यस्य हलः

6-4-49 यस्य हलः असिद्धवत् अत्र आभात् नलोपः आर्धधातुके लोपः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

हल उत्तरस्य यशब्दस्यार्धधातुके लोपो भवति। बेभिदिता। बेभिदितुम्। बेभिदितव्यम्। यस्येति संघातग्रहणमेतत्। तत्र <<अलोऽन्त्यस्य>> १.१.५२ इत्येतद् न भवति, <<अतो लोपः>> ६.४.४८ इत्यनेनैव तस्य सिद्धत्वात्। हल इति वा पञ्चमीनिर्देशः, तत्र <<आदेः परस्य>> १.१.५४ इति यकारोऽनेन लुप्यते। संघातग्रहणं किम्? ईर्ष्यिता। मव्यिता। हल इति किम्? लोलूयिता। पोपूयिता॥

Siddhanta Kaumudi

Up

यस्येति संघातग्रहणम् । हलः परस्य यशब्दस्य लोपः स्यादार्धधातुके । आदेः परस्य <{SK44}> । अतो लोपः <{SK2308}> । सोसूचांचक्रे । सोसूचिता । सोसूत्रिता । मोमूत्रिता ॥

Laghu Siddhanta Kaumudi

Up

यस्येति संघातग्रहणम्। हलः परस्य यशब्दस्य लोप आर्धधातुके। आदेः परस्य। अतो लोपः। वाव्रजाञ्चक्रे। वाव्रजिता॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

यस्येति यद्यागन्तुकोऽकारः, ततो वर्णग्रहणम्, अन्यथा तु सङ्घातग्रहणमिति पक्षद्वयसम्भवादाह - यस्येति सङ्घातग्रहणमिति । श्रुतस्याकारस्याविवक्षायां कारणाभावादिति भावः अतो लोप इत्यनेनैव सिद्धत्वादिति । अस्तु तर्हि नियमः यस्य हल एव नान्यतः, लोलूयितका, पोपूयिता, कैमर्थ्याद्धि नियमो भवति निधेयं नास्तीति कृत्वा इह चास्ति विधेयम्, किमन्त्यस्य लोपः प्राप्तः सर्वस्य विधेयः । तत्रापूर्वो विधिरस्तु, नियमो वेति अपूर्वो विधिरेव भविष्यति । एवमपि क्यस्य विभाषायां दोषः - समिधमिच्छति समिध्यति, समिध्यतेस्तृच, इट् , समिधिता, यदा लोपस्तदा सर्वस्य लोपः, यदा त्वलोपपक्षस्तदा सर्वस्यालोपः प्राप्नोति, सङ्घतग्रहणे हि यस्य हलः इत्यनेन येननाप्राप्तिन्यायेन अतो लोपो बाध्यः, यलोपोऽपि क्यस्य विभाषा इति विकल्पेन बाध्यः, ततश्च पक्षे सङ्घातस्यैव श्रवणं स्यात्, यलोपवदाल्लोपस्यापि विकल्पेन बाधनात् इत्यत आह - हल इति वेत्यादि । एवं च क्यस्य विभाषा इति यकारस्यैव विकल्पेन लोपः, अकारस्य तु अतो लोपः इत्यनेन नित्यमिति सिद्धिमष्टम्, अवश्यं चातो लोप एवात्रैष्टव्यः, अन्यथा पापचक इत्यादौ अत उपधायाः इति वृद्धिः स्यात्, स्थानिवद्भावान्न भवति । तस्मात्सङ्ङ्घातस्य ग्रहणम्, अवयवशस्तु लोप इति, तदेव युक्तम् । मव्यितेति । मव्यतिः संयोगान्तोऽस्ति, ज्वरत्वारादिसूत्रे तु वकारान्त उदादृतः ॥