वान्तो यि प्रत्यये

6-1-79 वान्तः यि प्रत्यये संहितायाम् अचि एचः

Sampurna sutra

Up

एचः यि-प्रत्यये वान्तः संहियाताम्

Neelesh Sanskrit Brief

Up

ओकार-औकारयोः यकारादि-प्रत्यये परे संहितायाम् क्रमेण अव्/आव् आदेशौ भवन्तः ।

Neelesh English Brief

Up

An ओकार and an औकार are respectively converted to अव् and आव् when followed by a यकारादि प्रत्यय, in the context of संहिता.

Kashika

Up

योऽयमेचः स्थाने वान्तादेश ओकारस्य अव्, औकारस्याव्, स यकारादौ प्रत्यये परतो भवति। बाभ्रव्यः। माण्डव्यः। शङ्कव्यं दारु। पिचव्यः कार्पासः। नाव्यो ह्रदः। वान्त इति किम् ? रायमिच्छति रैयति। यीति किम् ? गोभ्याम्। नौभ्याम्। प्रत्यय इति किम् ? गोयानम्। नौयानम्॥ गोर्यूतौ छन्दसि॥ गोशब्दस्य यूतौ परतश्छन्दसि विषये वान्तादेशो वक्त व्यः। आ नो मित्रावरुणा घ्ाृतैर्गव्यूतिमुक्षतम् (ऋ० ३.६२.१६)। छन्दसीति किम् ? गोयूतिः॥ अध्वपरिमाणे च॥ गोर्यूतौ परतो वान्तादेशो वक्त व्यः। गव्यूतिमात्रमध्वानं गतः॥

Siddhanta Kaumudi

Up

यकारादौ प्रत्यये परे ओदौतोरव् आव् एतौ स्तः । गोर्विकारो गव्यम् । गोपयसोर्यत् <{SK1538}> इति यत् । नावा तार्यं नाव्यम् ।नौवयोधर्म <{SK1643}> इत्यादिना यत् ॥<!गोर्यूतौ छन्दस्युपसङ्ख्यानम् !> (वार्तिकम्) ।अध्वपरिमाणे च (वार्तिकम्) <{SK3544}> ॥ गव्यूतिः । ऊतियूति <{SK3274}> इत्यादिना यूतिशब्दो निपातितः । वान्तः इत्यत्र वकाराद्गोर्यूतावित्यत्र छकाराद्वा पूर्वभागे लोपो व्योर्वलि <{SK873}> इति लोपेन वकारः प्रश्लिष्यते । तेन श्रूयमाणवकारान्त आदेशः स्यात् । वकारो न लुप्यत इति यावत् ॥

Laghu Siddhanta Kaumudi

Up

यकारादौ प्रत्यये परे ओदौतोः अव् आव् एतौ स्तः। गव्यम्। नाव्यम्। <<अध्वपरिमाणे च>> (वार्त्तिकम्) गव्यूतिः॥

