क्यच्व्योश्च

6-4-152 क्य च्व्योः च असिद्धवत् अत्र आभात् भस्य लोपः यः हलः आपत्यस्य तद्धिते

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

क्य च्वि इत्येतयोश्च परत आपत्ययकारस्य हल उत्तरस्य लोपो भवति। वात्सीयति। गार्गीयति। वात्सायते। गार्गायते। च्वौ — गार्गीभूतः। वात्सीभूतः। आपत्यस्येत्येवसांकाश्यायते। सांकाश्यीभूतः। हल इत्येव — कारिकेयीयति। कारिकेयीभूतः॥

Siddhanta Kaumudi

Up

हलः परस्यापत्ययकारस्य लोपः स्यात् क्ये च्वौ च परतः । गार्गीभवति ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<क्यच्व्योश्च>> - गार्गीभवतीति वक्ष्यन्नाह — क्यच्व्योश्च । 'अल्लोपोऽनः' इत्यस्माल्लोप इति,हलस्तद्धितस्ये॑त्यस्माद्धल इति , 'सूर्यतिष्ये' त्यतो य इति,आपत्यस्य चे॑त्यस्मादापत्यस्येति चानुवर्तते । तदाह — हलः परस्येति । गार्गीभवतीति । आगाग्र्यो गार्ग्यः संपद्यमानो भवतीत्यर्थः । यञन्ताच्च्वौ यकारस्य लोपः । वेर्लोपः । यकारस्य तुआपत्यस्य चे॑ति लोपो न सम्भवति, ईकारेण व्यवधानात् ।हलस्तद्धितस्ये॑त्यपि न सम्भवति, तस्य ईति अर्थवत्येव विधानात् । अतो वचनमिति भावः ।

Padamanjari

Up

गर्गीयतीति । क्यचि च इतीत्वम् । गार्गीयत इति । अकृत्सार्वधातुकयोर्दीर्घः , क्यषस्तवापत्यादसम्भवः । गार्गीभूत इ । अस्य च्वौ इतीत्वम् ॥