7-1-58 इदितः नुम् धातोः
इदितः धातोः नुम्
इदित्-धातोः नुमागमः भवति ।
The verb roots that have इकार as इत्संज्ञक get a नुमागम.
इदितो धातोर्नुमागमो भवति। कुडि — कुण्डिता। कुण्डितुम्। कुण्डितव्यम्। कुण्डा। हुडि — हुण्डिता। हुण्डितुम्। हुण्डा। इदित इति किम्? पचति। पठति। अयं धातूपदेशावस्थायामेव नुमागमो भवति, कुण्डा हुण्डेति <<गुरोश्च हलः>>३.३.१०३ इत्यकारप्रत्ययो यथा स्यात्। तथा हि <<धिन्विकृण्व्योर च>> ३.१.८० इति प्रत्ययविधावेव नुमनुषक्तयोर्गर्हणम्। धातुग्रहणं चेह क्रियते धातूपदेशकाल एव नुमागमो यथा स्यादित्येवमर्थम्। तासिसिचोरिदित्कार्यं नास्तीत्युच्चारणार्थो निरनुनासिक इकारः पठ्यते। अमंस्तेत्येवमादौ हि <<हनः सिच्>> १.२.१४ इति कित्त्वविधानसामर्थ्याद् नकारलोपो न भवति। मन्तेत्यत्रापि <<असिद्धवदत्राभात्>> ६.४.२२ इति टिलोपस्यासिद्धत्वाद् नलोपो न भवति। इह कस्माद् न भवति — भेत्ता छेत्तेति? <<इरितां समुदायस्येत्संज्ञा>>(महाभाष्य १.२६३) इतीदित्त्वं नास्ति। अवयवशोऽपीत्संज्ञायां सत्यां’ गोः पादान्ते’ ७.१.५७ इतोऽन्तग्रहणमनुवर्तयितव्यम्। तेनान्तेदितो धातवो गृह्यन्ते॥
स्कुन्दते । चुस्कुन्दे ।{$ {!10 श्विदि!} श्वैत्ये$} । अकर्मकः । श्विन्दते । शिश्विन्दे ।{$ {!11 वदि!} अभिवादनस्तुत्योः$} । वन्दते । ववन्दे ।{$ {!12 भदि!} कल्याणे सुखे च$} । भन्दते । बभन्दे ।{$ {!13 मदि!} स्तुतिमोदमदस्वप्नकान्तिगतिषु$} । मन्दते । ममन्दे ।{$ {!14 स्पदि!} किंचिच्चलने$} । स्पन्दते । पस्पन्दे ।{$ {!15 क्लिदि!} परिदेवने$} । शोक इत्यर्थः । सकर्मकः । क्लिन्दते जैत्रम् । चिक्लिन्दे ।{$ {!16 मुद!} हर्षे$} । मोदते ।{$ {!17 दद!} दाने$} । ददते ॥
नन्दति। ननन्द। नन्दिता। नन्दिष्यति। नन्दतु। अनन्दत्। नन्देत्। नन्द्यात्। अनन्दीत्। अनन्दिष्यत्। ॥ {$ {! 9 अर्च !} पूजायाम् $} (धातुपाठे <{01.0232}>) ॥ अर्चति॥
यस्मिन् धातौ औपदेशिक-अवस्थायाम् इकारः इत्संज्ञकः अस्ति, तस्य धातोः नुम्-आगमः भवति । अयमागमः मित्-आगमः अस्ति, अतः <<मिदचोऽन्त्यात्परः>> 1.1.47 इत्यनेन अन्त्यात् अचः परः आगच्छति । एतत् नुमागमस्य कार्यम् धातोः प्रकृतेः एव भवति, अत्र किमपि निमित्तम् नापेक्षते । उदाहरणम् - वदिँ (अभिवादनस्तुत्योः) अस्मिन् धातौ इकारः इत्संज्ञकः अस्ति । अतः अस्मिन् धातोः एतादृशम् परिवर्तनम् भवति - वदिँ → वन् द् [इँकारस्य <<उपदेशेऽजनुनासिक इत्>> 1.3.2 इति इत्संज्ञा, <<तस्य लोपः>> 1.3.9 इति तस्य लोपः । <<इदितो नुम् धातोः>> 7.1.58 इति नुमागमः ।] → वं द् [<<नश्चापदान्तस्य झलि>> 8.3.24 इति नकारस्य अनुस्वारः] → व न् द् [<<अनुस्वारस्य ययि परसवर्णः>> 8.4.58 इति अनुस्वारस्य परसवर्णः नकारः] → वन्द् । अनेनैव प्रकारेण एते धातवः अपि परिवर्तन्ते - 1. अकिँ (लक्षणे) → अन् क् → अंक् → अङ्क् । 2. भजिँ (भाषायाम्) → भन् ज् → भंज् → भञ्ज् । 3. कुठिँ (प्रतिघाते) → कुन् ठ् → कुंठ् → कुण्ठ् । 4. चितिँ (स्मृत्याम्) → चि न् त् → चिंत् → चिन्त् । 5. जभिँ (नाशने) → जन् भ् → जंभ् → जम्भ् । 6. त्रसिँ (भाषायाम्) → त्रन् स् → त्रंस् । अत्र परसवर्णः न भवति, यतः अत्र अग्रे यय्-वर्णः नास्ति । 7. बृहिँ (भाषायाम्) → बृन् ह् → बृंह् । अत्रापि परसवर्णः न भवति, यतः अत्र अग्रे यय्-वर्णः नास्ति । 8. इवि (व्याप्तौ → इन्व् । अत्र नुमागमस्य अनुस्वारः एव न भवति, यतः वकारः झल्-वर्णः नास्ति । अत्र एतत् स्मर्तव्यम् यत् - (1) नकारस्य अनुस्वारनिर्माणम्, (2) अनुस्वारस्य च परसवर्णः - एतत् कार्यद्वयम् त्रिपाद्या क्रियते, अतः तिङ्गन्तकृदन्तप्रक्रियासु प्रायः सर्वत्र अस्य असिद्धत्वमस्ति । यथा, कपिँ धातोः लट्लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् - कपिँ + लट् [<<वर्त्तमाने लट्>> 3.2.123 → कन् प् + लट् [<<इदितो नुम् धातोः>> 7.1.58 इति नुमागमः] → कन् प् + त [<<तिप्तस्..>> 3.4.78 इति प्रथमपुरुषैकवचनस्य विवक्षायामात्मनेपदस्य 'त' प्रत्ययः] → कन् प् + शप् + त [<<कर्त्तरि शप्>> 3.1.68 इति औत्सर्गिकम् विकरणम् शप्] → कन् प् अ ते [<<टित आत्मनेपदानां टेरे>> 3.4.79 इति एकारादेशः] → कं प् अ ते [<<नश्चापदान्तस्य झलि>> 8.3.54 इति नकारस्य अनुस्वारः] → कम्पते [<<अनुस्वारस्य ययि परसवर्णः>> 8.4.58 इति अनुस्वारस्य परसवर्णः मकारः] अत्र अनुस्वार-परसवर्णौ अन्ते कृतौ स्तः । ज्ञातव्यम् - 1. येषु धातुषु इकारः इत्संज्ञकः नास्ति, तेषां विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा, जिरि (हिंसायाम्) अस्मिन् धातौ रेफात् परः इकारः / जकारात् परः इकारः च इत्संज्ञकौ न स्तः । अतः अस्य धातोः नुमागमः न भवति । 2. येषु धातुषु <! इर इत्संज्ञा वाच्या !