सावनडुहः

7-1-82 सौ अनडुहः इदितः नुम् नुम्

Sampurna sutra

Up

अनडुहः अङ्गस्य आत् सौ नुम्

Neelesh Sanskrit Brief

Up

सुँ-प्रत्यये परे अनडुह्-इत्यस्य अङ्गस्य अवर्णात् परः नुमागमः भवति ।

Neelesh English Brief

Up

The अवर्ण of the word अनडुह् get a नुमागम in presence of the सुँ प्रत्यय.

Kashika

Up

सौ परतोऽनडुहोऽङ्गस्य नुमागमो भवति। अनड्वान्। हे अनड्वन्। अत्र केचिदादित्यधिकारादाममोः कृतयोर्नुमं कुर्वन्ति। तेन नुमा आममौ न बाध्येते, आमम्भ्यां च नुमिति। अपरे तु सत्यपि सामान्यविशेषत्व आममोर्नुमश्च समावेशमिच्छन्ति, न बाध्यबाधकभावम्, यथा चिचीषत्यादिषु दीर्घत्वद्विर्वचनयोरिति॥

Siddhanta Kaumudi

Up

अस्य नुम् स्यात्सौ परे । आदित्यधिकारादवर्णात्परोऽयं नुम् । अतो विशेषविहितेनापि नुमा आम् न बाध्यते । अमा च नुम् न बाध्यते । सोर्लोपः । नुम्विधिसामर्थ्यात् वसुस्रंसु <{SK334}> इति दत्वं न । संयोगान्तलोपस्याऽसिद्धत्वान्नलोपो न । अनड्वान् ॥

