7-2-98 प्रत्ययोत्तरपदयोः च विभक्तौ युष्मदस्मदोः मपर्यन्तस्य त्वमो एकवचने
एकवचने इत्यनुवर्तते। प्रत्यय उत्तरपदे च परत एकवचने वर्तमानयोर्युष्मदस्मदोर्मपर्यन्तस्य त्व म इत्येतावादेशौ भवतः। तवायं त्वदीयः। मदीयः। अतिशयेन त्वं त्वत्तरः। मत्तरः। त्वामिच्छति त्वद्यति। मद्यति। त्वमिवाचरति त्वद्यते। मद्यते। उत्तरपदे — तव पुत्रः त्वत्पुत्रः। मत्पुत्रः। त्वं नाथोऽस्य त्वन्नाथः। मन्नाथः। एकवचने इत्येव — युष्माकमिदं युष्मदीयम्। अस्मदीयम्। युष्माकं पुत्रोऽस्माकं पुत्रो युष्मत्पुत्रोऽस्मत्पुत्रः। विभक्तावित्यधिकारात् पूर्वयोगो विभक्तावेव। ततोऽन्यत्रापि प्रत्यय उत्तरपदे च यथा स्यादित्ययमारम्भः। ननु चात्राप्यन्तर्वर्तिनी विभक्तिरस्ति, तस्यामेवादेशौ भविष्यतः? नैवं शक्यम्, लुका तस्या भवितव्यम्। बहिरङ्गो लुक् अन्तरङ्गावादेशौ, प्रथमं तौ भविष्यतः? एतदेव तर्ह्यादेशवचनं ज्ञापकम् — <<अन्तरङ्गानपि विधीन् बहिरङ्गोऽपि लुग् बाधते>> इति। तेन गोमान् प्रियोऽस्य गोमत्प्रिय इत्येवमादौ नुमादि लुका बाध्यते। एवं च सति <<त्वाहौ सौ>> ७.२.९४ इत्येवमादयोऽपि प्रत्ययोत्तरपदयोरादेशा न भवन्ति। त्वं प्रधानमेषां त्वत्प्रधानाः। मत्प्रधानाः। यूयं पुत्रा अस्य युष्मत्पुत्रः। अस्मत्पुत्रः। तुभ्यं हितं त्वद्धितम्। मद्धितम्। तव पुत्रः त्वत्पुत्रः। मत्पुत्रः। अथ किमर्थमेषां त्वाहादीनां बाधनार्थमेतद् न विज्ञायते? लक्ष्यस्थित्यपेक्षया। ज्ञापकार्थे ह्येतस्मिन् बहुतरमिष्टं संगृह्यते॥
मपर्यन्तयोरेकार्थयोस्त्वमौ स्तः प्रत्यये उत्तरपदे च । त्वदीयः । मदीयः ॥
मपर्यन्तयोरेतयोरेकार्थवाचिनोस्त्वमौ स्तः प्रत्यये उत्तरपदे च परतः। त्वदीयः। मदीयः। त्वत्पुत्रः। मत्पुत्रः॥
<<प्रत्ययोत्तरपदयोश्च>> - प्रत्ययोत्तरपदयोश्च । साप्तमिकमिदम् । 'त्वमावेकवचने' इत्यनुवर्तते ।युष्मदस्मदोरनादेशे॑ इत्यतो युष्मदस्मदोरित्यनुवर्तते । मपर्यन्तस्येत्यधिकृतं । तदाह — मपर्यन्तयोरित्यादि । त्वदीयः मदीय इति । छे सुब्लुकि तवममयोर्निवृत्तौ मपर्यन्तयोः त्वदिति मदिति च आदेशौ । विभक्तिपरकत्वाऽभावान्न शेषे लोपः । उत्तरपदे तु परे त्वत्पुत्रो मत्पुत्र इत्युदाहरणम् ।
एकवचने वर्तमानयोरिति । एकार्थाभिधानविषययोरित्यर्थः । वस्तुकथनं चैतम्, न तु शब्दार्थकथनम् । एकवचने इत्यस्य प्रथमाद्विवचनान्तत्वात् । त्वदीय इति । त्यदादीनि चेति च वृद्धसंज्ञा, वृद्धाच्छः । त्वतर इति । पारम्यवत्प्रर्षयोगः । वभक्तावित्यधिकारादिति । ननु च पूर्वसूत्रे विभक्तौ इति न सम्भान्त्यते कथमावृद्धेरनुवर्तमानं न सम्बध्येत एवमपि योगविभागो न कर्तव्यः, त्वमावेकवचने प्रत्ययोतरपदयोः इत्येकयोग