> अनेन वार्त्तिकेन 'इँर्'-इत्यस्य इत्संज्ञा भवति, तेषु धातुषु यद्यपि इकारः अनुनासिकः अस्ति, तथापि प्रयोजनाभावात् तस्य इत्संज्ञा न भवति । अतः एतेषां धातूनामपि नुमागमः न भवति । यथा - दृशिँर् (प्रेक्षणे) अत्र 'इर्' इत्यस्य समुदायस्य इत्संज्ञा भवति, अत्र केवल-इँकारः इत्संज्ञकः नास्ति, अतः अस्य नुमागमः न भवति । 3. येषु धातुषु प्रयोगे उपान्त्यस्थाने अनुनासिकः दृश्यते ते सर्वे इदिताः सन्तीति न । केषुचन धातुषु औपदेशिक-स्थितौ एव अनुनासिकम् दत्तमस्ति । यथा - मन्थँ (विलोडने), भञ्जोँ (आमर्दने) आदयः ।
<<इदितो नुम् धातोः>> - इदितः । इत् = ह्रस्व इकारः, इत् = इत्संज्ञको यस्य स इदित्, तस्येति विग्रहः । इत्संकेदनतधातोरित्यर्थः । तेन चक्षिङादौ न दोषः । नुमि मकार इत् । उकार उच्चारणार्थः । मित्त्वादन्त्यादचः परः । स्कुन्दत इति ।नश्चापदान्तस्ये॑त्यनुस्वारः परसवर्णः । चुस्कुन्द इति । लिटि द्वित्वे 'शर्पूर्वाः खयः' इत्यभ्यासे ककारः शिष्यते ।कुहोश्चु॑रिति तस्य कुत्वेन चकारः । इआदीति । औत्यं — औत्यकरणम् । अकर्मक इति । औत्यस्य धात्वर्थेनोपसङ्ग्रहादिति भावः । ततश्चआन्दयति देवदत्तं यज्ञदत्त॑ इत्यादौगतिबुद्धिप्रत्यवसाने॑त्यादिनाऽकर्मककार्यं द्वितीया भवति । ओतीभवनं वा औत्यम् । इआन्दत इति । ओतीभवतीत्यर्थः । इदित्वान्नुम् । अनुस्वारपरसवर्णौ । तत्कारणभूतो व्यापारः — प्रणामादिरभिवादनम् । वन्दत इति । इदित्त्वान्नुम् । भदीति । कल्याणं — शुभक्रिया । सुखं — सुखीभावः । भन्दत इति । इदित्त्वान्नुम् बभन्द इति । अभ्यासे भकारस्य जश्भावेन बकारः । मदीति । मोदः — सन्तोषः । मदः — गर्वः । मन्दत इति । इदित्त्वान्नुम् । ममन्द इति । नुमि सति संयुक्तहल्मध्यस्थत्वादेत्त्वाभ्यासलोपौ नेति भावः । स्पदीति । अकर्मकः । स्पन्दत इति । इदित्त्वान्नुम् । पस्पन्द इति । 'शर्पूर्वाः खयः' इत्यभ्यासे पकारः शिष्यते । क्लिदीति । परिदेवनशब्दं व्याचष्टे — शोक इति । स्मृत्वा क्लेशः — शोकः । तदाह — सकर्मक इति । क्लिन्दते चैत्रमिति । अतीतं चैत्रं स्मृत्वा क्लिश्नातीत्यर्थः । इदित्त्वान्नुम् । चिक्लिन्द इति । अभ्यासे ककारस्य चुत्वेन चकार इति भावः । मुदेति । हर्षः — तुष्टिः । मोदत इति । शपि लघूपधगुणः । मुमुद इति ।असंयोगल्लिट्कि॑दिति कित्वान्न गुणः । ददेति । न ममेति त्यागो दानं, न तु द्रव्यत्यागः । तथा सति धात्वर्थौपसङ्ग्रहादकर्मकत्वापत्तेः ।
