3-1-35 कास्प्रत्ययात् आम् अमन्त्रे लिटि प्रत्ययः परः च आद्युदात्तः च क्यच् धातोः
<<कासृ शब्दकुत्सायाम्>> ततः प्रत्ययान्तेभ्यश्च धातुभ्य आम् प्रत्ययो भवति लिटि परतोऽमन्त्रविषये। कासाञ्चक्रे। प्रत्ययान्तेभ्यः — लोलूयाञ्चके। अमन्त्र इति किम्? कृ॒ष्णो नो॑नाव (ऋ० १.७९.२)॥ कास्यनेकाच इति वक्तव्यं चुलुम्पाद्यर्थम्॥
आमोऽमित्त्वमदन्तत्वादगुणत्वं विदेस्तथा।
आस्कासोरांविधानाच् च पररूपं कतन्तवत्॥
कास्धातोः प्रत्ययान्तेभ्यश्चाम् स्याल्लिटि न तु मन्त्र ।<!कास्यनेकाज् ग्रहणं कर्तव्यम् !> (वार्तिकम्) ॥ सूत्रे प्रत्ययग्रहणमपनीय तत्स्थानेऽकाचेति वाच्यमित्यर्थः ॥
<<कास्प्रत्ययादाममन्त्रे लिटि>> - तथा च लिटि आयप्रत्ययस्य विकल्पः स्थितः । तत्र आयप्रत्ययपक्षे आह -कास्प्रत्ययात् । आम् — अमन्त्रे इति च्छेदः । चकासृ दीप्तौ, जागृ निद्राक्षये इत्यादिभ्योऽपि लिटि आमिष्यते । प्रत्ययान्ताच्चेति लभ्यते । ततश्च अ इवाचरति अति । क्विबन्ताल्लडादयः । लिटि औ अतुरित्यादीष्टं न सिध्येत्, प्रत्ययान्तत्वेन आमः प्रसङ्गात् । यदि तु कासृधातोश्च, अनेकाचः प्रत्ययान्ताच्चेति व्याख्यायेत, तदा चकासृजाग्रादिभ्यो न स्यादित्यत आह — प्रत्यग्रहणमपनीयेति । तथाच कास्धातोरनेकाचश्च आमित्येतावदेव लभ्यत इति नोक्तदोषद्वयमिति भावः । वस्तुतस्तु अ इवाचरति अतीत्यादि नास्त्येवेति सुब्धातुनिरूपणे वक्ष्यते । तथा च गोपया — आमिति स्थितम् ।
कास्प्रत्ययादाममन्त्रे लिटि॥ आम् प्रत्ययो भवतीति। हलन्तपक्षे एतदुक्तम्, अदन्तपक्षे त्वामः प्रत्ययो भवतीति वक्तव्यम्। अमन्त्रविषय इति। मन्त्रविषयश्चेत्प्रयोगो न भवतीत्यर्थः। ऋग्यजुः सामलक्षणो मन्त्रम्, तत्रैवाभियुक्तैर्मन्त्रशब्दस्य प्रयोगात्। आथर्वणा अपि मन्त्रा ऋग्यजुष एवान्तर्भवन्ति। तान्त्रिकेषु मन्त्रशब्दप्रयोगो मन्त्रवदुपचारात्। च्छन्दसीति नोक्तम्, ब्राह्मणेऽपि यथा स्यात् - अथ ह शुनः शेप ईक्षांचक्रे ते ह तदन्तर्वेद्यासाञ्चक्रिरे अविज्ञातानि च दर्शयाञ्चकार। कासाञ्चक्र इति। आमन्तस्य पदत्वम्ठ् आमःऽ इत्यत्रोपपादितम्। नोनावेति। नौतेर्यङ्लुगन्तात्प्रत्ययलक्षणेन प्राप्त आम् न भवति। कारयनेकाचेति वक्तव्यमिति। यथान्यासे हि कशब्दादशब्दाद्वागादिभ्यश्चाचारक्विबन्तेभ्य एकाज्भ्योऽपि