सिति च
1-4-16 सिति च आ कडारात् एका सञ्ज्ञा पदम्
Sampurna sutra
Up
सिति पदम्
Neelesh Sanskrit Brief
Up
सित्-प्रत्यये परे प्रकृतेः पदसंज्ञा भवति । यथा - ऊर्णा + युस्, कम् + यस्, भवत् + छस्, पर्शु + णस्, ऋतु + घस् ।
Neelesh English Brief
Up
In presence of a प्रत्यय having सकार as इत्संज्ञक, the प्रकृति gets the term पद.
Kashika
Up
<<यचि भम्>> १.४.१८ इति वक्ष्यति, तस्यायं पुरस्तादपवादः। सिति प्रत्यये परतः पूर्वं पदसंज्ञं भवति। <<भवतष्ठक्छसौ>> ४.२.११५ — भवदीयः। <<ऊर्णाया युस्>> ५.२.१२३ — ऊर्णायुः। <<ऋतोरण्>> ५.१.१०५,<<छन्दसि घस्>> ५.१.१०६ — ऋत्वियः॥
Siddhanta Kaumudi
Up
सिति परे पूर्वं पदसंज्ञं स्यात् । अभत्वादोर्गुणो न । पर्शूनां समूहः पार्श्वम् ॥
Laghu Siddhanta Kaumudi
Up
Neelesh Sanskrit Detailed
Up
व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति पदम् इति संज्ञा । <<सुप्तिङन्तं पदम्>> 1.4.14 इत्यतः <<स्वादिष्वसर्वनामस्थाने>> 1.4.17 इत्येतैः चतुर्भिः सूत्रैः इयं संज्ञा विधीयते । अस्य सूत्रसमूहस्य इदं तृतीयं सूत्रम् ।यस्मात् शब्दात् सित्-प्रत्ययः (सकारः यस्मिन् इत्संज्ञकः विद्यते तादृशः प्रत्ययः) विधीयते, सः शब्दः पदसंज्ञकः भवति — इति अस्य सूत्रस्य आशयः । अष्टाध्याय्याम् आहत्य पञ्च प्रत्ययाः सित्-प्रत्ययाः सन्ति - युस्, यस्, छस्, णस्, घस् । एते सर्वेऽपि तद्धितसंज्ञकाः प्रत्ययाः । एतेषां सर्वेषाम् क्रमेण उदाहरणानि अधः दीयन्ते —
1) युस्-प्रत्ययः - <<ऊर्णाया युस्>> 5.2.123 इति सूत्रेण ऊर्णा इति शब्दात् युस् इति तद्धितसंज्ञकप्रत्ययः विधीयते । अस्मिन् प्रत्यये परे ऊर्णा-शब्दस्य <<यचि भम्>> 1.4.18 इत्यनेन भसंज्ञायां प्राप्तायाम् प्रकृतसूत्रेण तां बाधित्वा पदसंज्ञा विधीयते । अस्य प्रयोजनम् अस्ति अनिष्टस्य भसंज्ञाविशिष्टस्य कार्यस्य बाधः इति । इत्युक्ते, यदि अत्र पदसंज्ञा न अभविष्यत्, तर्हि भसंज्ञायाः सामर्थ्यात् ऊर्णा + यु इत्यत्र <<यस्येति च>> 6.4.148 इत्यनेन ऊर्णा-शब्दस्य अनिष्टः आकारलोपः अभविष्यत् । प्रक्रिया इयम् -
ऊर्णा अस्य अस्ति इति
--> ऊर्णा + युस् [<<ऊर्णाया युस्>> 5.2.123 इति युस्-प्रत्ययः । अत्र आदौ प्रथमासमर्थात् युस्-प्रत्ययः भवति । ततः प्रातिपदिकसंज्ञा, सुँलोपश्च विधीयते ।]