Neelesh Sanskrit Detailed

Up

<<एचोऽयवायावः>> 6.1.78 इति सूत्रेण एच्-वर्णस्य स्थाने अचि परे यः वान्तः (वकारान्तः) आदेशः उच्यते, सः यकारादिप्रत्यये परे अपि भवति इति अस्य सूत्रस्य अर्थः । <<एचोऽयवायावः>> 6.1.78 इत्यस्मिन् सूत्रे आहत्य द्वौ वान्तौ आदेशौ पाठितौ स्तः - ओकारस्य स्थाने अव्, तथा च औकारस्य स्थाने आव् । एतयोः द्वयोः एव विषये यकारादौ प्रत्यये परे इदं सूत्रं प्रवर्तते । तत्र यथासङ्ख्यत्वात् ओकारस्य स्थाने अव्-आदेशः तथा औकारस्य स्थाने आव्-आदेशः विधीयते । यथा — 1. ओकारस्य अवादेशः — गोः विकारः [तद्धितवृत्तिः] → गो + यत् [<<गोपसोर्यत्>> 4.3.160 इत्यनेन यत्-प्रत्ययः] → गव् + य [<<वान्तो यि प्रत्यये>> 6.1.79 इति ओकारस्य अव्-आदेशः] → गव्य अन्यद् उदाहरणम् — बभ्रोः गोत्रापत्यम् [तद्धितवृत्तिः] बभ्रु + यञ् [<<मधुबभ्र्वोर्ब्राह्मणकौशिकयोः>> 4.1.106 इति यञ्-प्रत्ययः] → बाभ्रु + यञ् [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः ] → बाभ्रो + यञ् [<<ओर्गुणः>> 6.4.146 इत्यनेन गुणः] → बाभ्रव् + य [<<वान्तो यि प्रत्यये>> 6.1.79 इति ओकारस्य अव्-आदेशः] → बाभ्रव्य 2) औकारस्य स्थाने आव्-आदेशः — नावा तार्यम् [तद्धितवृत्तिः] → नौ + यत् [<<नौवयोधर्मविषमूल...>> 4.4.91 इति यत्-प्रत्ययः] → नाव् + यत् [<<वान्तो यि प्रत्यये>> 6.1.79 इति औकारस्य आव्-आदेशः] → नाव्य अन्यद् उदाहरणम् — नावम् आत्मनः इच्छति [सनाद्यन्तधातुवृत्तिः] नौ + क्यच् [<<सुप आत्मनः क्यच्>> 3.1.8 इति क्यच्-प्रत्ययः] → नाव्+ य [<<वान्तो यि प्रत्यये>> 6.1.79 इति औकारस्य आव्-आदेशः ] → नाव्य [<<सनाद्यन्ता धातवः>> 3.1.32 इति धातुसंज्ञा] अस्य सूत्रस्य प्रसक्तिः केवलम् प्रातिपदिकेभ्यः विहितानाम् प्रत्ययानाम् विषये एव भवति, यतः धातुभ्यः विहितानां प्रत्ययानां विषये एतं सूत्रं बाधित्वा <<धातोस्तन्निमित्तस्यैव>> 6.1.80 इति अग्रिमं सूत्रं प्रवर्तते । गो-शब्दात् संहितायाम् यूति-शब्दः 'यूति' इति शब्दः <<ऊतियूतिजूतिसातिहेतिकीर्तयश्च>> 3.3.97 अनेन सूत्रेण निपात्यते । अयम् शब्दः यदा 'गो' इत्यस्मात् अनन्तरपम् संहितायाम् प्रयुज्यते, तदा गो + यूति इत्यत्र कासुचन स्थितिषु गो-शब्दस्य ओकारस्य अवादेशं कृत्वा गव्यूति इति रूपं सिद्ध्यति । अस्मिन् सन्दर्भे वार्त्तिककारः द्वे वार्त्तिके पाठयति — 1. <!गोर्यूतौ छन्दस्युपसङ्ख्यानम्!> — वेदेषु 'यूति'-शब्दे परे गो-शब्दस्य ओकारस्य स्थाने अव्-इति वान्तादेशः भवति । यथा — आ नो मित्रावरुणा घृतैर्गव्यूतिमुक्षतम्' (ऋग्वेदः - 3.62.16) —इत्यत्र 'गव्यूति' इति शब्दः 'गावः यस्मिन् भूमौ चरन्ति सा' — इत्यर्थे प्रयुक्तः अस्ति । 2. <!अध्वपरिमाणे च!> — मार्गपरिमाणम् (इत्युक्ते, अन्तरस्य गणनाम्) दर्शयितुम् गो + यूति इत्यत्र ओकारस्य वान्तादेशः भवति । यथा - गव्यूतिमात्रम् अध्वानं गतः इति प्रयोगः भाषायां दृश्यते । सः केवलं एकगव्यूतिम् यावत् अन्तरं गतवान् इत्यर्थः । सामान्यरूपेण 1 गव्यूतिः = 0.25 योजनम् = 2.27 miles = 3.65 km. गो + यूति इत्यत्र ओकारस्य अव्-आदेशे कृते <<हलि सर्वेषाम्>> 8.3.22 इत्यनेन प्राप्तः वैकल्पिकः वकारलोपः न भवति । अस्य स्पष्टीकरणार्थम् सिद्धान्तकौमुद्यां दीक्षितः वदति — वान्तः इत्यत्र वकाराद् गोर्युतौ इत्यत्र छकाराद् वा पूर्वभावे लोपो व्योर्वलि इति लोपेन वकारः प्रश्लिष्यते । तेन श्रूयमाणवकारान्तः आदेशः स्यात् । वकारः न लुप्यते इति यावत् । सिद्धान्तकौमुदी - 6.1.79 ॥ 'वान्तः' इति शब्दः वस्तुतः 'व्वान्तः' इति द्वि-वकारकः अस्ति, एवमेव प्रथमवार्त्तिके 'छन्दसि' इति शब्दः 'व्छन्दसि' इति वकारादिः ग्रहीतव्यः — इति अत्र दीक्षितः प्रतिपादयति । अत्र वकारस्य अधिकरूपेण ग्रहणम् 'वकारस्य लोपः मा भूत्' इति ज्ञापयितुम् क्रियते (using an unnecessary copy of a letter to stress that such a letter must always be present), अतः प्रक्रियायाम् <<हलि सर्वेषाम्>> 8.3.22 इत्यनेन प्राप्तः वकारलोपः न भवति । एतस्य अधिकवकाेरस्य लोपः तु <<लोपो व्योर्वलि>> 6.1.66 इत्यनेन अवश्यं भवति, अतः सूत्रे अपि 'वान्तः' / 'छन्दसि' इति एकवकारकः शब्दः एव श्रूयते । भाष्ये तु अस्मिन् विषये किमपि प्रतिपादितं न दृश्यते ।