Laghu Siddhanta Kaumudi

Up

अस्य नुम् स्यात् सौ परे । अनड्वान् ॥

Neelesh Sanskrit Detailed

Up

'अनडुह्' (= वृषभः) इति कश्चन हकारान्तशब्दः । अस्य शब्दस्य प्रथमैकवचनस्य सुँ-प्रत्यये परे सर्वप्रथमम् <<चतुरनडुहोरामुदात्तः>> 7.1.98 इत्यनेन आम्-आगमः भवति । तदनन्तरमस्मात् अवर्णात् परः नुमागमः अनेन सूत्रेण विधीयते । प्रक्रिया इयम् - अनडुह् + सुँ [प्रथमैकवचनस्य प्रत्ययः] → अनडु आम् ह् + स् [<<चतुरनडुहोरामुदात्तः>> 7.1.98 इत्यनेन अनडुह्-शब्दस्य आम्-आगमः ।] → अनडु आ नुम् ह् + स् [<<सावनडुहः>> 7.1.82 इत्यनेन नुम्-आगमः] → अनड्वान् ह् स् [<<इको यणचि>> 6.1.77 इत्यनेन यणादेशः] → अनड्वान् ह् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> 6.1.68 इत्यनेन सुँ-प्रत्ययस्य लोपः] → अनड्वान् [<<संयोगान्तस्य लोपः>> 8.2.23 इत्यनेन हकारस्य लोपः] अनडुह्-शब्दस्य सम्बोधनैकवचने अपि अस्य सूत्रस्य प्रसक्तिः अस्ति । यथा - अनडुह् + सुँ [सम्बुद्धिः] → अनडु अम् ह् + स् [<<अम् सम्बुद्धौ>> 7.1.99 इत्यनेन अनडुह्-शब्दस्य अम् -आगमः ।] → अनडु अ नुम् ह् + स् [<<सावनडुहः>> 7.1.82 इत्यनेन नुम्-आगमः] → अनड्वन् ह् स् [<<इको यणचि>> 6.1.77 इत्यनेन यणादेशः] → अनड्वन् ह् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> 6.1.68 इत्यनेन सुँ-प्रत्ययस्य लोपः] → अनड्वन् [<<संयोगान्तस्य लोपः>> 8.2.23 इत्यनेन हकारस्य लोपः] ज्ञातव्यम् - 1) अस्मिन् सूत्रे 'आत्' इति 'अ' इत्यस्य पञ्चमी-एकवचनमस्ति । अतः 'अवर्णात्' इति तस्य अर्थः जायते । अत्र तपरकरणम् नास्ति, यतः आकारस्य तपरकरणं न भवितुं शक्यते । 2) प्रथमैकवचनस्य प्रक्रियायाम् 'अनडुह् + सुँ' इत्यत्र वस्तुतः द्वयोः सूत्रयोः समानकाले प्रसक्तिः अस्ति - (अ) <<चतुरनडुहोरामुदात्तः>> 7.1.98 इत्यनेन आम्-आगमः । अयम् सर्वनामस्थाने परे भवति । (आ) <<सावनडुहः>> 7.1.82 इत्यनेन नुम्-आगमः । अयं सुँ-प्रत्यये परे भवति । वस्तुतः अत्र <<सावनडुहः>> 7.1.82 एतत् <<चतुरनडुहोरामुदात्तः>> 7.1.98 इत्यस्य अपवादः । अतः अत्र नुम्-आगमः एव भवेत्, आम्-आगमः न भवेत् । परन्तु एतादृशं कुर्मश्चेत् 'अनडुन्' इति दोषपूर्णमन्तिमरूपं जायते । साधु रूपम् तु 'अनड्वान्' इति अस्ति, तथा तस्य सिद्धौ नुम् तथा आम् - द्वयोः अपि आगमयोः उपस्थितिः आवश्यकी अस्ति । अतः <<सावनडुहः>> 7.1.82 इत्यस्मिन् सूत्रे 'आत्' इत्यस्य अनुवृत्तिः स्वीक्रियते । अनेन अयं उत्सर्ग-अपवाद-सम्बन्धः अपि विनश्यति, यतः अनडुह् + सुँ इत्यत्र केवलं <<चतुरनडुहोरामुदात्तः>> 7.1.98 इत्यस्यैव अवसरः जायते । (नुम्-आगमः मित्-अस्ति, अतः अन्यात् अचः परः भवति । परन्तु अनडुह्-इत्यत्र अन्तिमः अच्-वर्णः 'अ'वर्णः नास्ति । अतः अत्र अस्य सूत्रस्य प्रसक्तिः नास्ति ।) अतः अनेन सूत्रेण प्रथमसोपाने आम्-इत्यस्य आगमः क्रियते । अनेन आगमेन 'आ'कारस्य 'अनडुह्' इत्यत्र समावेशः भवति । ततः <<सावनडुहः>> 7.1.82 इत्यनेन नुम्-आगममपि कर्तुं शक्यते । 3) तथैव, सम्बोधनैकवचनस्य प्रक्रियायामपि 'अनडुह् + सुँ' इत्यत्र वस्तुतः द्वयोः सूत्रयोः समानकाले प्रसक्तिः अस्ति - (अ) <<अम् सम्बुद्धौ>> 7.1.99 इत्यनेन अम्-आगमः । अयम् सम्बुद्धेः सुँ-प्रत्यये परे एव भवति । (आ) <<सावनडुहः>> 7.1.82 इत्यनेन नुम्-आगमः । अयं सम्बुद्धेः सुँ-प्रत्यये परे तथा च प्रथमैकवचनस्य सुँ-प्रत्यये परे भवति । अत्र तु <<अम् सम्बुद्धौ>> 7.1.99 एतत् <<सावनडुहः>> 7.1.82 इत्यस्य अपवादः । अतः अत्र अम्-आगमः एव भवेत्, नुम्-आगमः न भवेत् । परन्तु एतादृशं कुर्मश्चेत् 'अनड्वट्' इति दोषपूर्णमन्तिमरूपं जायते । साधु रूपम् तु 'अनड्वन्' इति अस्ति, तथा तस्य सिद्धौ नुम् तथा अम् - द्वयोः अपि आगमयोः उपस्थितिः आवश्यकी अस्ति । अतः अत्रापि <<सावनडुहः>> 7.1.82 इत्यस्मिन् सूत्रे 'आत्' इत्यस्य अनुवृत्तिः स्वीकृत्य उत्सर्ग-अपवाद-सम्बन्धः विनश्यते । ततः प्रथमम् केवलं <<अम् सम्बुद्धौ>> 7.1.99 इत्यस्यैव अवसरः जायते , ततः च <<सावनडुहः>> 7.1.82 इत्यनेन नुम्-आगममपि कर्तुं शक्यते । अतः अत्र एतत् स्मर्तव्यम्, यत् (1) प्रथमैकवचनस्य रूपसिद्धौ नुम्-आगमेन आम्-आगमः न बाध्यते, (2) सम्बोधनैकवचनस्य रूपसिद्धौ अम्-आगमेन नुम्-आगमः न बाध्यते, यतः अस्मिन् सूत्रे 'आत्' इत्यस्य अनुवृत्तिः स्वीकृता अस्ति ।

