनुवृत्तेः पुर्यतीत्यत्र न दीर्घ इति माधवग्रन्थश्चिन्त्य इत्यर्थः । कुत इत्यत आह — पुर्गिरोः साम्यादिति । 'गृ शब्दे' 'पृ पालनपूरणयोः' इत्याभ्यां क्विपिऋत इद्धातोटरितिउदोष्ठपूर्वस्ये॑ति च इत्त्वे उत्त्वे च कृते रपरत्वे गिर्शब्दस्य च निष्पत्तेरिति भावः । प्रामादिक एवेति । दिव्शब्दस्याऽव्युत्पन्नप्रातिपदिकत्वान्न धातुत्वम् । दिव्धातोः क्विबन्तादूठि द्यूशब्दाच्च क्यचिद्यूयती॑त्येव उचितम् । विचि तु लघुपधगूणेलोपो व्यो॑रिति लोपे देशब्दात् क्यचि देयतीत्येवोचितमिति भावः । अदस्यतीति । अमुमात्मन इच्छतीत्यर्थे अदस्शब्दात्क्यचि सुपो लुका लुप्तत्वाद्विभक्तिपरकत्वाऽभावान्न त्यदाद्यत्वम् । सान्तत्वान्नोत्त्वमत्त्वे । 'नः क्ये' इति नियमेन पदान्तत्वाऽभावान्न सस्य रूत्वमिति भावः । कर्तृशब्दात्क्यचि विशेषमाह — रीङृत इति । गाग्र्यशब्दात्क्यचि विशेषमाह — क्यच्व्योश्चेति । आपत्यस्य यञो यकारस्य लोप इति भावः । कृते यलोपेक्यचि चे॑त्यकारस्य ईत्त्वं मत्वाह — गार्गीयतीति । वात्सीयतीति । वात्स्यशब्दात्क्यचि पूर्ववत् । कविशब्दात्क्यचि विशेषमाह — अकृत्सार्वेति । वाच्यतीति । वाच्शब्दात्क्यचि 'नः क्ये' इति नियमेन पदत्वाऽभावान्न कुत्वम् ।वचिस्वपी॑ति संप्रसारणं तु न,धातोः कार्यमुच्यमानं धातुविहितप्रत्यये एवे॑ति नियमात् । समिध्यतीति । समिध्शब्दात्क्यचि 'नः क्ये' इति नियमेन पदत्वाऽभावान्न जश्त्वम् । लुटस्तासि इटिसमिध्य इता इति स्थिते 'यस्य हलः' इति नित्ये यलोपे प्राप्ते —
index: 1.4.15 sutra: नः क्ये
क्य इति क्यच्क्यष्क्यङमिति।'संज्ञायां समज' इत्यस्य तु क्यपोग्रहणं न भवति; प्रयोजनभावात्। न तावन्मन्येत्यत्र नलोपः प्रयोजनम्, सत्यपि पदत्वेऽप्रातिपदिकत्वात्;सुबन्तमित्यनुवृतेर्वा क्यपि विध्यर्थमेतन्न भवति। ननु क्यजादयः सुबन्ताद्धिधीयन्त इति प्रत्ययलक्षणेन सिद्धं पदत्वम्, नार्थ एतेन तत्राह-सिद्धे सतीति। नान्तमेवेति। क्य एव नान्तमित्येवं तु विपरीतनियमो न भवति;'न ङसिम्बुद्ध्योः' इति निषेधात्। वाच्यतीति। अत्र पदत्वाभावात्कुत्वजश्त्वे न भवतः ये तु गोसमानाक्षरनान्तादेव क्यज् भवति, नान्येभ्य इत्याहुः, तेषां क्यङ्क्यषोरेव नियमस्य व्यावर्त्यं प्रदर्शनीयम्-तपस्यतीत्यादौ॥