Balamanorama

Up

<<वान्तो यि प्रत्यये>> - वान्तो यि प्रत्यये ।यि॑इति सप्तम्यन्तम् । तेन यकारादाविति लभ्यते ।यस्मिन्विधिस्तदादावल्ग्रहणे॑ इति वार्त्तिकात् । तत्र यस्मिन्निति सप्तम्यन्तं विवक्षितम् । अलिति वर्णपर्यायः । सप्तम्यन्ते वर्णग्रहणे यो विधिः स तद्वर्णादौ ज्ञेय इति तदर्थः । येन विधिरित्यस्यायमपवादः । वकारोऽन्ते यस्य स वान्तः । पूर्वसूत्रोपात्तोऽवादेश आवादेशश्च विवक्षितः । तौ च कयोर्भवत इत्याकाङ्क्षायामोदौतोरित्यर्थाल्लभ्यते, पूर्वसूत्रे तयोरेव तदुभयस्थानित्वेन कॢप्तत्वात् । तदाह — यकारादावित्यादिना । गव्यमिति । गो — य इति स्थिते ओकारस्याऽच्परकत्वाऽभावादेचोऽयवायाव इत्यप्राप्तेऽवादेशोऽत्र विधीयते । अस्ति चात्र यु इत्यस्य प्रत्ययत्वमित्याह — गोपयसोर्यदिति ।अनेन सूत्रेण गोशब्दाद्विकारार्थे यत्प्रत्यय॑ इति शेषः नाव्यमिति । नौ-य इति स्थिते औकारस्य अचपरकत्वाऽभावादेचोऽयवायाव इत्यप्राप्तेऽवादेशोऽत्र विधीयते । अस्ति चात्र य इत्यस्य प्रत्ययत्वमित्याह — गोपयसोर्यदिति ।अनेन सूत्रेण गोशब्दाद्विकारार्थे यत्प्रत्यय॑ इति शेषः । नाव्यमिति । नौ — य इति स्थिते औकारस्य अच्परकत्वाऽभावादेचोऽयवायाव इत्यप्राप्ते वचनमिदम् । अस्ति चात्र य इत्यस्य प्रत्ययत्वमित्याह — नौवय इति । गव्यं नाव्यमित्यत्र लोपः शाकल्यस्येति हलि सर्वेषामिति च वकारस्य लोपो न भवति, तयोः पदान्तविषयत्वात्, इह च भत्वेन पदत्वबाधात् । गोर्यूतौ छन्दस्युपसंख्यानम् । छन्दसि=वेदे यूतिशब्दे परे गोशब्दावयवस्य ओकारस्य स्थाने अविति वान्तादेसो भवतीति उपसंख्यानम्धिकवचनं कर्तव्यमिति सूत्रकारः शिक्ष्यते ।आ नो मित्रावरुणा घृतैर्गंव्यूतिमुक्षत॑मित्युदाहरणम् । गव्यूतिः=गोप्रचारभूमिः । गावो यूयन्ते मिश्र्यन्तेऽस्यामित्यधिकरणे युधातो क्तिनिति वेदभाष्ये भट्टभास्करः । अत्र यूतिशब्दस्य प्रत्ययत्वाऽभावात्तस्मिन् परतोवान्ते यि प्रत्यये॑ इत्यप्राप्तौ वचनमिदम् । अध्वपरिमाणे च मार्गपरिमाणविशेषे गम्येऽपि यूतिशब्दे परे गोशब्दावयवस्य ओकारस्य अविति वान्तादेशस्य उपसङ्ख्यानं कर्तव्यमित्यर्थः । लोकेऽपि प्राप्त्यर्थमिदम् । यद्यपि पूर्ववार्तिकं वैदिकप्रक्रियायामेव उपन्यसनीयं, तथाप्यत्राऽनुवृत्तिबोधसौकर्यार्थमिह तदुपन्यासः । गव्यूतिरिति । यावति गोशब्दो यूयते मिश्र्यते श्रूयते तावानध्वा गव्यूति-क्रेशयुगम् ।