Balamanorama

Up

<<सावनडुहः>> - सावनडुहः । अस्येति । अनुडुह्शब्दस्येत्यर्थः । नुम् स्यादिति ।आच्छीनद्योर्नुं॑मित्यतो नुमित्यनुवृत्तेरिति भावः । नुमि मकार इत् । उकार उच्चारणार्थः । मित्त्वादन्त्यादचः परः । अनड्वान् ह् स् इति स्थितम् । ननु आम्नुमौ एतौ मित्त्वादन्त्यादच उकारात्परौ प्राप्तौ । तत्र 'चतुरनडुहोः' इत्याम् सर्वनामस्थाननिमित्तकः सामान्यविहितः । 'सावनडुहः' इति नुम् तु सर्वनामस्थानविशेषे सौ विहितत्वाद्विशेषविहितः । स च निरवकाशत्वात्सामान्यविहितमामं बाधेत, सोरन्यत्राऽऽम्बिधेश्चरितार्थत्वात् । तथा च 'अनडुन्' इति स्यात् । 'अनड्वान्' इति न स्यात् । किंच सम्बुद्धौ हे अनडुह् सिति स्थिते 'अम् सम्बुद्धौ' इत्यमागम आमपवादोऽनुपदमेव वक्ष्यते । तत्र 'सावनडुहः' इति नुमपि प्राप्तः, सच सम्बुद्धावसम्बुद्धौ च विहितत्वात्सामान्यविहितः । 'अम्सम्बुद्धौ' इत्यम् तु सम्बुद्धावेव विहितत्वाद्विशेषविहितः । सच निरवकाशत्वात्सामान्यं नुमं बाधेत, असम्बुद्धौ सौ नुम्विधेश्चरितार्थत्वात् । ततश्च हे अनड्वन्निति न स्यात् । 'हो ढः' इति ढत्वे हे अनड्वट् इति स्यादित्याशङ्क्याह — आदित्यधिकारादित्यादि, नुम्न बाध्यत इत्यन्तम् । 'सावनडुहः' इति नुम्विधौ तावत् 'आच्छीनद्योः' इत्यत आदिति पञ्चम्यन्तमनुवर्तते । अतोऽनडुहोऽवर्णात् परो नुमिति लाभाद्विशेषविहितेनापि 'सावनडुह' इति नुमाचतुरनडुहो॑रिति सामान्यविहित आम्न बाध्यते, अवर्णात्परत्वेन विधीयमानं नुमं प्रति आम उपजीव्यत्वात्, उपजीव्योपजीवकयोर्विरोधाऽभावेन बाध्यबाधकभावविरहात्, प्रत्युत आमभावे नुमः प्रवृत्त्यसम्भवात् । तथा 'अम्संबुद्धौ' इत्यमा च विशेषविहिभावेन बाध्यबाधकभावविरहात्, प्रत्युत आमभावे नुमः प्रवृत्त्यसंभवादित्यर्थः । ननु 'सावनहुडः' इति नुम्विधौ आदित्यनु वर्ततां नाम, तथापि आमुपजीवकत्वं नुमो न लभ्यते, अनडुहि नुमो नकाराऽकारात्परत्वेऽपि आदित्यनुवृत्तेरविरोधादिति चेत्, मैवं-॒सावनडुहः॑ इति नुम्विधौ मित्त्वादन्त्यादच इत्युपस्थितम् । तत्र च आदित्यनुवृत्तमन्वेति । ततस्चानडुहि योऽन्त्यरूपोऽवर्णः तस्मात्परो नुमिति लभ्यते । नकाराकारस्तु नैवंविध इत्यामुपजीवकत्वं नुमो निर्बाधमेव । एवं संबुद्धौ अमुपजीवकत्वमपि ज्ञेयम् । क्वचित्पुस्तकेआमा च नुम् न बाध्यते॑ इति पठते । तत्रेयं योजना — ननुबह्वनड्वांहि कुलानी॑त्यत्र 'नपुंसकस्य झलचः' इति नुमपेक्षया परत्वादाम् स्यात् । कृते त्वामि पुनर्नुम्न भवति,विप्रतिषेषेन यद्बाधितं तद्बाधितमेवे॑ति न्यायादित्यत आह — ॒आमा च नुम्न बाध्यत॑ इति ।पुनः प्रसङ्गविज्ञानात्सिद्धम् इति क्वचिद्विप्रतिषेधेन बाधितस्य पुनरुन्मेषादामि कृतेऽपि 'नपुंसकस्य झलचः' इति नुम्निर्बाध इति भावः । सोर्लोप इति ।अनड्ववान् ह् स् इत्यत्र हल्ङ्यादिने॑ति शेषः । ननु कृते सुलोपे हकारस्य संयोगान्तलोपे नुमो नकारस्य पदान्तत्वात्वसुरुआंसुध्वंस्वनडुहां दः॑ इति दत्वं कुतो न स्यादित्यत आह — नुम्विधीति । यदि ह्यत्र नुमो नस्य दत्वं स्यात्तर्हि अनड्वाहित्यत्र नुमभावेऽपि हस्य दत्वेनैव अनड्वादिति सिद्धेर्नुम्विधिरनर्थकः स्यात् । अतो नुमो नस्य दत्वं नेति विज्ञायत इति भावः ।

