7-4-27 रीङ् ऋतः यि अकृत्सार्वधातुकयोः च्वौ
index: 7.4.27 sutra: रीङ् ऋतः
ऋकारान्तस्य अङ्गस्य अकृद्यकारे असार्वधातुके यकारे च्वौ च परतो रीङित्ययमादेशो भवति। मात्रीयति। मात्रीयते। पित्रीयति। पित्रीयते। चेक्रीयते। मात्रीभूतः। क्ङिति इत्येतन् निवृत्तम्, तेन इह अपि भवति, पितुरागतं पित्र्यम्। ऋत इति तपरकरणं किम्? चेकीर्यते। निजेगिल्यते।
index: 7.4.27 sutra: रीङ् ऋतः
अकृद्यकारेऽसार्वधातुके यकारे च्वौ च परे ऋदन्ताङ्गस्य रीङादेशः स्यात् ॥यस्येति च <{SK311}> । पित्र्यम् । उषस्यम् ।
index: 7.4.27 sutra: रीङ् ऋतः
अकृद्यकारे असार्वधातुके यकारे च्वौ च परे ऋदन्ताङ्गस्य रीङादेशः। यस्येति च। पित्र्यम्। उषस्यम्॥
index: 7.4.27 sutra: रीङ् ऋतः
रीङ् ऋतः - रीङृतः । अङ्गस्येत्यधिकृतम् ऋता विशेष्यते । तदन्तविधिः ।अयङ् यि क्ङिती॑त्यतो यीत्यनुवर्तते ।अकृत्सार्वधातुकयो॑रित्यतोऽकृत्सार्वधातुकयोरिति,च्वौ चे॑ति सूत्रं च, तदाह — अकृदित्यादिना । पित्र्यमिति । पितरो देवता अस्येति विग्रहः । यति पितृशब्दस्य रीङ् ।ङिच्चे॑त्यन्तादेशः ।यस्येति चेति ईकारलोपः । क्यचि पित्रीयतीत्यादौअङ्गकार्ये कृते पुनर्नाङ्गकार्य॑मिति वचनात्अकृत्सार्वदातुकयो॑रिति दीर्घे अप्राप्ते ईकारोच्चारणम् । उषस्यमिति । उषः देवता अस्येति विग्रहः । भत्वेन पदत्वाऽभावात्सकारस्य न रुत्वादि । द्यावापृथिवी । द्यावापृथिवी, शुनासीर, मरुत्वत्, अग्नीषोम, वास्तोष्पति, गृहमेध-एतेभ्यः-छो यच्च स्यादित्यर्थः । अणः, पत्युत्तरपदण्यस्य चापवादः ।
index: 7.4.27 sutra: रीङ् ऋतः
पियमिति ।'पितुर्यच्च' इति यत्प्रत्ययः, रीङदेशे कृते स्येतिलोपः । कथं पुनः'क्ङिति' इत्यनुवर्तमानेऽत्र रीङदेशो भवति ? अत आह - क्ङ्तीत्येतिदिह निवृतमिति । चेकीर्यत इति ।'कृ विक्षेपे' यङ्, ठृत इद्धातोःऽ,'हलि च' इति दीर्घः । जेगिल्यत इति । अत्र'ग्रो यङ्' ईति लत्वे कृते रेफाभावाद् दीर्घाभावः । अथ रीङिति किमर्थम्, न रिणेóवोच्येत, ठकृत्सार्वधातुकयोःऽ,'च्वौ च' इति दीर्घो भविष्यति, तत्रायमप्यर्थः - उतरत्र रिङ्ग्रहणं न कर्तव्यं भवति; तथा यग्लिङेरपि ग्रहणं न कर्तव्यं भवति,'शे च' इत्येव वक्तव्यं चकारादकृत्सार्वधातुकयकारे च ? यद्येवम्, यथा मात्रीयतीत्यादौ दीर्घो भवति, तथा यग्लिङेरपि स्यात् - क्रियते, क्रियादिति । अथ तत्र नाप्राप्ते दीर्घे रिङ् इविधीयमानो दीर्घत्वं बाधत इति उच्येत; तर्हि क्यजादिष्वपि बाधेत । अथ मतम् - ऋवर्णदीर्घत्वं तावद्वाध्यताम्, रिङ्स्तु कथं बाध्यते, न हि तत्र नाप्राप्ते दीर्घे स आरभ्यत इति ? यग्लिङेरपि तर्हि न बाधेत । तस्मात्क्यजादिषु दीर्घस्य, यग्लिङेस्तु ह्रस्वस्य श्रवणं यथा स्यादिति पृथगादेशद्वयं वक्तव्यम् ॥