3-3-99 सञ्ज्ञायां समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् स्त्रियां उदात्तः क्यप्
भाव इति न स्वर्यते। पूर्व एवात्रार्थाधिकारः। समजादिभ्यो धातुभ्यः स्त्रियां क्यप् प्रत्ययो भवत्युदात्तः संज्ञायां विषये। समजन्त्यस्यामिति समज्या। निषद्या। निपत्या। मन्या। विद्या। सुत्या। शय्या। भृत्या। इत्या। कथं तदुक्तम् — <<स्त्रियां भावाधिकारोऽस्ति तेन भार्या प्रसिध्यति>> इति? भावाधिकारो भावव्यापारो वाच्यत्वेन विवक्षितः, न तु शास्त्रीयोऽधिकारः॥
समजादिभ्यः स्त्रियां भावादौ क्यप्स्यात्स चोदात्तः सञ्ज्ञायाम् ॥<!अजेः क्यपि वीभावो नेति वाच्यम् !> (वार्तिकम्) ॥ समजन्त्यस्यामिति समज्या सभा । निषीदन्त्यस्यामिति निषद्या आपणः । निपतन्त्यस्यामिति निपत्या पिच्छिला भूमिः । मन्यतेऽनयेति मन्या गलपार्श्वशिरा । विदन्त्यनया विद्या । सुत्या । अभिषवः । शय्या । भृत्या । ईयतेऽनया इत्या शिबिका ॥
भाव इति न स्वर्यत इति । पूर्वसूत्रे यद्भावग्रहणं तस्येहास्वरितत्वान्नानुवृत्तिरित्यर्थः । समज्येति । घञपोः प्रतिषेधे क्यप उपसंख्यानमिति वचनाद्वीभावाभावः । अन्ये तु सज्ञायामित्येव क्यपो विधानात् रूढ।ल्नुगमार्थत्वाच्च संज्ञाग्रहणस्य वीभावाभावमाहुः । न हि वीभावे सति संज्ञा गम्यते । समज्याउसभा, निषद्याउआपणः, निपत्याउपिच्छिला भूमिः, मन्याउ गलपार्श्वशिरा मन्यन्तेऽनयेति कृत्वा । तया हि क्रुद्धो ज्ञायते । क्यपोऽझलादित्वाद् ठनुदातोपदेशऽ इत्यनुनासिकलोपोन भवति, तदभावातुगपि न भवति । अन्ये तु - संज्ञायामिति वचनाद्यथा समज्येत्यत्र वीभावो न भवति, एवं मनेरनुनासिकलोपस्तत्र कृते तुगपीत्याहुः; नात्राप्तवचनमस्ति । विद्यते गृह्यतेऽनयार्थैति विद्या । सूयतेभिषूयते सोमोऽस्यामिति सुत्याउअभिषवदिवसः । सुत्यमहरुतममिति त्वार्षं नपुंसकत्वम्, शय्यतेऽस्यामिति शय्याउखट्वादिः, भरणं भृत्याउजीविका, ईयते गम्यतेनयेतीत्याउदीपिका ।'भृञोसंज्ञायाम्' इत्यत्रोक्तम् -'स्त्रियां भावाधिकारो' स्ति तेन भार्या प्रसिद्ध्यतिऽ इति, इह तु'भाव इति न स्वर्यते' इत्युक्तम्, तत्र पूर्वापरविरोधं मन्यमानः पृच्छति - कथं तदुक्तमिति । परिहरति - भावाधिकार इति । संज्ञायामित्युच्यते, भऋञश्च भाव एवोत्पद्यमानेन क्यपा संज्ञा गम्यते अतः संज्ञावशाद्योऽयं भावस्य भृत्याशब्दवाच्यत्वेन व्यापारः स एव तंत्र भावाधिकारो विवक्षितः, न तु शास्त्रीयः स्वरितत्वनिबन्धन इत्यर्थः । संज्ञायामिति वर्तमाने पुनः संज्ञाग्रहणं भावार्थम्, पूर्वकं हि संज्ञाग्रहणं कारकेण सम्बद्धम् । असंज्ञायां तु क्तिन्नेव भवति ॥