गव्यूतिः स्त्री कोशयुग॑मित्यमरः । युधातोरधिकरणे क्तिन् । कथमिह युधातोदीर्घ इत्यत आह — ऊतियूतीति । निपातनादेव दीर्घ इति भावः । सिद्धप्रक्रियस्य निर्देशो निपातनम् । ननु गव्यं नाव्यमित्यत्र भत्वेन पदत्वबाधाल्लोपः शाकल्यस्येतिहलि सर्वेषा॑-मिति च वलोपाभावेऽपि गव्यूतिरित्यत्र लोपः स्यात्, अन्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वात् यूतिशब्दस्य यजादि-स्वादिप्रत्यत्वाऽभावेन तस्मिन् परतो भत्वाऽभावाच्चेत्यत आह — वान्त इत्यत्रेत्यादि । 'वान्तो यि प्रत्यय' इत्यत्र वकाराद्गोर्यूतावित्यत्र छकाराद्वा पूर्वभागे वकारः प्रश्लिष्यत इत्यन्वयः । तर्हि व् वान्त इति, व् छन्दसीति च वकारः कुतो न श्रूयत इत्यत आह-लोपो व्योरितिलोपेनेति । 'अन्तर्हित' इति शेषः । ननु प्रश्लेष#ए सति किमायातमित्यत आह — तेनेति ।वान्ते यी॑ति सूत्रे वकरात् प्राग्विति प्रश्लिष्यमाणं वान्तस्य विशेषणम् । विशेषणत्वाच्च तदन्तविधौ सति वकारान्त इति लभ्यते । तत्र वान्तस्य पुनर्वान्तत्ववचनसामर्थ्यात्च्छयमाणवकारवान् वान्त आदेशः स्यादिति लभ्यते । गोर्यूतावित्यत्र चेदमेव वान्तग्रहणमनुवर्तत इति तत्रापि श्रूयमाणवकारवान् वान्तादेश इति लभ्यते । गोर्यूतावित्यत्र छकारात्प्राग्विति प्रश्लिष्यमाणमपि पूर्वसूत्रादनुवृत्तस्य वान्त #इत्यस्य विशेषणमिति तदन्तविधिना वान्तत्वलाभे वान्तस्य पुनर्वान्कतत्ववचनसामर्थ्याच्छयमाणवकारवानिति लभ्यत इत्यर्थः । नन्वेतावता गव्यूतिरित्यत्राऽवादेशे वकारस्य श्रूयमाणत्वलाभेऽपि लोपशङ्का न परिह्मतेत्यत आह — वकारो न लुप्यत इति यावदिति । वकारस्य श्रूयमाणत्ववचनं वकारो न लुप्यत इत्यर्थे पर्यवसन्नमित्यर्थः, अश्रवणस्यैव, लोपशब्दार्थत्वादिति बावः । यद्यपिवान्तो यी॑ति सूत्रे वकारप्रश्लेषस्य तदुदाहरणे गव्यं नाव्यमित्यत्र प्रयोजनं नास्ति, तत्र भत्वेन पदत्वस्य बाधेनोक्तलोपस्याऽप्राप्तेः । लव्यमित्यादौ स्वत #एव पदत्वाऽभावाल्लोपस्याऽप्राप्तिः । गामिच्छति गव्यतीत्यत्र क्यजन्तेऽपि वकारस्य न लोपप्रसक्तिः, ' न क्ये' इति नियमेन तत्र पदत्वाऽभावात् । तथापि गोर्यूताविति वार्तिके तदनुवृत्तौ गव्यूतिरित्यत्र प्रयोजनमस्त्येव । एवं च वार्तिक एवन तत्प्रश्लेष उचितः । एतस्मादेवाऽस्वरसाच्छकाराद्वेत्युक्तम् । वस्तुतस्तु वकार प्रश्लेषोऽनुपपन्नः, तथा सति सूत्रे वार्तिके च प्रश्लिष्टस्य तस्य श्रवणप्रसङ्गात् । न चलोपो व्यो॑रिति लोपात्तदश्रवणमिति वाच्यम्,वकारलोपस्य उदाहरणाऽभावाद्वकारग्रहणं न कर्तव्य॑मिति लोपो व्योरिति सूत्रस्थभाष्यविरोधात् । अतोऽत्र प्रश्लिष्टवकारस्य छान्दस एव लोपो वर्णनीयः । प्रक्रियाप्रकाशे तुसंज्ञापूर्वको विधिरनित्य॑ इति वचनाद्रव्यूतिरित्यत्र न वकारलोप इत्युक्तम् । अन्येत्विको गुणवृद्धी इति सूत्रे अतो लान्तस्येत्त्र लुप्तनिर्दिष्टो वकार इति भाष्यप्रामाण्यात् क्वचिदस्ति वकारलोप इत्याहुः ।

Padamanjari

Up