एव कर्तव्यः, एवं हि चकारो न कर्तव्यो भवति नैवं शक्यम्, एवं ह्युच्यमाने यथासङ्ख्यं प्राप्नोति - युष्मदः प्रत्यये, अस्मद उतरपद एइति । अथ क्रियमाणेऽपि योगविभागे, यावता निमितयोः साम्यं कस्मादेव यथासङ्ख्यं न स्यात् । नै, दोषः चकारोऽत्र क्रियते, स द्वयोरपि द्वे निमिते समुच्चेष्यति । ननु चेति । चोदकः । प्रकृतिप्रत्यययोः पूर्वातरपदयोश्च मध्ये या वर्तते सामन्तर्वर्तिनी विभक्तिः । परिहरति - नैषं शक्यमिति । लब्धुमिति शेषः । किं कारणम् इत्याह - तस्या लुका भवितव्यमिति । लुक्तु सुपो धातुप्रातिपदिकयोः इत्यनेन । अन्तरङ्गावित्यादि । चोदकः । विभक्तिमात्रापेक्षत्वादन्तरङ्गत्वम्, लुक्तु पश्चादुत्पन्नः प्रत्ययमुतरपदं धापेक्ष्य धातुत्वप्रतिपदिकत्वयोरुपजातयोः प्राप्नुवन् बहिरङ्गः । यद्यप्ययं नित्यः, तथापि नित्यान्तरङ्गयोरन्तरङ्गमेव बलीयः । यथोक्तम् - परिनित्यान्तरङ्गप्रतिपदविधयो विरोधिनः सन्निपाते तेषां मिथः प्रसङ्गे परबलीयस्त्वमिति । एतदेवेत्यादि । परिहारः । किमेतस्य ज्ञापने प्रयोजनम् इत्याहतेनेति । प्रथमेनादिब्देन गोमत्यतीत्यादेर्ग्रहणम्, द्वितीयेन दीर्घहल्ङ्यादिलोपयोः, हल्ङ्यादिलोपे हि प्रत्ययलक्षणेन नुमादि स्यादेव । लुकि तु न लुमताङ्गस्य इति प्रत्ययलक्षणप्रतिषेधान्न भवति । ज्ञापनस्य प्रयोजनान्तरमाह - एवं चेति । पुनश्चोदयति - अथेति । असति हि प्रयोजने ज्ञापकं भवति, अस्ति चात्र प्रयोजनम्, किम् एषामेव त्वाहादीनामादेशान्तराणां बाधनम् । सत्येतस्मिन् प्रयोजने न ज्ञापनमुपपद्यत इति । परिहरति - लक्ष्यस्थित्यपक्षयेति । गोमत्प्रिय इत्यादिकं लक्ष्यं लोके साधुभावे स्थितम्, तदादेशान्तरबाधनार्थेऽस्मिन्विज्ञायमाने न संगृहीतं स्यात्, तच्चापेक्ष्यं प्रयोगमूलत्वाव्द्याकरणस्य । तस्मातदपेक्षया नैतदादेशान्तराणां बाधनार्थं युक्तं विज्ञातुमिति । अपर आह - यद्येतदादेशान्तराणां बाधनार्तं स्यात् मपर्यन्तस्य इत्यनुवृत्तिरपार्थिका स्यात् । कथमुत्सर्गसमानदेशत्वादपवादानां श्यनादिषु तथा दृष्टत्वादिति । नायं नियमः - उत्सर्गसमानदेशा अपवादाः इति श्नमादिषु व्यभिचारात् । न हि श्नम्बहुजकचः शबादिभिः समानदेशाः । तस्माद्यद्यवश्यमुपपर्तिर्वक्तव्या, एवं वक्तव्यम् - इह त्वाहादयोऽप्यनुवर्तनेत, मपर्यन्तस्येति च तत्र त्वाहाद्यनुवृत्यैव तद्वाधे सिद्धे मपर्यन्तानुवृत्तिरप्राप्तप्रापणार्था सती ज्ञापकमुक्तस्यार्थस्येति । वयं तु ब्रूमः - मपर्यन्तस्य इत्येवानुवर्त्य तस्यादेशौ विधेयौ । यदि चान्तरङ्गा आदेशाः स्युः , प्रत्ययोतरपदयोर्मपर्यन्तस्य न क्वापि सम्भव इति तस्यादेशविधानमनुपपन्नं स्यादिति ज्ञापकमुक्तस्यार्थस्येति ॥