→ ऊर्णा + यु [सकारस्य <<हलन्त्यम्>> 1.3.3 इति इत्संज्ञा, <<तस्य लोपः>> 1.3.9 इति लोपः । अत्र यकारादिप्रत्यये परे ऊर्णा शब्दस्य <<यचि भम्>> 1.4.18 इति भसंज्ञायां प्राप्तायां, तां बाधित्वा <<सिति च>> 1.4.16 इति पदसंज्ञा भवति । भसंज्ञायाः अभावात् अत्र <<यस्येति च>> 6.4.148 इति आकारलोपः न सम्भवति ।
→ ऊर्णायु ।
2 यस्-प्रत्ययः - कम् (= जलम्) इति मकारान्तप्रातिपदिकात् अस्य अस्मिन् वा अस्ति इत्यर्थे << कंशंभ्यां बभयुस्तितुतयसः>> 5.2.138 इति सूत्रेण यस् तथा युस् एतौ द्वौ तद्धितसंज्ञकप्रत्ययौ विधीयेते । उभयोः उपस्थितौ कम् इति प्रकृतेः पदसंज्ञा भवति, अतः पदान्तमकारस्य <<मोऽनुस्वारः>> 8.3.23 इत्यनेन अनुस्वारादेशे कृते इष्टरूपं सिद्ध्यति —
कम् अस्य अस्मिन् वा अस्ति
--> कम् + युस् / यस् [<< कंशंभ्यां बभयुस्तितुतयसः>> 5.2.138 इति सूत्रेण यस्/युस्-प्रत्ययः]
→ कम् + यु / य [सकारस्य इत्संज्ञालोपः]
→ कंयु / कंय [सित्-प्रत्यये परे <<सिति च>> 1.4.16 इति प्रकृतेः पदसंज्ञा भवति । पदसंज्ञायां सत्याम् <<मोऽनुस्वारः>> 8.3.23 इति अनुस्वारादेशः भवति ।]
→ कंयु / कय्ँयु / कंय / कय्ँय [<<वा पदान्तस्य>> 8.4.59 इति विकल्पेन परसवर्णः]
3) छस्-प्रत्ययः - भवत् इति शब्दात् शैषिकेषु अर्थेषु <<भवतः ठक्छसौ>> 4.2.115 इति सूत्रेण छस् इति प्रत्ययः भवति । अस्मिन्-प्रत्यये परे भवत्-शब्दस्य प्रकृतसूत्रेण पदसंज्ञा भवति । पदसंज्ञायां सत्यां <<झलां जशोऽन्ते>> 8.2.39 इति पदान्तजश्त्वे कृते इष्टं रूपं सिद्ध्यति —
भवतः इदम्
--> भवत् + छस् [<<भवतः ठक्छसौ>> 4.2.115 इति सूत्रेण छस्-प्रत्ययः]
--> भवत् + छ [सकारस्य इत्संज्ञा, लोपः ]
→ भवत् + ईय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति छकारस्य ईय्-आदेशः]
→ भवद् + ईय [सित्-प्रत्यये परे <<सिति च>> 1.4.16 इति भवत् शब्दस्य पदसंज्ञा । अतः पदान्ते विद्यमानस्य तकारस्य <<झलां जशोऽन्ते>> 8.2.39 इति जश्त्वे दकारः विधीयते ।]
→ भवदीय
4) णस्-प्रत्ययः - <<ब्राह्मणमाणववाडवाद्यन्>> 4.2.42 इत्यत्र पाठितेन इति वार्त्तिकेन पर्शूनाम् समूहः अस्मिन् अर्थे पर्शु-शब्दात् णस् इति प्रत्ययः भवति । अस्मिन् प्रत्यये परे <<यचि भम्>> 1.4.18 इत्यनेन पर्शु शब्दस्य भसंज्ञायां प्राप्तायाम् तद्बाधित्वा <<सिति च>> 1.4.16 इत्यनेन तस्य पदसंज्ञा विधीयते । अस्याः प्रयोजनम् अस्ति अनिष्टस्य भसंज्ञाविशिष्टस्य कार्यस्य बाधः इति । यदि अत्र भसंज्ञा अभविष्यत्, तर्हि <<ओर्गुणः>> 6.4.146 इति अत्र उकारस्य अनिष्टः गुणादेशः अभविष्यत् । प्रक्रिया इयम् —
पर्शूनां समूहः