कुडि दाहे, हुङ् सिङ्घाते । अङ्गाधिकारान् नुमयं प्रत्यये परतो भवेत् । कुण्डेत्यादौ ततश्च क्तिन्स्यान्नाकारो गुरोर्हलः इत्याशङ्क्याह - अयमिति । अत्र प्रमाणमाह - तथा हीति । कथं पुनरेतज्ज्ञापकम्, यावता इक्श्तिपौ धातुनिर्द्देशे वक्यतव्यौ इति इक्प्रत्यये कृतेऽङ्गसंज्ञायां सत्यां नुमा भवितव्यमिति लक्षणवशादेव नुमनुषक्तयोर्ग्रहणं कर्तव्यम् एवं मन्यते - नायमिका निर्देशः, किं तर्हि आगन्तुकेनेकारेण, तत्राप्राप्तो नुमिति । नात्र किञ्चित्प्रमाणमस्तीत्याशङ्क्याह - धातुग्रहणं चेति । धातुत्वमेवापेक्षितं न त्वङ्गत्वमित्येवमर्थं धातुग्रहणम्, नान्यत्किञ्चित्प्रयोजनमस्तीति भावः । ननु च भेता, अभैत्सीदित्यत्राधात्वोस्तासिचसिचोरिदितोर्नुम्निवृत्यर्थं धातुग्रहणं स्यात् अत आह - तासिसिचोरिति । ननु चामंस्तेत्यादौ आत्मनेपदं ङ्तिमपेक्ष्य सिजन्तस्य अनिदिताम् इति लोप मा भूदित्येतत्सिचीदित्कार्यं स्यात् इत्यत आह - अमंस्तेत्यादाविति । यथा हनः सिच् इति कित्वविधानमस्य लिङ्गं तथा तत्रैव प्रतिपादितम् । तासेस्तर्हीदित्करणं मन्तेत्यादौ आत्मनेपदैकवचनस्य डादेशे कृते टिलोपे च मनत् - आ इति स्थिते नकारस्योपधालोपे मा भूदित्येवमर्थं स्यादत आहमन्तेत्यत्रेति । नकारलोपो न भवतीत्यनुषङ्गः । जयादित्यस्तु - आभीयमसिद्धत्वमनित्यमाश्रित्य तासेरिदितकरणमनुनासिकलोपप्रतिषेधार्थमित्यवोचत् । तन्मते धातुग्रहणं तासिनिवृत्यर्थं कर्तव्यमिति उपदेशे नुम्भवति इत्यत्र यत्नान्तरमास्थेयम् । इह भिदिर्प्रभृतिषु इकारस्य उपदेशेऽजनुनासिक कैत् इतीत्संज्ञा, रेफस्यापि हलन्तयम् इति, ततश्चेदित्वान्नुम् प्राप्नोति तत्राह - इरितामिति । इरितामिर उपसङ्ख्यानम् इत्यौपसङ्ख्यानिकी समुदायस्येत्संज्ञा, न प्रत्येकं सौत्री, ततश्चानिदित्वान्नुम् न भवतीत्यर्थः । नन्वेवमपि स्वरितेत्वनिबन्धनमात्मनेपदं न प्राप्नोति भिदिर्प्रभृतिषु, तस्मात्प्रत्येकपक्षे परिहारो वाच्यः - इति मत्वा प्रत्येकपक्षे परिहारमाह - अवयवशोऽपीति । अपर आह - इदित इति नायं बहुव्रीहिः, किं तर्हि कर्मधारः ततश्च वर्णग्रहणमिदं भवति । तत्र तदन्तविधिनेत्संज्ञकेकारान्तस्य धातोर्नुमिति । अथेदितो धातोवो ननमनुषक्ता एव कस्मान्न पठिताः, एवं हीदं न कर्तव्यं भवति नुम्ग्रहणं तावदुतरार्थं कर्तव्यम्, इदितां च भूयस्त्वातप्रत्येकं नक्रोच्चारणादिदमेव सूत्रं लघीयः ॥