Padamanjari

Up

इह चतुरनडुहोरामुदातः इत्यामागमः सर्वनामस्थानमात्रे विधीयमानः सोरन्यत्र सावकाशो निरवकाशेन नुमा बाध्येत, तथा सम्बुद्धेरन्यत्र सौ सावकाशो नुम् सम्बुद्धौ विशेषविहितेन अम् सम्बुद्धौ इत्यनेन बाध्येत इत्याशङ्क्याह - अत्र केचिदित्यादि । कथं पुनरादित्यास्यानुवृतौ सत्यामप्याममोः कृतयोर्नुम भवति, न पुनर्थ एवानडुहि नित्यः सन्निहितोऽकारस्तत एव परः स्यात् उच्यते एवं सति मिदचोऽन्त्यात्परः इति परिभाषा बाध्यते, तत्राबाधेनोपपतौ सत्यां बाधो न न्याय्यः । तत्र यथा परिभाषा न बाध्यते आदित्यनुवृत्तिश्च सार्थिका भवति, तथा वक्तव्यम् । यदि चाममोरकृतयोर्नुम् स्यात्, नेदमुभयमनुगृहीतं स्यादिति कृतयोरेव तयोर्नुम् भवि,यति । आमामौ च न बाध्येते इति । न केवलममेव न बाध्यते, अपि त्वाममावुभावपि न बाध्येते इत्यर्थः । अमत्र दृष्टान्तत्वेनोपातः । यथाऽम् न बाध्यते तथा आमिति भावः । न पुनरमो नुमा बाधशङ्का, अमो विशेषविहितत्वात् । आमम्भ्यां च नुमितित । न बाध्यते इति वचनविपरिणामेनानुषङ्गः । अत्रापि यथा आमा न बाध्यते तथाऽमापीत्यर्थः । न पुनरामा नुमो वाधशङ्का तस्य सामान्यत्वात् । अपरे त्वित्यादि । इच्छन्ति एइति वचनादिष्टिरेवेयमिति केचित् । अन्ये त्वाहुः - भवतु वा सामान्यविशेषयोः सन्निधौ बाध्यबाधकभावः, इह त्वनेकेन योगेन व्यवधानम्, असति हि सम्भवे बाधनं भवति, तथैह च अस्ति सम्भवो यदुभयं स्यादित्याममोर्नुमश्च समावेश इति । यथेति । अक्ष नाप्राप्ते द्विवर्चने दीर्घ आरभ्यते । अथ च सम्भावात्प्रकरणभेदाच्च समावेशः । बह्वनड्वांहि ब्राह्मकुलानीति परत्वादामि कृते पुनः प्रसङ्गविज्ञानात् नपुंसकस्य झलचः इति नुम् भवति ॥