प्रत्ययान्तत्वादाम्प्रसङ्ग, चुलुम्पादिभ्यश्चाप्रत्ययान्तत्वादप्रसङ्गः; अतोऽव्याप्त्यतिव्याप्तिपहिहाराय प्रत्ययग्रहणमपनीयानेकाज्ग्रहणं कर्तव्यमित्यर्थः। तत्र कशब्दस्य णलि ठचो ञ्णितिऽ इति वृद्धौ ठात औ णलःऽ चकौ, अन्यत्र ठतो लोपःऽ चकतुः, चकुः; अशब्दस्य णलि रूपम् - औ इति, अन्यत्र ठत आदेःऽ इति दीर्धत्वे ठातो लोप इटि चऽअतुः, उः। चकासांचकारेति।'चकासृदीप्तौ' । दरिद्राञ्चकारेति। ठात औ णलःऽ इत्यत्र ओकारे विधातव्ये औकारविधानं दरिद्रातेरार्द्धधातुकलोप उत्याकारलोपेऽप्यौकारस्य श्रवणार्थम्, तेन ददरिद्रावित्यपि भवतीत्याहुः। चुलुम्पाञ्चकारेति! चुलुम्पतिर्वार्तिककारवचनात्साधुः। आमो मकारस्य'हलन्त्यम्' इतीत्संज्ञा कस्मान्न भवतीत्याह - आमो मित्वमिति। कारयाश्चकारेत्यादौ प्रयोगे य आम्शब्दस्तस्यामित्वं मकार इत्संज्ञको यस्य नास्ति सोऽमित् तस्य भावः अमित्वम्। कुत इत्याह? अदन्तत्वादिति। अद् अन्ते समीपे यस्य सोऽदन्तः, सूत्रे विधानवेलायां समीपेऽकारवत्वादित्यर्थः। तेनैतन्न चोदनीयम् - आम् चेत्कथमदन्तः, अथादन्तः कथमामिति। सूत्रे विधीयमानस्यैव वा प्रत्ययस्योपलक्षणमाम इति। अगुणत्वं विदेस्तथेति। विदाञ्चकारेत्यत्र विदेरामि गुणाभावोऽपि तथा, अदन्तत्वादेवेत्यर्थः। अदन्तत्वादित्येतत्प्रसङ्गेन चेदमिहोक्तम्, ठुषविदजागृभ्योऽन्यतरस्याम्ऽ इत्यत्र तु वक्तव्यम्। तत्र हि विदेरकारान्तत्वमाम्प्रत्ययसन्नियोगेन निपात्यते, तत्रातो लोपस्य स्थानिवत्वाद् गुणो न भवति। न पुनः'विद ज्ञाने' इत्यकारो विवक्षित इत्युच्यते; वेतीत्यादौ श्रवणप्रसङ्गात्। अभ्युपेत्यापि मकारान्तत्वमित्संज्ञाभावमाह - आस्कासोराम्विधानाच्चेति। आमोऽमित्वमित्यनुषङ्गः, सति हि मित्वे आस्कासोराम् भवन्नप्यचामन्त्यात्परः स्यात्, तथा च सवर्णदीर्घत्वे सत्यकिञ्चित्करः स्यात्। अतः'दयायासश्च' कास्प्रत्ययादिति आस्कासोराम्विधानादप्यामऽमित्वमवसीयते त्यिर्थः। आस्चकासोर्विधानाच्च इत्यन्ये पठन्ति, तदयुक्तम्; न हि सूत्रे चकास आम्विधानमस्ति। यदपि कास्यनेकाज्ग्रहणं तदपि चुलुम्पादौ सावकाशम्। नन्वदन्तत्वपक्षे आमामन्त्र इति निर्देश्यं स्यातत्राह - पररूपं कतन्तवदिति। यथा'सर्वत्र लोहीतादिकतन्तेभ्यः' इत्यत्र पररूपम्, एवमत्रापि निपातनात्पररूपमित्युक्तं भवति॥