= पर्शु + णस् [ ]
→ पर्शु + अ [<<चुटू>> 1.3.7 इति णकारस्य इत्संज्ञा, <<हलन्त्यम्>> 1.3.3 इति सकारस्य इत्संज्ञा, <<तस्य लोपः>> 1.3.9 इति द्वयोः अपि लोप;]
→ पार्शु + अ [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः]
→ पार्श्व [<<सिति च>> 1.4.17 इति प्रकृतेः पदसंज्ञा । इयं पदसंज्ञा भसंज्ञां बाधते भसंज्ञायाः अभावात् अत्र <<ओर्गुणः>> 6.4.146 इत्यनेन उकारस्य अनिष्टः गुणादेशः प्रतिषिध्यते । अग्रे <<इको यणचि>> 6.1.77 इति यणादेशं कृत्वा रूपं सिद्ध्यति ।]
5) घस्-प्रत्ययः - ऋतु इति शब्दात् वेदेषु अस्य प्राप्तम् अस्मिन् अर्थे <<छन्दसि घस्>> 5.1.106 इति सूत्रेण घस् इति प्रत्ययः कृतः दृश्यते । अस्मिन् प्रत्यये सकारस्य इत्संज्ञा भवति, अतः अस्मिन् प्रत्यये परे <<सिति च>> 1.4.17 इति प्रकृतेः पदसंज्ञा विधीयते । अस्याः प्रयोजनम् अस्ति अनिष्टस्य भसंज्ञाविशिष्टस्य कार्यस्य बाधः इति । यदि अत्र भसंज्ञा अभविष्यत्, तर्हि <<ओर्गुणः>> 6.4.146 इति अत्र उकारस्य अनिष्टः गुणादेशः अभविष्यत् । प्रक्रिया इयम् —
ऋतुः यस्य प्राप्तः
--> ऋतु + घस् [<<छन्दसि घस्>> 5.1.106 इति घस्]]
--> ऋतु + घ [इत्संज्ञा, लोपः]
→ ऋतु + इय [<<आयनेयीनीयीयः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति इय-आदेशः]
→ ऋत्विय [<<सिति च>> 1.4.16 इत्यनेन प्रकृतेः पदसंज्ञा । इयं पदसंज्ञा भसंज्ञां बाधित्वा विधीयते । भसंज्ञायाः अभावात् अत्र <<ओर्गुणः>> 6.4.146 इत्यनेन उकारस्य अनिष्टः गुणादेशः प्रतिषिध्यते । अग्रे <<इको यणचि>> 6.1.77 इति यणादेशं कृत्वा रूपं सिद्ध्यति ।]
बाध्यबाधकभावः
सर्वे सित्-प्रत्ययाः अजादयः / यकारादयः सन्ति । अतः एतेषु परेषु प्रकृतेः <<यचि भम्>> 1.4.18 इति भसंज्ञा प्राप्नोति । एवमेव <<सिति च>> 1.4.16 इत्यनेन प्रकृतेः पदसंज्ञा अपि विधीयते । अत्र पदसंज्ञा भसंज्ञायाः अपेक्षया अनवकाशा अस्ति, अतः <<आकडारादेका संज्ञा>> 1.4.1 इत्येतम् अधिकारम् अनुसृत्य अत्र पदसंज्ञा भसंज्ञां सम्पूर्णरूपेण बाधते । अतः सित्-प्रत्यये परे प्रकृतेः पदसंज्ञा एव भवति, न हि भसंज्ञा ।
##Balamanorama
##Padamanjari
भवदीय इति। पदत्वाज्जत्वम्। ऊर्णायुरिति पदसंज्ञाया निरस्तत्वाद् यस्येति लोपाभावः। एवम् ऋत्विय इति ठोर्गुणःऽ न भवति, चकारोऽनुक्तसमुच्चयार्थः तेन भुवद्धारयतोर्मतोश्च्छन्दसि'तसौ मत्वर्थे' इति भसंज्ञां बाधित्वा पदसंज्ञा भवति, तेन भुवद्वद्भ्यः, धारयद्वद्भ्यः॥